Book Title: Kavyanushasanam Author(s): Prashamrativijay Publisher: Pravachan Prakashan Puna View full book textPage 7
________________ काव्यानुशासनम् प्रथमोऽध्यायः द्वीपसमुद्राः । कविसमयश्चायम्'जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽन्तः क्रमोऽन्तः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिमण्डलीभिः ॥' लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयःपयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥ तत्र चैक एव समुद्र इति केचित्'द्वीपान्यष्टादशानि क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डै रेकाम्भोधिदिगन्तप्रसृमरसलिलः प्राज्यमेतत्सुराज्यम् । कस्मिन्नव्याजकेलिव्यतिकरविजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्चकोप ।' त्रय इत्यन्ये'कान्तिश्रीहीधृतिमतिमुखा योषितोऽनेन तावत् पार्वे न्यस्ताः किमु तदधुना दुर्भगाऽहं करोमि । कौन्तेयेन्दोस्तदिति सुचिरं चिन्तयित्वेव सेा प्रोल्लध्याब्धित्रितयमगमत् कीर्तिकान्ता परस्तात् । चत्वार इत्यपरे'भ्रान्तं चतुर्जलधिसीम्नि मया पृथिव्यामीदृग्न देवभवनं न च मण्डपश्रीः । अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिर्महाभ्युदयिनी लिखति प्रशस्तिम् ।' सप्तेत्यपरे'सावष्टम्भनिशुम्भनिर्भरनमद्भगोलनि:पीडन न्यञ्चत्कर्परकूर्मकम्पविलसद्ब्रह्माण्डभाण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे वन्दितनीलकण्ठपरिषद्व्यक्तद्धि वः क्रीडितम् ॥' 'त्रिमेखलः स्वर्णमयो विशालस्थालवर्तुलः । जम्बूद्वीपस्य मध्येऽस्ति मेरुराद्यो महीभृताम् ॥' तदपेक्षया दक्षिणतो भारतं वर्षमिदम् । अस्य नव खण्डानीत्येके'मृदित्वा दो:कण्डूं समरभुवि वैरिक्षितिभुजा भुजादण्डे दधुः कति न नवखण्डां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप तत्कस्य सदृशम् । षट् खण्डानीत्यपरे'षट्खण्डखण्डाजगतीमण्डलाखण्डलोऽभवत् । भूभर्ता भरतो नाम नाभिनन्दननन्दनः ॥' तस्मिश्च भरतक्षेत्रे'विन्ध्यश्च पारियात्रश्च शक्तिमानक्षपर्वतः । माहेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥' तत्र विन्ध्यादयः प्रसिद्धवृत्तान्ता एव । मलयास्तु चत्वारः । तत्र प्रथमो यथा'एलालवङ्गलवलीकक्कोलं जातिमरिचजन्मपदम् । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ॥' द्वितीयो यथा'तस्मिन् विद्रुमभूरुहः प्रतिपदं वेशेषु मुक्ताफलं रत्नानां खनयः पुनाति च मुनिः श्रृङ्गाणि कुम्भोद्भवः ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 92