Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 164
________________ कथामुखे-सन्ध्यावर्णनम् योऽयं यच्च कृतमनेनापरस्मिन् जन्मनि, इह लोके च यथास्य सम्भूतिः । अयश्च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति, सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाय समं तैर्मुनिभिः स्नानादिकमुचित-दिवस-व्यापारम् अकरोत् । ___ अनेन च समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेनार्यविधिमुपपादयता यः क्षितितले दत्तः तमम्बर-तलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखेरबिम्ब-विनिहित-दृष्टिभिरूष्मपैस्तपोधनरिव परिपीयमान-तेजः प्रसरो विरलातपस्तनिमानमविस्रब्धोपविष्टानां = विस्रब्धम् ( विश्वस्तं यथा तथा ) उपविष्टानां (निषण्णानाम् ) मवतां = युष्माकं, सकाश इति शेषः । आदितः प्रभृति = आरम्भात् आरभ्य, सर्व = सकलं, वृत्तान्तमिति शेषः । आवेदयिष्यामि = ज्ञापयिष्यामि, अयं = शुकशावकः, यः, अस्तीति शेषः, अनेन = शुकशिशुना, अपरस्मिन् = अन्यस्मिन, जन्मनि =जनने, यत् = कर्म, च, कृतं-विहितम् । इह = अस्मिन्, लोके= भुवने. यथा = येन प्रकारेण, संभूतिः = संभव उत्पत्तिरिति भावः । अयं-शुकशावकः, च, तावत् = तत्कालम्, आहारेण = भोजनेन, अपगतक्लम:=विगतग्लानि:, क्रियतां=विधीयताम् । नियतमिति । नियतं = निश्चितं यथा तथा, मयि, कथयति = वदति सति, अयं = शकशावकः, अपि, आत्मनः = स्वस्य, सर्व = सकलं, जन्मान्तरोदन्तं पूर्वजन्मवृत्तान्तं, स्वप्नोपलब्धं - स्वापप्रायम इव, अशेषतः= समग्रभावात्, स्मरिष्यति = स्मरणं करिष्यति, इति =एवम्, अमिदधत् =ब्रवाणः, मुनिभिः = तापसः, सह = समं, स्नानादिकंमज्जनादिकम्, उचितदिवसव्यापारं = योग्यवासरकुत्यम, अकरोत् = व्यधात् । ___ अनेनचेति । अनेन, समयेन = कालेन, मध्याह्ननेति भावः । दिवसः = वासरः, परिणतः = परिणाम ( परिपाकम् ) गतः । स्नानोत्थितेनेति । स्थानोत्थितेन स्नानं कृत्वा कृतोत्थानेन, अर्घविधि-पूजाविधानम्, उपपादयतासम्पादयता, मुनिजनेन = तपस्विजनेन, क्षितितले = भूतले, यः = रक्तचन्दनाङ्गरागः, दत्तः = समर्पितः, अम्बरतलगतः = आकाशमण्डलप्राप्तः, रवि:-सूर्यः, तं, रक्तचन्दनाङ्गराग = लोहिताचन्दनदेहविलेपनम्, साक्षात् = प्रत्यक्षरूपम्, इव, उदवहत् = धृतवान्, उत्प्रेक्षा। ऊर्ध्वमखैरिति । ऊर्ध्वमुखैः = उन्नतवदनः, अर्कबिम्बविनिहितदृष्टिमिः = अर्कबिम्बे (सूर्यमण्डले ) विनिहिते ( स्थापिते ) दृष्टी ( नयने ) यस्तैः । ऊष्मपः = ऊष्माणं ( सूर्यतापम् ) पिबन्ति ( पयन्ति ) इति ऊष्मपाः, तः । तपोधनः= तपस्विभिः इव, तप एव धनं येषां तैः । परिपीयमानतेजःप्रसरः= परिपीयमानः (आस्वाद्यमानः) तेजःप्रसरः (आतपसमूहः ) यस्य सः । तथाविध इव, उत्प्रेक्षा। अतएव विरलाऽऽतपः=विरल: (अल्पः) आतप: (द्योतः) यस्य सः तादृशः सूर्यः, तनिमानं = क्षीणत्वं, तनोवस्तनिमा, तम् । “पृथ्वादिभ्य इमनिज्वा" इति इमनिच्प्रत्ययः । अमजत्आश्रितवान् । सूर्यनिहितनयनस्तपोधनरूष्मणः पीतत्वात्सूर्य: सायंकाले क्षीणोऽभूदिति भावः । आपलोगोंको शुरूसे लेकर सब कुछ विदित कराऊँगा कि "जो यह शुकशावक है, इसने पूर्व जन्ममें जो किया है, इस लोक में इसकी जैसी उत्पत्ति हुई है।" तबतक यह भोजन देनेसे ग्लानिसे रहित किया जाय । निश्चित रूपसे यह भी अपने पूर्व जन्मके वृत्तान्तको स्वप्नमें पाये हुएके समान सब पूर्णरूपसे स्मरण कर लेगा। ऐसा कहतेहुए मुनि ( जाबालि ) ने उठकर मुनियोंके साथ स्नान आदि दिनकी क्रियाओंको किया। इस बीच में दिन बीतने लगा। स्नानसे उठे हुए और पूजाविधि करते हुए मुनिजनने जमीनपर जो रक्तचन्दनका अङ्गराग समर्पण किया था उसे आकाशमण्डलमें प्राप्त सूर्यने मानों साक्षात् धारण किया। ऊपर मुंह करनेवाले और सूर्यमण्डलमें दृष्टि देनेवाले सूर्यकी धूपको पीनेवाले तपस्वियोंसे मानों तेजके पीये जानेसे मूर्य थोडीसी

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172