Book Title: Kavyanushasanam Author(s): Prashamrativijay Publisher: Pravachan Prakashan Puna View full book textPage 6
________________ प्रथमोऽध्यायः व्यवहारज्ञानं चाणक्यादिनीतिशास्त्रेभ्योऽपि देवगुरुचरणपरिचरणतपश्चरणकरणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्च त्रिवर्गफलसिद्धिः, कान्तातुल्यतयोपदेशश्च कादाचित्कः स्यात् । अतः कीर्तिरेवैका काव्यहेतुः । अन्यथा कथमनेककालातिक्रान्ताः क्षितिपतयः प्रत्यक्षा इव शास्त्रेषु प्रपञ्च्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति, किं तैः किमप्यमरसदनादिकं कृतं न स्यात् । यदाहअमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संपुष्टाऽपि प्रणश्यति तत्क्षये । तदलममलं काव्यं कर्तुं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ व्युत्पत्त्यभ्याससंस्कृता प्रतिभाऽस्य हेतुः ॥२॥ प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणधरादीनामिव सहजा, देवतापरितोषौषधादिहेतुका कालिदासादीनामिवौपाधिकी । एतामपि वयं कर्मक्षयहेतुकामेव मन्यामहे । प्रतिभैव च कवीनां काव्यकरणकारणम् । व्युत्पत्त्यभ्यासौ तस्या एव संस्कारकारकौ न तु काव्यहेतू । दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ । व्युत्पत्ति व्याचष्टे लोके स्थावरजङ्गमरूपे तत्स्वरूपे च लक्षणप्रमाणसाहित्यच्छन्दोऽलङ्कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषकामार्थयोगादिशास्त्रेषु च निपुणता व्युत्पत्तिः ॥३॥ लोकश्चतुर्दशरज्ज्वात्मकं जगत् । तच्चैकद्वित्रिचतुःसप्तचतुर्दशैकविंशतिसङ्ख्यामतैरनेकधा भवति । तत्र चैकं यथा 'यदाज्ञया स्खलितमिदं न लङ्घते ४ निजं निजं जगदवधिं कदाचन । तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ द्वे यथा 'रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्त सुन्तती वैबुधं पदम् ॥' त्रीणि यथा ' स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैकजन्तोर्व्याप्तं जगत्त्रयम् ॥' सप्त यथा 'संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्ते: प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥ ' चतुर्दश यथा 'न्याय्यस्वभावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा । श्रीराहडस्य भुवनानि चतुर्दशापि संरोहति स्म वितता खलु कीर्तिवल्लिः ॥' एकविंशतिरित्यपरे काव्यानुशासनम् ‘हरहासहरावासहरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥' तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः । तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असङ्ख्याताPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 92