________________
१२७
कथामुखे–जाबाल्याश्रमवर्णनम् मण्डल-सनाथमपि सदा-सन्निहित-तरु-गहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् ।
___ यत्र च मलिनता हविधूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेाकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीषु, अपि, पवित्रं = पूतम्, अत्र विरोधः । तत्परिहारस्तु–मातङ्गकुलेन ( हस्तिसमूहेन ) अध्यासितम् । "मातङ्गः श्वपचे गजे।" इति मेदिनी ।
उल्लसितेति । उल्लसितधूमकेतुशतम् = उल्लसितम् ( उद्दीप्तम् ) धूमकेतूनाम् ( उत्पातसूचकग्रहाणाम् ) शतम् ( समूहः ) यस्मिस्तमपि प्रशान्तोपद्रव = प्रशान्तः ( निवृत्तः ) उपद्रवः ( उत्पातः ) यस्मिस्तम् । अत्र विरोधः, तत्परिहारस्तु-उल्लसितं, धूमकेतूनाम् ( अग्नीनाम्, धूमः केतुः = चिह्नम् येषां त इति विग्रहेणेति भावः ) शतं यस्य तम् । “वह्नयुत्पातौ धूमकेतू' इत्यमरः । “धूमकेतुः स्मृतौ वह्वावुत्पातग्रहभेदयोः।" इति विश्वः । परिपूर्णत्यादि: = परिपूर्ण ( परिपूरितं, षोडशकलायुक्तमिति भावः ) यत् द्विजपतिमण्डलं ( चन्द्रमण्डलम् ) तेन सनाथम् ( युक्तम् ) अपि, सदेत्यादि: = सदासन्निहितं ( सर्वदाऽऽसन्नस्थितम् ) तरुगहनेषु (वृक्षवनेषु ) अन्धकारं ( तिमिरम् ) यस्मिस्तम्, अत्र विरोधः । परिहारस्तु–परिपूरितं (परिपूर्ण, ज्ञानेनेति शेषः ) द्विजपतीनां ( श्रेष्ठब्राह्मणानाम् ) यत् मण्डलं (समूहः) तेन सनाथम् । अतिरमणीयम् =अतिशयमनोहरम्, अपरम् = अन्यं, ब्रह्मलोकम् इव = सत्यलोकम् इव, आश्रमं = तपोवनम्, अपश्यं = व्यलोकयम् । उत्प्रेक्षा।
यत्र चेति । यत्र= यस्मिन् आश्रमे, मलिनता= मालिन्यं, चरितपक्षे पापकालुष्यं, हविधमेष = चरुपुरोडाशादिघूमेषु, चरितेषु = चरित्रेषु, आचारेष्विति मावः, न = नो मालिन्यमित्यर्थः । लोकव्यवहारेषु नाऽधर्माचरणमिति मावः । अत्र श्लेषपरिसंख्ययोरङ्गाङ्गिमावेन सङ्करः । परिसंख्यालक्षणं"प्रश्नादप्रश्नतो वाऽपि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥
परिसंख्या" (सा० द०)६-८१ । अत्र शाब्दी परिसंख्या । एवं परत्राऽपि । मुखरागः = मुखे ( वदने ) रागः ( लौहित्यम् ) शुकेषु = कीरेषु, कोपेषु = क्रोधेषु, न = नो मुखरागः, क्रोधजनितमारुण्यमिति भावः । तीक्ष्णता = निशितता, कुशाऽग्रेषु-दर्भमूलेषु, स्वभावेषु = प्रकृतिषु, न तीक्ष्णता=न क्रूरता । चञ्चलता = चपलता, कदलीदलेषु = रम्भापत्त्रेषु, मनःसु न=चित्तेषु चञ्चलता न, आश्रमे सर्वेषां मनसि स्थिरताऽस्तीति भावः । चक्षुरागः= चक्षुषोः ( नेत्रयोः ) रागः ( लौहित्यम् ), कोकिलेषु = पिकेषु, परकलत्रेषु न =परमार्यासु चक्षुरागः (नयनाऽनुरागः, दर्शनाऽभिलाष इति भावः ) न=नो वर्तते। "रागस्त मात्सर्ये लोहितादिषु । क्लेशादावनुरागे च गान्धारादौ नृपेऽपि च ।" इति मेदिनी। कण्ठग्रहः = कण्ठे ( ऊर्ध्वमागे ) ग्रहः ( ग्रहणम् ) कमण्डलुषु = कुण्डीषु, सुरतेषु = मैथुनेषु, कण्ठग्रहः ( कण्ठालिङ्गनम् ), ननाऽस्ति, तापसानां जितेन्द्रियत्वादिति भावः । मेखलाबन्धः = मेखलाया (मौञ्ज्यादेः ) बन्धः
होनेपर"। परिपूर्ण (षोडशकलासंपन्न ) चन्द्रमण्डलसे युक्त होकर भी जहाँपर वृक्षोंके वनका अन्धकार निकटस्थित है, यहाँ भी विरोध है, परिहार-ज्ञानपरिपूर्ण द्विजपतिमण्डल (ब्राह्मण समूह ) से होनेपर... । अतिशय मनोहर दूसरे ब्रह्मलोकके समान ( पूर्वोक्त गुणसंपन्न ) आश्रमको मैंने देखा।
जिस आश्रममें मलिनता ( कालिमा) चरु आदि हविके धुएँ में थी चरित्रोंमें मलिनता (पापका आचरण) नहीं, मुखका राग ( लालिमा ) तोतोंमें थी क्रोधोंमें नहीं, तीक्ष्णता ( तीखापन ) कुशोंकी नोकोंमें थी स्वभावोंमें तीक्ष्णता (करता) नहीं, चञ्चलता केलेके पत्तोंमें थी, मनोंमें नहीं, (मनमें स्थिरता थी)। नेत्रका राग ( लालिमा) कोयर्लोमें थी, पराई स्त्रियों में नेत्रका राग ( दर्शनका अभिलाष ) नहीं था, कण्ठग्रह ( गलेमें पकड़ना ) कमण्डलुओंमें था, सुरतों (स्त्रीप्रसङ्गों) में कण्ठग्रह ( आलिङ्गन) नहीं था, मेखलाबन्ध ( गूंज आदि मेखलाका बन्धन ) उपनयन