Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कादम्बरी विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः । उषस्सु लग्नाः श्रवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ।। १४ ।। विधानसम्पादितदानशोभितैः स्फुरन्महावीरसनाथमूतिभिः ।
मखैरसंख्यैरजयत् सुरालयं सुखेन यो यूपकरैर्गजैरिव ।। १५ ॥ दुग्धमहासागरात्, क्षपाकर इव = चन्द्र इव, विनतोदरात् = विनताऽऽख्यकश्यपपत्नीकूक्षेः. सुपर्ण इव = गरुड इव, ततः = तस्मात्, प्रकृतात् कुबेरद्विजादिति भावः, द्वि जन्मनां = ब्राह्मणानां, पतिः = श्रेष्ठः, अर्थपतिः = अर्थपतिनामकः पुत्रः, अभूत् = संजातः ॥ १३ ॥
टिप्पणी--भुवनाऽण्डकात् = भुवनस्याऽण्डकं, तस्मात् (१० त० )। हिरण्य गर्भ:= हिरण्यं गमें यस्य सः ( व्यधिकरणबहु० )"हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ।" इत्यमरः । क्षीरमहार्णवातमहांश्चाऽसौ अर्णवः (क० धा० ) क्षीरस्य महार्णवः, तस्मात् (ष० त० )। क्षपाकरः =क्षपां करोतीति तच्छीलः, "कृत्रो हेतुताच्छील्याऽऽनुलोम्येषु" इससे टप्रत्यय । क्षपा+ कृ+ट (उपपद०)! "द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।" इत्यमरः । विनतोदरात् = विनताया उदरं, तस्मात् (ष० त० )। द्विजन्मनां% द्वे जन्मनी येषां ते द्विजन्मानः, तेषाम् (बहु०)। इस पद्यमें मालोपमा अलङ्कार है ।।१३।।
अन्वयः--नवा नवाः शिष्यगणा दिने दिने उषःसु विसारि वाङ्मयं विवृण्वतः यस्य कर्णे लग्नाः ( सन्तः ) चन्दनपल्लवा इव अधिकां श्रियं प्रचक्रिरे ।। १४ ।।
विषण्वत इति । नवा नवाः = नूतना नूतनाः, शिष्यगणाः = छात्रसमूहाः, दिने दिने = प्रतिदिनम्, उष:सु = प्रातःकालेषु, विसारि = विसरणशीलं, वङ्मयं = शास्त्रं, विवृण्वतः = विवरणं कुर्वतः, यस्य = अर्थपते: गुरोः, कर्णे = आकर्णने, श्रोत्रे वा, लग्नाः = आसक्ताः सन्तः, चन्दनपल्लवा इव = श्रीखण्डकिसलयानि इव, अधिकां=प्रचुरां, श्रियं = शोभां, प्रचक्रिरे= विस्तारितवन्त इति भावः ॥ १४ ॥
टिप्पणी -शिष्यगणाः =शिष्याणां गणाः ( ष० त०)। विसारि =विसरतीति तच्छीलं वि + सृ + णिनिः + सुः )। विवृण्वतः = विवृणोतीति विवृण्वन्, तस्य, वि + वृञ् + लट् ( शतृ )+ इस् । चन्दनपल्लवा: = चन्दनस्य पल्लवाः (ष० त० )। जैसे चन्दनके पल्लव स्त्रियोंके कानमें संलग्न होते हुए अधिक शोभा फैलाते हैं-वैसे ही छात्रगण अर्थपतिके शास्त्रश्रवणमें संलग्न होकर उनकी शोभाको बढ़ाते थे यह भाव है । इस पद्यमें उपमा अलङ्कार है ।। १४ ॥
अन्वयः--यो विधानसम्पादितदानशोभितः स्फुरन्महावीरसनाथमूर्तिभिः यूपकरः गजः इव विधानसम्पादितदानशोभितः स्फूरन्महावीरसनाथमूर्तिभिः असंख्यः मखैः सुखेन सुरालयम् अजयत् ॥१५॥
विधानेति । यः = अर्थपतिः, विधानसम्पादितदानशोभितैः = खाद्यविधिविहितमदजलशोभासम्पन्नः, स्फुरन्महावीरसनाथमूर्तिभिः = संचलन्महाभटयुक्तशरीरैः, यूपकरः = पशुबन्धनकाष्ठसमशुण्डादण्डः, तादृशः, गजः इव = हस्तिभिः इव, विधानसम्पादितदानशोभितः = शास्त्रविध्यनुष्ठितवितरणशोभासम्पन्नः, स्फुरन्महावीरसनाथमूर्तिभिः = दीप्यमानमखाऽग्नियुक्तस्वरूपः, असंख्यः = अपरिमितः, मखैः = यज्ञः, सुखेन = अनायासेन, सुराऽऽलयं = स्वर्गम् । अजयत् = जितवान्, अलभतेति भावः ॥१५॥
टिप्पणी--विधानसम्पादितदानशोभितैः = विधानेन सम्पादितम् (तृ० त०), तच्च तत् दानं ब्राह्मणसे ब्राह्मणोंमें श्रेष्ठ अर्थपति उत्पन्न हुए ॥ १३ ।।
नये नये छात्रगण प्रतिदिन प्रातःकाल सविस्तर शास्त्रका विवरण करनेवाले जिन आचार्य अर्थपतिके शास्त्रविवरणके श्रवणमें अथवा कानमें संलग्न होते हुए चन्दनके पल्लवोंके समान अधिक शोभाको फैलाते थे ॥ १४ ॥
जिन अर्थपतिने विशेष खाद्यविधिसे सम्पादित मदजलसे शोभित, प्रकाशमान बड़े योद्धासे युक्त शरीरवाले, यूपके समान लम्बे सैंडसे युक्त हाथियोंके सदृश विधिपूर्वक किये गये दानसे शोभित दीप्यमान यज्ञके अग्निसे युक्त स्वरूप वाले अगणित यज्ञोंसे अनायास ही स्वर्गको जीतलिया ( प्राप्त किया ) ॥ १५ ॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172