Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-जाबालिवर्णनम्
१३७ दिव्येन चक्षुषा भगवतामेवंविधानामघक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनां, किं पुनदर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितल-कमलयोनिना । पुण्यभाजः खल्वमी मुनयो यदहनिशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः श्रृण्वन्तः समुपासते । सरस्वत्यपि धन्या, याऽस्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्विजपरिवारा मुखकमलसम्पर्कमनुभवन्ती निवसति हंसीव मानसे। चतुर्मुखकमलवासि
कि? कृपणेत्वभिधेयवत् ।" इति मेदिनी। दिव्येन = लोकोत्तरेण, ज्ञानरूपेण । चक्षुषा = नेत्रेण, करतलाऽऽमलकवत् = करतले ( हस्ततले ) यत् आमलकं (पात्रोफलम् ), तद्वत्, अखिलं = समस्तं, जगत्लोकम्, आलोकयतां= पश्यताम्, एवंविधानाम् = एतादृशानाम्, अघक्षयकारिणां = पापनाशविधायिनां, मगवतां =षविश्वयंसम्पन्नानां, किमुत =को वितर्कः, न कोऽपीति भावः । “आहो उताहो किमुत विकल्प किं किमूत चे"त्यमरः ।
पुण्यानोति । हि= यतः, महामुनीनां= महातपस्विनां, नामग्रहणानि =अभिधानोच्चारणानि. अपि, पुण्यानि = धर्मोत्पादकानि, दर्शनानि-अवलोकनानि, कि पुनः किं वक्तव्यम्, अर्थापत्तिरलङ्कारः ।
घन्यमिति । इदं =पुरःस्थितम्, वाश्रमपदं = मुनिस्थानं, धन्यं = पुण्यवत्, “सुकृती पुण्यवान धन्य" इत्यमरः । यत्र- यस्मिन्, अयं = समीपस्थः, जाबालिमुनिरिति भावः ) अधिपतिः = अध्यक्षः ।
अथवेति । अथवा=यदा, अवनितलेत्यादिः = अवनितलस्य ( भूतलस्य ) कमलयोनिना (अब्जयोनिना, ब्रह्मदेवेनेति भावः ), रूपकाऽलवारः । अनेन =जाबालिना, अधिष्ठितम् = आश्रितं, भुवनतलं = लोकतलम्, एव, धन्यं = पुण्यवत् । भुवनतलस्य जाबाल्याधिष्ठिताश्रमपदस्याधारभतत्वादिति भावः ।
पृण्यभाज इति । अमी=एते, मुनयः= तपस्विनः, पुण्यभाजः= सुकृतवन्तः, खल = निश्चयेन, यत्, अहर्निशम् = अहोरात्रम्, अपरम् = अन्यं, नलिनाऽऽसनं = कमलासनं, ब्रह्माणमिति मावः, इव, उत्प्रेक्षा । एनं = जाबालिम्, अपगताऽन्यव्यापाराः = अपगतः (दूरीभूतः ) अन्यः ( अपरः ) व्यापारः (कार्यम् ) येषां ते, अतः मुखाऽवलोकनेत्यादि: = मुखस्य ( वदनस्य, जाबालेरिति शेषः ) अवलोकने ( दर्शने ) निश्चले ( अचञ्चले, निमेषरहिते इति भावः ) दृष्टी ( नेत्रे ) येषां ते, तादृशाः सन्तः, पुण्या: = पवित्राः, कथाः = कथनानि, शृण्वन्तः= आकर्णयन्तः, समुपासते समुपासनां कुर्वन्ति ।
सरस्वतीति । सरस्वती = भारती, अपि, धन्या = सुकृतिनी, या= सरस्वती तु, अस्य समीपस्थस्य मुनेः, अतिप्रसन्ने = अतिशयप्रसादयुक्ते, हंसीपक्षे = अतिशयस्वच्छे, करुणाजलनिस्यन्दिनि = करुणा ( दया, परदुःखप्रहाणेच्छेति भावः) एव जलं (सलिलम् ), हंसीपक्षे-करुणा इव जलम्, द्रवीभावसाम्यादिति भावः। करुणाजलस्य निस्यन्दिनि (स्राविणि )। अगाधगाम्भीर्य = अगाधम ( अतलस्पर्शम् ) गाम्भीयं (गम्भीरता ) यस्मिस्तस्मिन् । तादृशे मानसे=चित्ते, हंसीपक्षे-मानस
मलोंको क्षीण करनेवाले और दिव्य नेत्रसे संपूर्ण जगत्को करतलमें रखे गये आँवलेके समान देखनेवाले तथा पापोंको नष्ट करनेवाले ऐसे महात्माओंका क्या कहना है। महामुनियोंका नाम लेना भी पुण्यका उत्पादक होता है तो दर्शनका क्या कहना है? यह आश्रमस्थान धन्य है, जहाँपर ये अधिपति हैं। अथवा भूतलके ब्रह्मदेव इनसे अधिष्ठित संपूर्ण भूतल हो धन्य है। ये मुनिलोग पुण्यसम्पन्न हैं जो कि दिनरात अन्य कार्योको छोड़कर दूसरे ब्रह्माके समान इनके मुख देखने में दृष्टिको निश्चल कर पवित्र कथाओंको सुनते हुए सेवा करते रहते हैं। सरस्वती भी धन्य हैं जो इनके अत्यन्त प्रसन्न (मानससरोवरके पक्षमें निर्मल ) करुणारूप जलको (मानसके पक्षमें करुणाके समान जलको) प्रवाहित करनेवाले अगाध गम्भीरतासे युक्त मानस (चित्त वा मानससरोवर) में हंसीके समान सुन्दर दाँतोंके ( हंसीके पक्षमें सुन्दर पक्षियोंके ) परिवारसे युक्त होकर मुखरूप कमलों ( हंसी पक्षमें मुखोंके समान कमलों)

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172