Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-जाबाल्याश्रमवर्णनम्
१२३ तापसम्, इभ-कलभार्बोपभुक्तपतितः सरस्वती-भुजलता-विगलितैः शङ्खवलयैरिव मृणालशकलेः कल्माषितम्, ऋषिजनार्थमेणविषाण-शिखरोत्खन्यमानविविध-कन्दमूलम्, अम्बुपूर्णपुष्कर-पुटेर्वनकरिभिरापूर्य्यमाण-विटपालवालकम्, ऋषिकुमारकाकृष्यमाणवनवराहदंष्ट्रान्तराल-लग्न-शालूकम्, उपजात-परिचयैः कलापिभिः पक्षपुटपवन-सन्धुक्ष्यमाणमुनिहोम-हुताशनम्, आरब्धामृत-चरु-चारुगन्धम्, अर्द्धपक्क पुरोडाश-परिमलामोदितम्, अविच्छिन्नाज्यधाराहुति हुतभुग्झङ्कार-मुखरितम्, उपचर्यमाणातिथिवर्गम्, पूज्यमानपितृ-दैवतम्, अय॑मान-हरि-हर-पिता
इभेति । इमकलमानाम् ( हस्तिशावकानाम् ), अत्र कलमपदेनैव हस्तिशावकरूपाऽर्थबोधेऽपि पुनरिभपदस्य "विशिष्टवाचकानां पदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम्" इति न्यायेन शावकरूपाऽर्थपरत्वाद्दोषाऽभाव इत्यवधेयम् । अर्कोपभुक्तेभ्यः (सामिमक्षितेभ्यः ) पतितानि (स्रस्तानि) तैः, "मृणालशकल:" इत्यस्य विशेषणम् । सरस्वतीभुजलताविगलितः= सरस्वत्याः ( शारदायाः) भुजलते (बाहुवल्ल्यौ ) ताम्यां, विगलितः ( सस्तैः ), शङ्खवलयः (कम्बुकङ्कणः ) इव, मृणालशकलै: (बिसखण्ड:)। कल्माषितम् ( चित्रितम् )। अत्रोत्प्रेक्षाऽलङ्कारः ।
ऋषोति । ऋषिजनाऽथ = मुनिजनार्थम्, एणकः = मृगैः, विषाणेत्यादि = विषाणशिखरः (शृङ्गप्रान्तः ) उत्खन्यमानानि ( अवदार्यमाणानि ) विविधानि ( अनेकप्रकाराणि ) कन्दमूलानि ( शस्यमूलशिखाः ) यस्मिस्तम् ।।
अम्बपूर्णेति । अम्बुपूर्णपुष्करपुटः = अम्बुपूर्णानि ( जलपूरितानि ) पुष्करपुटानि ( शुण्डाऽग्राणि ) येषां, तैः, "पुष्करं करिहस्ताऽग्ने वाद्यमाण्डमुखे जले।" इत्यमरः । वनकरिमिः = अरण्यगजः, आपूर्यमाणविटपालवालकम् = अपूर्यमाणानि ( संभ्रियमाणानि ) विटपानाम् (वृक्षाणाम् ) आलवालकानि ( आवापाः ) यस्मिन्, तम् ।
ऋषीति । ऋषिकुमारकः ( मुनिमाणवकः ) आकृष्यमाणानि। ( क्रियमाणाकर्षणानि ) वनवराहाणाम् ( अरण्यशूकराणाम् ) दंष्ट्राऽन्तराललग्नानि ( दीर्घदशनाभ्यन्तरसंबद्धानि ) शालूकानि ( कमलकन्दाः ) यस्मिन्, तम् । “शालूकमेषां कन्द: स्यात्' इत्यमरः ।
उपजातेति । उपजातपरिचयः सञ्जातसंस्तवः, पूर्वपरिचितैरितिभावः । कलापिभिः = मयूरः, पक्षपुटेत्यादि: = पक्षपुटयोः (पतत्रपुटयोः ) पवनेन ( वायुना ) संधुक्ष्यमाणः ( सन्दीप्यमानः ) मुनीनां ( तापसानाम् ) होमहुताऽशनः ( हवनाऽग्निः ) यस्मिस्तम् ।
____ आरब्धेति । आरब्धः (विहितः ) यः अमृतचरुः ( हुतशेषौदनः ) तस्य चारुगन्धः ( मनोहरामोदः ) यस्मिस्तम् ।
__अर्द्धपक्वेति । अद्धपक्वः ( सामिजातपाकः) यः पुरोडाशः ( हविविशेषः ) तस्य परिमल: (जनमनोहरो गन्धः ) तेन आमोदितम् ( संजातगन्धम् )।
अविच्छिन्नेति । अविच्छिन्ना (विच्छेदरहिता, अत्रुटितेति भावः ) या आज्यधारा (घृतद्रवपरम्परा ) तस्या आहुतिः ( हवनम् ) तया हुतभुजः ( अग्नेः ) झंकारः ( समित्याकारको ध्वनिः ) तेन मुखरितम् (ध्वनितम् ) । उपचर्यमाणेत्यादिः = उपचर्यमाण: ( उपास्यमानः ) अतिथिवर्गः ( प्राघुणिकसमूहः ) यस्मिस्तम् । पूज्यमानपितृदेवतं = पूज्यमानानि ( अर्यमानानि ) पितृदेवतानि ( पित्रादयः खाकर गिरे हुए मृणालके टुकड़ोंसे मानों सरस्वतीकी बाहुलतासे शङ्खोंके कङ्कणोंसे चित्रित था, जहां ऋषिजनोंके लिए मृगोंके सींगकी नोकसे अनेक कन्दमूल खोदे जा रहे थे। जहां जङ्गली हाथी जलसे भरे हुए सूंड़के अग्रभागसे पेड़ोंकी क्यारियोंको भर रहे थे, कहीं ऋषिकुमारोंसे जङ्गली सूअरोंकी डाढ़ोंके बीचमें लगे कमलोंके कन्द खींचे जा रहे थे, कहींपर परिचित (पालतू) मृग पझोंकी हवासे मुनियोंके होमके लिए आग सुलगा रहे थे। कहीं हुतशेष चरुकी गन्ध आ रही थी, आधे पके पुरोडाशके परिमलसे सुगन्धित, लगातारकी गई घृतधाराकी आहुतिसे अग्निके झङ्कारसे

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172