Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 19
________________ ण्डनविलसितानि । नैनमन्धकारराशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहारनिकरस्तिरोदधाति' इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारसप्लावेनेव रक्ततामगादिवसः । तत्क्षणं प्रकटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशयनमिव संध्यारागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलेतल्पमकल्पयत्प्रदोषः । अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्धतैलावसिक्तसुरभिगन्धोद्गारिणीभिदीपिकाभिर्विरचितचक्रवालिका बालिकाः पर्यवारयन् । अथ निर्मललावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वेलितानि मदनसायकस्य शल्यकानीवाङ्गलग्नानि समुदहन्तीं नवनिरन्तरकलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम् - 'देवि, - *********** वासरो रक्ततामरुणतामगाज्जगाम । किमित्याकाङ्क्षायामाह - नैनमिति । अन्धकारस्य ध्वान्तस्य राशिः समूह एनं सूर्यं नान्तरयति । नान्तरायीकरोतीत्यर्थः । तथा जलधरस्य मेघस्य धारापातो जलासार एवं न स्थगयति । न स्तम्भयतीत्यर्थः । नीहारस्य हिमस्य निकरः समूह एनं सूर्यं न तिरोदधाति न च्छादयति । तत्क्षणमिति । मद्रागो न्यून इति त्रपया लज्जया पलायमानं नश्यमानं रविमण्डलं सूर्यबिम्बमदृश्यतावीक्ष्यत । जनैरिति शेषः । कीदृशम् । तत्क्षणं तत्कालं प्रकटित आविष्कृतो रागो येन तत्तथा । रक्तत्वसाम्यदाह - कादम्वर्या हृदयमिव स्वान्तमिव । यामिनीति । यामिनी रात्रिः संध्यारागमरचयदकरोत् । रक्तत्वसाम्यादाह - पल्लवेति । पल्लवानां किसलयानां शयनं शय्या तदिव । परिचारक इवेति । परिचारक इव सेवक इव प्रदोषो यामिनीमुखं चन्द्रं शशिनं मणेः शिलातलं मणिशिलातलं तल्पं शय्यामकल्पयदरचयत् । अत्रान्तर एवंविधसमये दूरतो दीपिकाधारिण्यो बालिका आगत्य पर्यवारयन्दूरीचक्रुः । अन्धकारमिति शेषः । एकीबभूवुरिति वा । किं कुर्वन्त्यः निरन्तरं दीपिकाः कर्तव्या इति स्वं स्वं स्वकीय स्वकीयं नियोगमादेशमशून्यमवन्ध्यं कुर्वाणा विदधानाः । किंविशिष्टाः । विरचितेति । विरचिता निष्पादिताश्चक्रवालिका मण्डलं याभिस्ताः । काभिः दीपिकाभिः 'दीवी' इति जनप्रसिद्धाभिः । दीपिकाभिः कीदृशीभिः । गन्धतैलं सुगन्धस्नेहस्तेनावसिक्ताः सिञ्चिताः सुरभिगन्धमुद्गिरन्तीत्येवंशीलाभिः । अथेति । दीपिकानमनानन्तरमहं ताम् । पत्रलेखामिति शेषः । पुनर्व्यजिज्ञपं विज्ञप्तिमकार्षम् । कीदृशीं ताम् । समुद्वहन्ती धारयन्तीम् । कानि । दीपिकानां प्रतिबिम्बानि प्रतिच्छायारूपाणि प्रतिबिम्बानि । कीदृशानि । निर्मलं स्वच्छं यल्लावण्यं लवणिमा तेन लक्षितानि ज्ञातानि । अतिसुन्दरलावण्ये प्रतिबिम्बितानीत्यर्थः । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ उत्प्रेक्षते - मदनसायकस्य कामबाणस्य ज्वलितानि घुषितान्यङ्गलग्नानि शल्यकानीवानिःसृताग्राणि बाणानीव । पुनः कीदृशीं ताम् । चम्पकस्य हेमपुष्पकस्य लतामिव शाखामिव तथास्थिताम् । चम्पकलतां कीदृशीम् । नवाः प्रत्यग्रा निरन्तरा । व्यवधानरहिता याः कलिकाः कोरकास्ताभिश्चितां व्याप्ताम् । अत्र सरलत्वंसादृश्याछरीरस्य चम्पकलतोपमानम् । दीपिकाप्रतिबिम्बानां कोरकाकृतित्वेन कलिकोपमानम् । कां विज्ञप्तिं कृतवतीत्याशयेनाह - देवीति । हे देवि कादम्बरि, त्वं प्रसीद प्रसन्ना भव । तथा खेदाभावोऽखेदस्तस्मै अर्हा - - - - - - - - - - - - टिप्प० - 1 'एनं संकल्पमयं प्रियमित्यर्थो बोध्यः । 2 बालिकाः कादम्बरी पर्यवेष्टयन इति स्पष्टोर्थः । 3 विरचितं चक्रवालं याभिस्ताः, बहुव्रीह्यवयवः कप् । 4 तां कादम्बरीमिति बोध्यम् । पाठा० . १ प्लवेन परेण. २ तलम्. ३ स्वनियोगम्. ४ अवसेकसुरभिधूम. ५ चलन्ति. ६ सायकशल्यानि. ७ तथावस्थिताम्. (4921 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 246