Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 12
________________ प्रथमोऽध्यायः दृप्यद्दुष्टभुजङ्गसङ्गतिवशादापादमूलागतैरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते ॥' फलस्याशोकेषु ॥७॥ अनिबन्ध इति वर्तते । एवमन्यत्रापि । 'किं ते नम्रतया किमुन्नततया किं वा धनच्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं न स्वादूनि मृदूनि स्वादति फलान्याकण्ठमुत्कण्ठितः ॥' कृष्णपक्षे ज्योत्स्नायाः ॥८ ॥ शुक्लपक्षे त्वन्धकारस्य ॥ ९ ॥ यथा 'परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः । एको हिसितः पक्षः कौमुद्या तुल्ययाऽपि कृष्णोऽन्यः ॥' कुन्दकुड्मलानां कामिदन्तानां रक्तत्वस्य ॥ १० ॥ यथा 'व्याकोशकुन्दकुड्मलविमलदतीं यो विहाय राजिमतीम् । मुक्त्यङ्गनानुरक्तो बभूव नेमिः स वः पायात् ॥' कमलमुकुलानां हरितत्वस्य ॥११॥ यथा ‘उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया । तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥' १५ १६ प्रियङ्गपुष्पाणां पीतत्वस्य ॥१२॥ यथा 'प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः । जपार्तिहरणायास्तु स सञ्ज्ञानो जिनः सताम् ॥' दिवा नीलोत्पलादीनां विकासस्य ॥१३॥ यथा 'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमाँश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः ॥' दिवा शेफालिकाकुसुमानां विस्त्रंसस्य ॥१४॥ यथा 'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥ ' क्वचिदसतामपि भावानां निबन्धः ॥ १५ ॥ तद्यथा नदीषु नीलोत्पलादीनाम् ॥१६॥ काव्यानुशासनम् यथा 'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम् ॥' जलाशयमात्रे हंसानाम् ॥१७॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92