________________
प्रथमोऽध्यायः
दृप्यद्दुष्टभुजङ्गसङ्गतिवशादापादमूलागतैरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते ॥' फलस्याशोकेषु ॥७॥
अनिबन्ध इति वर्तते । एवमन्यत्रापि ।
'किं ते नम्रतया किमुन्नततया किं वा धनच्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं न स्वादूनि मृदूनि स्वादति फलान्याकण्ठमुत्कण्ठितः ॥' कृष्णपक्षे ज्योत्स्नायाः ॥८ ॥
शुक्लपक्षे त्वन्धकारस्य ॥ ९ ॥
यथा
'परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः । एको हिसितः पक्षः कौमुद्या तुल्ययाऽपि कृष्णोऽन्यः ॥' कुन्दकुड्मलानां कामिदन्तानां रक्तत्वस्य ॥ १० ॥
यथा
'व्याकोशकुन्दकुड्मलविमलदतीं यो विहाय राजिमतीम् । मुक्त्यङ्गनानुरक्तो बभूव नेमिः स वः पायात् ॥' कमलमुकुलानां हरितत्वस्य ॥११॥
यथा
‘उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया । तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥'
१५
१६
प्रियङ्गपुष्पाणां पीतत्वस्य ॥१२॥
यथा
'प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः । जपार्तिहरणायास्तु स सञ्ज्ञानो जिनः सताम् ॥' दिवा नीलोत्पलादीनां विकासस्य ॥१३॥
यथा
'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमाँश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः ॥'
दिवा शेफालिकाकुसुमानां विस्त्रंसस्य ॥१४॥
यथा
'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥ ' क्वचिदसतामपि भावानां निबन्धः ॥ १५ ॥
तद्यथा
नदीषु नीलोत्पलादीनाम् ॥१६॥
काव्यानुशासनम्
यथा
'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम् ॥' जलाशयमात्रे हंसानाम् ॥१७॥