________________
१२६
कादम्बरी
वनगहन-मध्य-सुख-सुप्त-हरिम्, हनूमन्तमिव शिला-शकल-प्रहार-सञ्चूर्णिताक्षास्थिसञ्चयम्, खाण्डव-विनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनधरमपि सतताविर्भूतधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम्, उल्लसित-धूमकेतुशतमपि प्रशान्तोपद्रवम् परिपूर्णद्विजपति
प्रत्यासन्नजलप्रपातं = प्रत्यासन्नः ( निकटस्थः ) जलप्रपातः ( सलिलवृष्टिः ) यस्मिस्तम् । आश्रमपक्षेजलप्रपातः ( सलिलनिर्झरः) यस्मिस्तम् । "प्रपातो निर्झरे तटे" इति मेदिनी। जलधरसमयं-मेघकालं, वर्ष मिति भावः । इव, वनगहनेत्यादिः = वनस्य ( जलस्य ) गहनं ( वनं, समूह इत्यर्थः, समुद्र इति भाव:) तस्य मध्यं (मध्यभागः ) तस्मिन् सुखेन (आनन्देन ) सुप्तः (निद्राणः) हरिः (विष्णुः ) यस्मिस्तम् । हरिर्वर्षाप्रारम्भे क्षीरसागरे स्वपितीति पौराणिक समयः । “पयः कीलालममृतं जीवनं भुवनं वनम् ।" इत्यमरः । आश्रमपक्षे-वनस्य ( विपिनस्य ) यत् गहनं (गह्वरम् ) तस्य मध्ये सुखसुप्ताः हरयः (सिंहाः ) यस्मिस्तम् । “गहनं गह्वरे दुःखे वने" इति त्रिकाण्डशेषः । "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।' इत्यमरः ।
हनूमन्तम् इव = अञ्जनीसुतम् इव, शिलेत्यादि: =शिलाशकलानां (पाषाणखण्डानाम् ) प्रहारेण ( ताडनेन ) संचूर्णितः ( चूर्णीकृतः ) अक्षस्य ( अक्षकुमारस्य रावणपुत्रस्य ) अस्थिसंचयः (कीकससमूहः ) येन, तम् । आश्रमपक्षे-शिलाशकलप्रहारसंचर्णित: अक्षाणां ( बिमीतकानाम् ) अस्थिसंचयः (मध्यमागसमूहः) यस्मिस्तम् । अक्षकूमारवधकथा वाल्मीकिरामायणस्य सुन्दरकाण्डे द्रष्टव्या।
खाण्डवेत्यादिः = खाण्डवस्य ( खाण्डवनामकवनस्य ) विनाशः (ध्वंस:, भस्मीकरणरूपः ), तस्मिन् उद्यतम् ( उद्योगयुक्तम् ) अर्जुनम् (किरीटिनं, मध्यमपाण्डवमिति भावः ) इव, प्रारब्धाऽग्निकार्य प्रारब्धम् (प्रक्रान्तम् ) अग्निकार्यम् ( अनलकृत्यं, तत्तपंणरूपमिति शेषः ), येन तम् । आश्रमपक्षे-प्रारब्धम् अग्निकार्यम् ( अनलकृत्यं, हवनरूपमिति मावः ) यस्मिस्तम् । वनगहनेत्यादी पुनरुक्तवदामासः पूर्णोपमा चेति द्वयोरलङ्कारयोरङ्गाङ्गिभावेन सङ्करः। सुरभिविलेपनघरं = सुरभि ( सुगन्धि ) यत् विलेपनम् ( अङ्गरागद्रव्यम् ) तस्य धरम् (धारकम् ) अपि, सतताविर्भूतहव्यधूमगन्धं = सततम् ( निरन्तरम् ) आविर्भूतः (प्रादुर्भूतः ) हव्यधूमस्य ( हवनीयपदार्थ-घूमस्य) गन्धः (घ्राणग्राह्यो गुणविशेषः ) यस्मिस्तमत्र विरोधः । तत्परिहारस्तु–सुरभेः ( गोः ) विलेपनं (गोमयम्, विपूर्वात् "लिपउपदेहे" इति धातो: विलिप्यते अनेन भूरिति विलेपनं, करणे ल्युट्, इति व्युत्पत्तेः ) तस्य धरं (धारकम् ), "सुरमिर्गवि च स्त्रियाम्" इत्यमरः । सुरभेविलेपनं यस्यां, तादृशी धरा यस्यामिति व्यधिकरणबहुव्रीहिकल्पना क्लिष्टा गौरवयुक्तत्यवधेयम् ।
मातङ्गेति । मातङ्गकुलाऽध्यासितं = मातङ्गकुलेन (चाण्डालवंशेन ) अध्यासितम् (आश्रितम्), किये गये द्रम (किन्नरविशेष ) के समान, आश्रमपक्षमें-ऋषियोंसे गृहीत घटोंसे जहाँपर वृक्ष सींचे जा रहे थे, ग्रीष्मऋतुके समाप्तिकालके समान जहाँपर दृष्टिसमय निकटवती था, आश्रमपक्षमें-जहाँपर जलप्रपात ( झरना) निकट था । मेघकाल ( वर्षाऋतु) के समान वनगहन ( समुद्र ) के मध्यभागमें सुखसे सोये हुए हरि (विष्णु) से युक्त, आश्रमपक्षमें-वनगहन ( जङ्गलकी गुफा ) के बीचमें सुखसे सोये हुए हरि (सिंहों) से युक्त, जैसे हनूमान्ने पत्थरके टुकड़ोंके प्रहारसे अक्ष (रावणपुत्र ) के अस्थिसमूहको चूर किया था, वैसे ही जो पत्थरके टुकड़ोंके प्रहारसे चूर्णित अक्ष (बहेड़ा) के समूहसे युक्त था, खाण्डव वनके विनाशके लिए तत्पर अर्जुनके समान जहाँ अग्निके कार्य ( दाह-आश्रमपक्षमें हवन ) का आरम्भ किया गया था, सुरभि द्रव्यके विलेपनको धारण करनेपर भी निरन्तर हवनीय ( चरु आदि ) के धूम गन्धसे युक्त, यहाँ विरोध है, परिहार–सुरभि (गाय ) के विलेपन (लेपनद्रव्य = गोबर ) धारण करनेवाले, मातङ्ग (चाण्डाल ) कुलसे आश्रित होकर भी पवित्र, यहाँ विरोध है, परिहार-मातङ्ग कुल (हाथियोंके गरोह ) से आश्रित । उद्दीप्त सैकड़ों धूमकेतुओं ( उत्पातके सूचक ग्रहों ) के होनेपर भी जहाँपर उपद्रव शान्त था, यहाँ विरोध है, परिहार-उद्दीप्त सैकड़ों धूमकेतुओं ( अग्नियों ) के