________________
१२८
कादम्बरो पक्षपातः कृकवाकुषु न विद्याविवादेषु, भ्रान्तिरनलप्रदक्षिणासु, न शास्त्रेषु, वसुसङ्कीर्तनं दिव्यकथासु न तृष्णासु, गणना रुद्राक्ष-वलयेषु न शरोरेषु, मुनि-बाल-नाशः क्रतु-दीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्गविकारो जरया न धनाभिमानेन ।
यत्र च महाभारते शकुनि-वधः, पुराणे वायु-प्रलपितम्, वयःपरिणामेन द्विज-पतनम्,
( बन्धनम् ), व्रतेषु = उपनयनादिकर्मसु, ईष्याकलहेषु-ईर्ष्णया (परसंसर्गजनितया अक्षान्त्या) कलहेषु ( विग्रहेषु ), मेखलाबन्धः ( रसनया बन्धनम् ) न । यथोक्तं कुमारसंभवे रतिविलापे–“स्मरसि स्मर ! मेखलागुणैः०" ( ४-८ ) इत्यादिपद्येन । स्तनस्पर्शः = कुचामर्शनं, होमधेनुषु = हवनाऽर्थकनवप्रसूतासु गोषु, दोहनप्रसङ्ग इति शेषः । कामिनीषु = रमणीषु, रमणप्रसङ्ग इति शेषः । पक्षपातः - पक्षाणां (पतत्राणाम् ) पातः ( पतनम् ), कृकवाकुषु = कुक्कुटेषु, “कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः।" इत्यमरः । विद्याविवादेषु = वेदादिशास्त्राऽर्थेषु, पक्षपातः = पक्षद्वये एकतटपक्षासक्तिः, न, तटस्थताऽऽश्रयणादिति भावः । भ्रान्तिः = भ्रमणम्, अनलप्रदक्षिणासु= अग्निप्रदक्षिणासु, शास्त्रेषु = वेदादिशास्त्रेषु, भ्रान्तिः= मिथ्याज्ञानं, न, निर्धान्तज्ञानसंपन्नत्वादिति भावः । वसुसंकीर्तनं = वसूनां (ध्रुवाद्यष्टवसूनां देवानाम् ) कीर्तनं ( वर्णनम् ) दिव्यकथासु = देवाख्यानेषु, दिवि ( स्वर्ग भवा: दिव्याः = देवाः, दिवशब्दात् "धुप्रागपागुदक्प्रतीचो यत्" इति यत्, तेषां कथासु । तृष्णासु-स्पृहासु, विषयाणामिति शेषः, वसुसंकीर्तनं = धनप्रशंसनं न, "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ।" इति "तृष्णा स्पृहापिपासे द्वे" इति चाऽमरः । गणना=संख्याकरणं, रुद्राक्षवलयेषु = रुद्राश्रसमूहेषु, शरीरेषु = देहेषु, शरीरादिपरिग्रहविशेषेषु, गणना = आदरः, न, तपस्विनां देहगेहादिविषयेषु ममत्वाभावादिति भावः । मुनिवालनाशः = तपस्विकेशध्वंसः, मुण्डनमिति भावः । “चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः ।" इत्यमरः । क्रतुदीक्षया= यज्ञनियमेन, मृत्युना = मरणेन हेतुना, बालनाशः= शिशनाशः, न, अत्र "वाल" इत्यत्र वबयोरभेद:-"यमकादौ मवेदक्यं डलोवोर्लरोस्तथा।" इति नियमेन बोद्धव्यः । आदिपदेन श्लेषादिपरिग्रहः । रामाऽनुरागः= रामे (दाशरथौ) अनुरागः (मक्तिः), रामायणेन = रामचरित्रवर्णनात्मकग्रन्थेन, यौवनेन = तारुण्येन हेतुना रामाऽनुरागः= रामायाम् (स्त्रियाम् ) अनुरागः (प्रणयः ) न । "रामा योषाहिङ्गनद्यो:" इति मेदिनी। मुखमङ्गविकारः= मुखे ( वदने) भङ्गविकार: (भेदविकृतिः, बलिरूप इति भावः ) जरया=वार्द्धक्येन, धनाऽभिमानेनद्रव्यगर्वेण, मुखमङ्गविकारः (वदनभेदविकृतिः) न, "मङ्गो जयविपर्यये। भेदरोगतरङ्गेषु" इति मेदिनी ।
यत्र = यस्मिन् आश्रमे, महाभारते = जयनामक इतिहासविशेषे, शकुनिवधः = शकुने: ( दुर्योधनमातुलस्य ) वधः ( विनाशः), अस्मिस्तु शकुनिवधः= शकुनेः ( पक्षिणः) वधः (विनाशः) न, आश्रमे हिंसाऽभावादिति भावः । "शकुनिः पुंसि विहगे सौबले करणान्तरे।" इति मेदिनी। अत्राऽऽर्थी परिसंख्याऽलङ्कारः, एवं परत्राऽपि । पुराणे पञ्चलक्षणे वाय्वादिके, "पुराणं पञ्चलक्षणम्"
आदि व्रतोंमें न कि ईर्ष्या-कलहोंमें, स्तनोंका स्पर्श होमकी गायोंमें न कि रमणियोंमें, पक्षपात (पंखोंका गिरना) मुर्गोमें, पक्षपात (विवादमें एक पक्षमें पड़ना ) विद्याके विवादोंमें नहीं, भ्रान्ति (भ्रमण करना) अग्निकी प्रदक्षिणाओंमें, भ्रम = मिथ्याज्ञान, शास्त्रों में नहीं, वसु (ध्रुव आदि देवविशेष ) का कीर्तन देवताओंकी कथाम, वसु (धन) का कीर्तन तृष्णाओं (विषयोंके अभिलाषों ) में नहीं, गणना रुद्राक्षोंकी मालाओंमें, शरीरोंमें गणना ( आदर ) नहीं, मुनियोंकी वालों ( केशों) का ध्वंस यज्ञदीक्षासे, मृत्युसे मुनिबालनाश-मुनियोंका बालनाश नहीं, रामाऽनुराग ( राममें प्रीति ) रामायणसे, रामाऽनुराग (रामा-स्त्री) में अनुराग (प्रेम) यौवन ( जवानी ) से नहीं, मुखमें भङ्ग विकार भेदसे झुर्रारूप विकार ) बुढ़ापासे, मुखके भेदका विकार धनके अभिमानसे नहीं।
जहाँ ( आश्रममें ) महाभारतमें शकुनि (दुर्योधनके मामा ) का वध, शकुनि (पक्षी) का वध आश्रममें नहीं, पुराणमें वायुका प्रवचन, आश्रममें वायुरोगसे प्रलाप (अनर्थवचन) नहीं, दिजों (दाँतों) का पतन