Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमोऽध्यायः
'सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुग्धमलमर्थवचांसि । हारभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥' अर्थशास्त्रनैपुणं यथा'मत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तर रुधुक्ताः स्वनियोगसाधनविधौ सिद्धार्थकाद्याश्चराः । कृत्वा सम्प्रति कैतवेन कलहं मौर्येन्दुना राक्षसाद् भेत्स्यामि स्ववनेन भेदकुशलेनैष प्रतीपं द्विषः ॥' योगशास्त्रनैपुणं यथा'मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रणाशमिह लब्धसबीजयोगाः । ख्याति च सत्त्वपुरुषान्यतयाऽधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धम् ॥' । आदिशब्दाज्ज्योति:शास्त्रनैपुणं यथा'क्रूरग्रहः स केतुश्चन्द्रमसं पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बलाद्रक्षत्येनं तु बुधयोगः ॥' गजलक्षणनैपुणं यथा'भद्रात्मनोर्दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' अश्वलक्षणनैपुणं यथानिर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणसुरभि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥
काव्यानुशासनम् रत्नपरीक्षानैपुणं यथा'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्नेमिः ॥' द्यूतशास्त्रनैपुणं यथा'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन् द्वाविवाक्षौ कालः काल्या सह बहुकल: क्रीडति प्राणिशारैः ॥' धनुर्वेदनैपुणं यथा'स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श वक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' एवमन्यदपि। काव्यज्ञशिक्षया परिशीलनमभ्यासः ॥४॥ काव्यं कर्तुं विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः । शिक्षामाचक्षतेतत्र कविसमये सतामपि भावानां केषाञ्चिदनिबन्धः ॥५॥ तद्यथा-मालत्या वसन्ते । यथा'मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥' पुष्पफलयोश्चन्दनद्रुमे ॥६॥ अनिबन्ध इति वर्तते । यथा'सा छाया स च सुन्दरः परिमलस्ते कोमला: पल्लवा भ्रातश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92