Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 20
________________ प्रसीद । नार्हस्यखेदाए हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेण विषमूर्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् । अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसंपिण्डिताङ्ग्यः, परशुरामशरविवरविनिर्गता इव राजहंसपङ्क्तयः, कलहंसकलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिपुरैः पतत्कर्णपूरपल्लवोल्लासितैश्चाज्ञाश्रवणाय धावद्भिरिव श्रवणैर्मीक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षिप्तानि चामराणीव वहन्त्यः समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णोत्पलमधुकरैः 'समाज्ञापय' इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखक - *********** योग्या त्वं हृदये स्वान्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः क्रोधस्तस्य वेगं रयं संहर त्यज । कोपवृद्धिं मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृहीत्वागतैव । अथेति । तच्छ्रवणानन्तरं विषमूर्छिता विषापहरणमन्त्रेणेव । अनेन देवनाम भवन्नामग्रहणं गर्भेयस्मिन्नेवंविधेन मम पत्रलेखाया वचसा वाक्येन झटिति शीघ्र नयने नेत्रे उन्मील्योद्घाट्य सस्पृहं स्पृहायुक्तं यथा स्यात्तथा मां पत्रलेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत्पप्रच्छ । इतीति किम् । अस्मिन्नासत्रप्रदेशे समीपस्थले कः । तिष्ठतीति शेषः । अथेति । तदनन्तरं कन्यका कुमार्यः समधावंस्त्वरितं चेलुः । कन्यका विशेषयन्नाह - धवलेति । धवलैः शुभैर्वसनैर्वस्त्रैरुल्लासिताः शोभिता गात्रयष्टयो देहलता यासां ताः । द्वारेति । द्वारप्रदेशे प्रतोलीदेशे संपिण्डितानि संकोचितान्यङ्गानि शरीराणि याभिस्ताः । उत्प्रेक्षते - परशुरामस्य जामदग्न्यस्य शरविवरेण बाणच्छिद्रेण विनिर्गता राजहंसानां पङ्क्तय इव । शुभ्रवस्त्रावृतत्वेन तासां हंसपङ्क्तिसाम्यं । तदुक्तं काव्यप्रकाशे - 'साधर्म्यमुपमाभेदे' इति । किंविशिष्टाः कन्यकाः । नूपुरैश्चरणभूषणैरुपलक्षिता ज्ञाताः । उपलक्षणे तृतीया । नूपुराणि विशेषयन्नाह - कलेति । कलहंसानां कादम्बानाम् - 'कादम्बास्तु कलहंसाः' इति हैमः । तेषां कला मनोहरा य आलापाः शब्दास्त इव मधरा मिष्टा ये रखाः शब्दास्तैः प्रतिवाचं प्रत्यत्तरं प्रयच्छद्भिर्ददद्भिरिख । च पनरर्थे । पनः किंविशिष्टाः । श्रवणैः कर्णेरुपलक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णपरस्य कर्णाभरणस्य पल्लवाः किसलयास्तैरुल्लासितैरुद्भासितैः । अतएवोत्प्रेक्षते श्रवणैः कीदृशैरिव । आज्ञाया निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव । पुनः किं कुर्वन्त्यः । वहन्त्यो धारयन्त्यः । कानि । मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः । स्वार्थे कः । 'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उप्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे निक्षिप्तानि स्थापितानि चामराणीव वालव्यजनानीव । पुनः किंविशिष्टाः । समाहतानि ताडितानि कपोलस्थलानि गलात्परप्रदेशा यैरेवंविधैः कुण्डलैर्बलाद्धाद्वाह्यमाना इवोत्पाद्यमाना इव । पुनः किं कुर्वन्त्यः । कर्णोत्पलानां श्रवणकुवलयानां वाचालैर्मधुकरैभ्रमरैरिति व्याहरन्त्य इति वदन्त्य इव । इतीति किम् । समाज्ञापय । आज्ञा देहीत्यर्थः । आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यषीदत् । अतिष्ठदिति क्रियासंटङ्कः । किं कुर्वन्ती । - - - - - - - - - - - - -- - - टिप्प० -1 कार्तिकेयस्य स्पर्धया, शरेण कौञ्चपर्वतविवरं विधाय तद्वारेण अवरुद्धा हंसपङ्क्तयो निःसारिता जामदग्न्येनेति महाभारतकथाऽनुसंधेया । 2 कर्णैः (करणैः) मौक्तिककुण्डलांशुजालकानि वहन्त्य इति स्पष्टोऽर्थः । अस्तु. 3 बलपूर्वकं गमनाय प्रेर्यमाणा इत्यर्थः । पाठा० - १ बहुलसित. २ समुल्लसित. ३ द्वारदेशसंदण्डिताः; द्वारप्रदेशप्रवेशसंपिण्डिताङ्ग्यः . ४ कलहंस. ५ कलापमधुरालापैः. ६ समन्तात्समधावन्. ७ आज्ञा प्रतीक्षमाणासु. (कादम्बर्या वृत्तान्तश्रवणम् । उत्तरभागः । 493

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 246