Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 153
________________ १३६ कादम्बरी _अवलोक्य चाहमचिन्तयम्-'अहो! प्रभावस्तपसाम् । इयमस्य शान्तापि मूत्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सोदामनीव चक्षुषः प्रतिहन्ति तेजांसि, सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्यशुष्क-नल-काश-कुसुम-निपतितानल। चटुल-वृत्ति नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या दुःसहं भवति, किमुत सकल-भुवनवन्दित-चरणानामनवरत-तपःसलिल-क्षपितमलानां कर-तलामलकवदखिलं जगदालोकयतां अनाथाः ( स्वामिरहिताः ) विपन्नाः ( प्राप्तविपत्तयः, रोगाद्यभिभूता इति भावः ) तेषां शरणं (गृहं; वासस्थानमिति भावः, मुनिपक्षे-तादृशानां = रक्षकम् ) "शरणं गृहरक्षित्रोः" इत्यमरः । पशुपति = शिवम्, इव, भस्मेत्यादिः = मस्म (भूतिः ) इव पाण्डुरा ( शुक्लवर्णा ) या उमा (पावंती ) तया बाश्लिष्टम् ( आलिङ्गितम् ) शरीरं (देहः ) यस्य सः, तम् । मुनिपक्षे-भस्म इव पाण्डुराणि बाधंक्यादिति भावः, यानि रोमाणि (लोमानि) तैः आश्लिष्टं (व्याप्तम् ) शरीरं यस्य तम् । तादृशं भगवन्तं = लोकोत्तरज्ञानसम्पन्न, जाबालि=एतदाख्यं मुनिम्, अपश्यं = व्यलोकयम् । अवलोक्येति । अवलोक्य = दृष्टा, च= पुनः, अहम्, अचिन्तयं = चिन्तितवान् । चिन्ताप्रकारानाह-अहो इति । अहो = आश्चर्यम् । तपसां= तपस्यानां, प्रभाव:=सामथ्यम् । इयं% निकटस्थिता, शान्ता = शान्तियुक्ता, अपि, अस्य-जाबालिमुनेः, मूर्तिः = शरीरं, “मूर्तिः काठिन्यकाययो"रित्यमरः । उत्तप्तकनकाऽवदाता = उत्तप्तं ( सन्तप्तम् ) उत् कनकं ( सुवर्णम् ), तदिव अवदाता=निर्मला, उपमाऽलङ्कारः । परिस्फुरन्ती= देदीप्यमाना, सौदामनी = विद्युत्, इव, सुदाम्ना अद्रिणा एकदिक (समाना दिक ) सौदामनी "तेनंकदिक" इति अकारप्रत्ययः। "तडित्सौदामनी विद्युत्" इत्यमरः । "सौदामिनी" त्यपपाठः । चक्षुषः = नयनस्य, तेजांसि = ज्योतीषि, प्रतिहन्ति प्रतिहतानि करोति । इदं स्वभाववर्णनम् । सततमिति । सततं = निरन्तरम्, उदासीना-तटस्था, अपि, महाप्रभावतया = अतिशयसामध्येन, प्रथमोपगतस्य = अपूर्वागतस्य जनस्य, मयं = भीतिम्, उपजनयति इव = उत्पादयति इव, उत्प्रेक्षाऽलङ्कारः । शुष्केति । तनुतपसां = तनु ( अल्पम् ) तपः ( तपस्या ) येषां, तेषाम्, अपि, तपस्विनां= तापसानां, शुष्कनलेत्यादिः = शुष्काणि (प्राप्तशोषाणि, नीरसानीति भाव:) यानि नलकाशकुसुमानि (धमन-पोटगल-पुष्पाणि ) तेषु निपतितः ( संप्राप्तः ) योऽनलः ( अग्निः ) तस्य इव चटुला (चञ्चला) वृत्तिः ( व्यापारः, प्रसरणस्येति शेषः ) यस्य तत्, “नड ( ल ) स्तु धमनः पोटगलः" इति “अथो काशमस्त्रियाम् । इक्षुगन्धा पोटगल" इति चाऽमरः । तेजः=प्रभावः, नित्यं = सततं, प्रकृत्या= स्वभावेन, असहिष्णु = असहनशीलं, भवति = विद्यते, सकलेत्यादिः =सकलभुवनतलेषु (समस्तलोकतलेषु ) वन्दितचरणानाम् ( अभिवादितपादानाम् ), अनवरतेत्यादिः = अनवरतं ( सततम् ) यत् तपः ( तपस्या ) तेन क्षपितं (क्षीणीकृतम् ) मलं (पापम् ) यः, तेषाम् । “मलोऽस्त्रो पापविट वस्त्रको धारण करनेवाले थे, जो बडवाऽग्निके समान पय (जल, मुनिपक्षमें दूध ) भक्ष्य पदार्थवाले थे। जो शून्य नगरके समान दीन अनाथ और विपत्ति पाये हुए जनका आश्रय, मुनिपक्षमें वैसे दीन आदि जनोंके रक्षक थे। शिवजीके समान भस्म (विभूति ) की सदृश शुक्लवर्णवाली पार्वतीसे आलिङ्गित शरीरवाले, मुनिपक्षम-भस्मके समान सफेद रोमोंसे व्याप्त शरीरवाले थे, ऐसे भगवान् जाबालिको मैंने देखा। "मुनिको देखकर मैंने विचार किया-अहो ! तपका ( कैसा) प्रभाव है ? इनकी यह मूर्ति शान्त होती हुई भी तपाये गये सोनेके समान, चमकती हुई बिजलीके समान, नेत्रके तेजको रोक देती है। निरन्तर उदासीन होकर भी अतिशय प्रभावके होनेसे पहले पहल आये हुए जनको भय-सा उत्पन्न कर देती है। सूखे हुए नरकुल और काशकुसुमोंमें पड़े हुए अग्निके समान चञ्चल वृत्तिवाला होकर थोड़ी तपस्यासे युक्त तपस्वियोंका भी तेज स्वभावसे नित्य असहनशील होता है, तो फिर सकल भुवनतलसे वन्दित चरणोंवाले, निरन्तर तपस्या रूप जलसे

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172