Book Title: Kavyanushasanam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 5
________________ काव्यानुशासनम् प्रथमोऽध्यायः प्रणिपत्य प्रभुं नाभिसम्भवं भक्तिनिर्भरः । विवृणोमि स्वयमहं निजं काव्यानुशासनम् ॥ ग्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेयसम्बन्धप्रयोजनप्रतिपादनाय च कौन्तेय-कुल-कमल-विकासनैक-भास्करस्य दुस्तरतर-समस्तशास्त्रापारपारावार-गहनमध्यावगाहना-मन्दमन्दरस्य विलसत्कलिकाल-के लिकमलिनी-कुलमूलोन्मूलन-मत्तमतङ्गजस्य सकललिपिभाषाविशेषसम्मुखीनशेमुषी-मतिमुखर-मुखी(मूकी)कृताशेषविशेषज्ञस्य निखिलकविकुलामान-सन्मानदान-समुपाजितोज्झितवितत-कीर्तिलता-व्याप्ताखण्डब्रह्माण्डमण्डपस्य दुष्टकर्माष्टक - गाढ-करहाटविटपि-प्रोत्पाटनपटिष्ठपरमेष्ठिपृष्ठ-श्रीमदरिष्टनेमि-चरणकमलमधुकरस्य दुर्धरतर-धर्मधुराधरणैकबन्धुर-धुरन्धरस्याऽगण्य-पुण्य-लावण्य-पण्यापणिक-निपुण-गणिकागणेक्षण-प्रतिक्षणनिपीयमान-सर्वाङ्गसौभाग्याप्रतिमरूप-संपत्पराजितरतिपतिप्रतिपन्न-सेवासर्वस्व-स्वयंसिद्ध-कार्मणकर्मातिपरवश-रमणीयरमणीगणस्य सकलजनचेतश्चमत्कारित-मेदपाट विषयप्रतिष्ठित-श्रीमत्पार्श्वजिनयात्रामहोत्सवसमुद्भताभु तयशःप्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरिस्पधि श्री राहडपुरसतिष्ठापितसुप्रतिष्ठहिमगिरि-शिखरानुकारिरमणीयशुभ्राभ्रंलिहश्रीमन्नेमिजिनवरागारोत्तुङ्गशृङ्गोत्सङ्ग-सङ्गतसौवर्णध्वजाग्रलम्बमान-किङ्किणीझणत्कार-वित्रासितरविरथतुरङ्गमस्याऽमन्दमन्दरायमान-यानपात्रशतसहस्र-मथ्यमानमहाब्धिमध्य-समुल्लसल्लक्ष्मीलक्षितवक्षःस्थलस्य निजभुजयुगलोपार्जिताजितवित्तजात-जनितन लोटक-पुरप्रतिष्ठितत्रिभुवनाद्भुत-श्रीनाभिसम्भवजिनसदनप्राग्भागनिर्मापित-द्वाविंशति देवगृहिकामण्डलस्य निजाग्रजवर श्रीराहडपादपङ्कजाविचलभक्ति-गुणावगणितलक्ष्मणस्य सकलसीमन्तिनी-सीमन्तरत्नायमान-सुगृहीत-नामधेयश्रीमन्-महादेवी-कुक्षि-शुक्तिशौक्तिकेयस्य श्री मक्कलपा-भिधानप्रधानदुग्धोदधि-समुद्भूताद्भुत-नित्योदितनिस्तन्द्र चन्द्रस्य वसुन्धरावधूहृदयहारस्य श्रीमन्नेमि-कुमारस्य नन्दनो विनिर्मितानेकनव्यभव्यनाटकच्छन्दोऽलङ्कारमहाकाव्य-प्रमुखमहाप्रबन्धबन्धुरोऽपारतरशास्त्रसागरसमुत्तरणतीर्थायमानशेमुषी-समभ्यस्तसमस्तानवद्यविद्याविनोदकन्दलितसकलकलाकलापसम्पदुद्भटो महाकविः श्री वाग्भटोऽभीष्टदेवतानमस्कारपूर्वमुपक्रमते । यथा सर्वार्धमागधी सर्वभाषासु परिणामिनीम् । सर्वपां सर्वतो वाचं सार्वज्ञी प्रणिदध्महे ॥१॥ विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः । विदुषां हर्षपोषाय वच्मि काव्यानुशासनम् ॥२॥ तद्यथा काव्यं प्रमोदायाऽनर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्गफललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च ॥१॥ चतुरचेतश्चमत्कारकारि कवेः कर्म काव्यम् । तच्च कवेः श्रोतुश्च सुधानिस्यन्दसुन्दरं प्रमोदमुत्पादयति, बाणमयूरादीनामिव रोगा धनर्थ निहन्ति, हेयोपादेयविवेचनाद्व्यवहारकौशल्यं जनयति, तत्त्वावबोधद्वारेण नृपादिपरितोषणेन शृङ्गाररसप्राधान्येन च पुरुषार्थत्रयफलमाकलयति, कान्तेव सरसतापादनेन सम्मुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युपदिशति । अयं खलु समयो महाकवीनाम् ॥ वयं तु कीर्तिमेवैकां काव्यहेतुतया मन्यामहे । यतःतावत्प्रमोदः सुलभो लाभादिनापि, अनर्थपरिहारः प्रकारान्तरेणापि,

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 92