Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 144
________________ १२७ कथामुखे–जाबाल्याश्रमवर्णनम् मण्डल-सनाथमपि सदा-सन्निहित-तरु-गहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् । ___ यत्र च मलिनता हविधूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेाकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीषु, अपि, पवित्रं = पूतम्, अत्र विरोधः । तत्परिहारस्तु–मातङ्गकुलेन ( हस्तिसमूहेन ) अध्यासितम् । "मातङ्गः श्वपचे गजे।" इति मेदिनी । उल्लसितेति । उल्लसितधूमकेतुशतम् = उल्लसितम् ( उद्दीप्तम् ) धूमकेतूनाम् ( उत्पातसूचकग्रहाणाम् ) शतम् ( समूहः ) यस्मिस्तमपि प्रशान्तोपद्रव = प्रशान्तः ( निवृत्तः ) उपद्रवः ( उत्पातः ) यस्मिस्तम् । अत्र विरोधः, तत्परिहारस्तु-उल्लसितं, धूमकेतूनाम् ( अग्नीनाम्, धूमः केतुः = चिह्नम् येषां त इति विग्रहेणेति भावः ) शतं यस्य तम् । “वह्नयुत्पातौ धूमकेतू' इत्यमरः । “धूमकेतुः स्मृतौ वह्वावुत्पातग्रहभेदयोः।" इति विश्वः । परिपूर्णत्यादि: = परिपूर्ण ( परिपूरितं, षोडशकलायुक्तमिति भावः ) यत् द्विजपतिमण्डलं ( चन्द्रमण्डलम् ) तेन सनाथम् ( युक्तम् ) अपि, सदेत्यादि: = सदासन्निहितं ( सर्वदाऽऽसन्नस्थितम् ) तरुगहनेषु (वृक्षवनेषु ) अन्धकारं ( तिमिरम् ) यस्मिस्तम्, अत्र विरोधः । परिहारस्तु–परिपूरितं (परिपूर्ण, ज्ञानेनेति शेषः ) द्विजपतीनां ( श्रेष्ठब्राह्मणानाम् ) यत् मण्डलं (समूहः) तेन सनाथम् । अतिरमणीयम् =अतिशयमनोहरम्, अपरम् = अन्यं, ब्रह्मलोकम् इव = सत्यलोकम् इव, आश्रमं = तपोवनम्, अपश्यं = व्यलोकयम् । उत्प्रेक्षा। यत्र चेति । यत्र= यस्मिन् आश्रमे, मलिनता= मालिन्यं, चरितपक्षे पापकालुष्यं, हविधमेष = चरुपुरोडाशादिघूमेषु, चरितेषु = चरित्रेषु, आचारेष्विति मावः, न = नो मालिन्यमित्यर्थः । लोकव्यवहारेषु नाऽधर्माचरणमिति मावः । अत्र श्लेषपरिसंख्ययोरङ्गाङ्गिमावेन सङ्करः । परिसंख्यालक्षणं"प्रश्नादप्रश्नतो वाऽपि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥ परिसंख्या" (सा० द०)६-८१ । अत्र शाब्दी परिसंख्या । एवं परत्राऽपि । मुखरागः = मुखे ( वदने ) रागः ( लौहित्यम् ) शुकेषु = कीरेषु, कोपेषु = क्रोधेषु, न = नो मुखरागः, क्रोधजनितमारुण्यमिति भावः । तीक्ष्णता = निशितता, कुशाऽग्रेषु-दर्भमूलेषु, स्वभावेषु = प्रकृतिषु, न तीक्ष्णता=न क्रूरता । चञ्चलता = चपलता, कदलीदलेषु = रम्भापत्त्रेषु, मनःसु न=चित्तेषु चञ्चलता न, आश्रमे सर्वेषां मनसि स्थिरताऽस्तीति भावः । चक्षुरागः= चक्षुषोः ( नेत्रयोः ) रागः ( लौहित्यम् ), कोकिलेषु = पिकेषु, परकलत्रेषु न =परमार्यासु चक्षुरागः (नयनाऽनुरागः, दर्शनाऽभिलाष इति भावः ) न=नो वर्तते। "रागस्त मात्सर्ये लोहितादिषु । क्लेशादावनुरागे च गान्धारादौ नृपेऽपि च ।" इति मेदिनी। कण्ठग्रहः = कण्ठे ( ऊर्ध्वमागे ) ग्रहः ( ग्रहणम् ) कमण्डलुषु = कुण्डीषु, सुरतेषु = मैथुनेषु, कण्ठग्रहः ( कण्ठालिङ्गनम् ), ननाऽस्ति, तापसानां जितेन्द्रियत्वादिति भावः । मेखलाबन्धः = मेखलाया (मौञ्ज्यादेः ) बन्धः होनेपर"। परिपूर्ण (षोडशकलासंपन्न ) चन्द्रमण्डलसे युक्त होकर भी जहाँपर वृक्षोंके वनका अन्धकार निकटस्थित है, यहाँ भी विरोध है, परिहार-ज्ञानपरिपूर्ण द्विजपतिमण्डल (ब्राह्मण समूह ) से होनेपर... । अतिशय मनोहर दूसरे ब्रह्मलोकके समान ( पूर्वोक्त गुणसंपन्न ) आश्रमको मैंने देखा। जिस आश्रममें मलिनता ( कालिमा) चरु आदि हविके धुएँ में थी चरित्रोंमें मलिनता (पापका आचरण) नहीं, मुखका राग ( लालिमा ) तोतोंमें थी क्रोधोंमें नहीं, तीक्ष्णता ( तीखापन ) कुशोंकी नोकोंमें थी स्वभावोंमें तीक्ष्णता (करता) नहीं, चञ्चलता केलेके पत्तोंमें थी, मनोंमें नहीं, (मनमें स्थिरता थी)। नेत्रका राग ( लालिमा) कोयर्लोमें थी, पराई स्त्रियों में नेत्रका राग ( दर्शनका अभिलाष ) नहीं था, कण्ठग्रह ( गलेमें पकड़ना ) कमण्डलुओंमें था, सुरतों (स्त्रीप्रसङ्गों) में कण्ठग्रह ( आलिङ्गन) नहीं था, मेखलाबन्ध ( गूंज आदि मेखलाका बन्धन ) उपनयन

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172