Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 143
________________ १२६ कादम्बरी वनगहन-मध्य-सुख-सुप्त-हरिम्, हनूमन्तमिव शिला-शकल-प्रहार-सञ्चूर्णिताक्षास्थिसञ्चयम्, खाण्डव-विनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनधरमपि सतताविर्भूतधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम्, उल्लसित-धूमकेतुशतमपि प्रशान्तोपद्रवम् परिपूर्णद्विजपति प्रत्यासन्नजलप्रपातं = प्रत्यासन्नः ( निकटस्थः ) जलप्रपातः ( सलिलवृष्टिः ) यस्मिस्तम् । आश्रमपक्षेजलप्रपातः ( सलिलनिर्झरः) यस्मिस्तम् । "प्रपातो निर्झरे तटे" इति मेदिनी। जलधरसमयं-मेघकालं, वर्ष मिति भावः । इव, वनगहनेत्यादिः = वनस्य ( जलस्य ) गहनं ( वनं, समूह इत्यर्थः, समुद्र इति भाव:) तस्य मध्यं (मध्यभागः ) तस्मिन् सुखेन (आनन्देन ) सुप्तः (निद्राणः) हरिः (विष्णुः ) यस्मिस्तम् । हरिर्वर्षाप्रारम्भे क्षीरसागरे स्वपितीति पौराणिक समयः । “पयः कीलालममृतं जीवनं भुवनं वनम् ।" इत्यमरः । आश्रमपक्षे-वनस्य ( विपिनस्य ) यत् गहनं (गह्वरम् ) तस्य मध्ये सुखसुप्ताः हरयः (सिंहाः ) यस्मिस्तम् । “गहनं गह्वरे दुःखे वने" इति त्रिकाण्डशेषः । "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।' इत्यमरः । हनूमन्तम् इव = अञ्जनीसुतम् इव, शिलेत्यादि: =शिलाशकलानां (पाषाणखण्डानाम् ) प्रहारेण ( ताडनेन ) संचूर्णितः ( चूर्णीकृतः ) अक्षस्य ( अक्षकुमारस्य रावणपुत्रस्य ) अस्थिसंचयः (कीकससमूहः ) येन, तम् । आश्रमपक्षे-शिलाशकलप्रहारसंचर्णित: अक्षाणां ( बिमीतकानाम् ) अस्थिसंचयः (मध्यमागसमूहः) यस्मिस्तम् । अक्षकूमारवधकथा वाल्मीकिरामायणस्य सुन्दरकाण्डे द्रष्टव्या। खाण्डवेत्यादिः = खाण्डवस्य ( खाण्डवनामकवनस्य ) विनाशः (ध्वंस:, भस्मीकरणरूपः ), तस्मिन् उद्यतम् ( उद्योगयुक्तम् ) अर्जुनम् (किरीटिनं, मध्यमपाण्डवमिति भावः ) इव, प्रारब्धाऽग्निकार्य प्रारब्धम् (प्रक्रान्तम् ) अग्निकार्यम् ( अनलकृत्यं, तत्तपंणरूपमिति शेषः ), येन तम् । आश्रमपक्षे-प्रारब्धम् अग्निकार्यम् ( अनलकृत्यं, हवनरूपमिति मावः ) यस्मिस्तम् । वनगहनेत्यादी पुनरुक्तवदामासः पूर्णोपमा चेति द्वयोरलङ्कारयोरङ्गाङ्गिभावेन सङ्करः। सुरभिविलेपनघरं = सुरभि ( सुगन्धि ) यत् विलेपनम् ( अङ्गरागद्रव्यम् ) तस्य धरम् (धारकम् ) अपि, सतताविर्भूतहव्यधूमगन्धं = सततम् ( निरन्तरम् ) आविर्भूतः (प्रादुर्भूतः ) हव्यधूमस्य ( हवनीयपदार्थ-घूमस्य) गन्धः (घ्राणग्राह्यो गुणविशेषः ) यस्मिस्तमत्र विरोधः । तत्परिहारस्तु–सुरभेः ( गोः ) विलेपनं (गोमयम्, विपूर्वात् "लिपउपदेहे" इति धातो: विलिप्यते अनेन भूरिति विलेपनं, करणे ल्युट्, इति व्युत्पत्तेः ) तस्य धरं (धारकम् ), "सुरमिर्गवि च स्त्रियाम्" इत्यमरः । सुरभेविलेपनं यस्यां, तादृशी धरा यस्यामिति व्यधिकरणबहुव्रीहिकल्पना क्लिष्टा गौरवयुक्तत्यवधेयम् । मातङ्गेति । मातङ्गकुलाऽध्यासितं = मातङ्गकुलेन (चाण्डालवंशेन ) अध्यासितम् (आश्रितम्), किये गये द्रम (किन्नरविशेष ) के समान, आश्रमपक्षमें-ऋषियोंसे गृहीत घटोंसे जहाँपर वृक्ष सींचे जा रहे थे, ग्रीष्मऋतुके समाप्तिकालके समान जहाँपर दृष्टिसमय निकटवती था, आश्रमपक्षमें-जहाँपर जलप्रपात ( झरना) निकट था । मेघकाल ( वर्षाऋतु) के समान वनगहन ( समुद्र ) के मध्यभागमें सुखसे सोये हुए हरि (विष्णु) से युक्त, आश्रमपक्षमें-वनगहन ( जङ्गलकी गुफा ) के बीचमें सुखसे सोये हुए हरि (सिंहों) से युक्त, जैसे हनूमान्ने पत्थरके टुकड़ोंके प्रहारसे अक्ष (रावणपुत्र ) के अस्थिसमूहको चूर किया था, वैसे ही जो पत्थरके टुकड़ोंके प्रहारसे चूर्णित अक्ष (बहेड़ा) के समूहसे युक्त था, खाण्डव वनके विनाशके लिए तत्पर अर्जुनके समान जहाँ अग्निके कार्य ( दाह-आश्रमपक्षमें हवन ) का आरम्भ किया गया था, सुरभि द्रव्यके विलेपनको धारण करनेपर भी निरन्तर हवनीय ( चरु आदि ) के धूम गन्धसे युक्त, यहाँ विरोध है, परिहार–सुरभि (गाय ) के विलेपन (लेपनद्रव्य = गोबर ) धारण करनेवाले, मातङ्ग (चाण्डाल ) कुलसे आश्रित होकर भी पवित्र, यहाँ विरोध है, परिहार-मातङ्ग कुल (हाथियोंके गरोह ) से आश्रित । उद्दीप्त सैकड़ों धूमकेतुओं ( उत्पातके सूचक ग्रहों ) के होनेपर भी जहाँपर उपद्रव शान्त था, यहाँ विरोध है, परिहार-उद्दीप्त सैकड़ों धूमकेतुओं ( अग्नियों ) के

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172