________________
प्रथमोऽध्यायः
यथा
'अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीरोधसि । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥' पर्वतमात्रे स्वर्णरत्नगजानां निबन्धः ॥ १८ ॥
यथा
'क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् । श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥'
यथा च
'नीलाश्मरश्मिपटलानि महेभमुक्तसूत्कारसीकरविसृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥' तमसो मुष्टिग्राह्यत्वस्य ॥१९॥
यथा
'गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः | सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्ग स्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥' ज्योत्स्नायाः कुम्भोपवाह्यत्वादेः ॥२०॥
यथा—
'शङ्खद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् ।
१७
१८.
उत्सेक्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाञ्जलैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥' शिवचन्द्रमसो बालत्वस्य ॥२१॥
यथा
'कपालनेत्रान्तरलब्धमार्गैज्र्ज्योतिः प्ररोहैरुदितैः शिरस्तः । दिवापि निष्ठ्यूतमरीचिभारां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥' यशोहास्ययोः शौक्ल्यस्य ॥२२॥
यथा
काव्यानुशासनम्
'कर्पूरद्रुमगर्भधूलिधवलं यत् केतकानां त्विषः श्वेतना परिभूय चन्द्रमहसा सार्धं प्रतिस्पर्धते । तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशः प्रालेयाचलचूलिकासु भवतो गायन्ति सिद्धाङ्गनाः ॥'
यथा च
'गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथिः स्याः । श्रृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥' अयशः पापयोः कार्यस्य ॥ २३ ॥
यथा
'प्रसरन्ति कीर्तयस्ते तव च च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥'
यथा च
'तमश्चये महति निमज्जतः सतो
जनस्य सत्पथगतिदर्शनं दिशत् ।