________________
कथामुखे-जाबालिवर्णनम्
१२९ उपवन-चन्दनेषु जाज्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः ।
तस्य चैवंविधस्य मध्यभागमलङ्कणिस्य, अलक्तकालोहित-पल्लवस्य मुनिजनालम्बितकृष्णाजिन-जल-करक-सनाथशाखस्य तापसकुमारिकाभिरालवाल-दत्त-पीत-पिष्ट पश्चागु
इत्यमरः । वायुप्रलपितं = वायोः ( वायुदेवस्य ) प्रलपितं ( जल्पितम्, व्याख्यातृत्वेनेतिशेषः ) श्रयते = आकर्ण्यते, वायुप्रलपितं = वायुना ( वातव्याधिना, उन्मादादिनेति भाव:) प्रलपितम् ( अनर्थकं वचः ) न= न श्रूयते ।
द्विजपतनं द्विजानां ( दन्तानाम् ) पतनं (भ्रंशनम् ), वयः परिणामेन वयसः ( अवस्थायाः ) परिणामेन (परिपाकेन, वार्धक्येनेति माव: ), न तु आश्रमे द्विजपतनं = द्विजानां (ब्राह्मणानाम् ) पतनं (पातित्यावहं कर्म ) न, "दन्तविप्राऽण्डजा द्विजा:" इत्यमरः । जाडयं = शैत्यम्, उपवनचन्दनेषु = उपवने ( आरामे ) चन्दनेषु ( श्रीखण्डवुक्षेषु ), न नु आश्रमे जाइयं = जडत्वम् अज्ञत्वमिति भावः । जडस्य भावः कम वा जाड्यं, व्यञ्प्रत्ययः । "जडोस्त्रियाम् । शकशिम्ब्यां, हिमग्रस्तमूकाऽप्रज्ञेषु च त्रिषु।" इति विश्वमेदिन्यौ। भूतिमत्त्वं = मस्मवत्त्वम्, अग्नीनां = वह्नीनाम्, आश्रमे तु न कस्याऽपि भूतिमत्त्वम् = ऐश्वर्यवत्त्वं, तापसानामपरिग्रहादिति भावः । “भूतिमंस्मनि सम्पदि" इत्यमरः । गीतश्रवणव्यसनं-गीतस्य (गानस्य) श्रवणम् (माकर्णनम् ) एव व्यसनम् ( आसक्तिः, कामजो दोषविशेषः ) एणकानां मृगाणां, न तु आश्रमे तापसानामिति शेषः, तेषां व्यसनराहित्यादिति भावः । नृत्यपक्षपात:= नत्ये ( नर्तने ) पक्षपात: ( आसक्तिः ) शिखण्डिनां= मयूराणां, न त्वाश्रमे तपस्विनामिति शेषः । नत्यस्य कामजदोषत्वात्तपस्विभिर्वजनादिति भावः । मोगः (शरीरम्). भुजङ्गमानां-सर्पाणां, सर्पाणामेव मोगो न तु आश्रमे तापसानां भोगः (सुखसाक्षात्कारः ) इति शेषः, तेषां मोगनिःस्पृहत्वादिति भावः । "मोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।" इत्यमरः । श्रीफलाभिलाष:=श्रीफलस्य (बिल्वफलस्य ) अभिलाषः ( मनोरथः ) कपीनां - वानराणां, न तु आश्रमे तापसानां श्रीफलस्य (लक्ष्मीफलस्य विलासरूपस्य ) अभिलाषः, तेषां विलासनिरपेक्षत्वादिति मावः । "विल्वे शाण्डिल्यशलषो मालरश्रीफलावपि।" इत्यमरः । अधोगतिः = निम्नभागगमन, मूलानां= शिफानाम्, न स्वाश्रमे तापसानाम् अधोगतिः = अधस्ताद्गमनं, नरकपातः इति शेषः । "गमनमधस्तादधर्मेणे"ति वचनात् । तापसानां धर्मशीलत्वाधाऽधस्ताद्गमनमिति भावः । श्लेषः शाब्दी परिसंख्या चेति द्वयोः सङ्कर इति पूर्वमेव प्रतिपादितम् ।
तस्येति । एवंविधस्य =एतादृशस्य, तस्य =धाश्रमस्य, मध्यभागमण्डलं = मध्यांऽशमण्डलम्, अलङ्कणिस्य = अलङ्कृतं कुर्वतः, "रक्ताऽशोकतरो:" इत्यस्य विशेषणम्, एवं परत्राऽपि । अलक्तकाऽऽलोहितपल्लवस्य = अलक्तकाः ( यावाः ) इव आलोहितानि ( रक्तानि ) पल्लवानि (किसलयानि) यस्य, तस्य । “लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमाऽऽमयः ।" इत्यमरः । मुनीत्यादिः =
(गिरना ) अवस्थाके परिणाम (बुढ़ापे ) से, आश्रममें द्विजों (ब्रह्मणों) का कुकर्मसे पतन नहीं, जाडय (शीतलता) बागीचेके चन्दनोंमें, आश्रममें जाड्य (मूर्खता ) नहीं, भूति (राख) होना अग्नियोंमें था, आश्रममें भूति (ऐश्वर्य) नहीं, गीत सुननेका व्यसन (लत ) मृगोंमें, आश्रममें नहीं, नृत्यमें पक्षपात (आसक्ति) मयूरोंका, आश्रममें नहीं, भोग (सर्पशरीर ) सौका, आश्रममें भोग (विषयका उपभोग नहीं, श्रीफल (बेलके फल ) में अभिलाष बन्दरोंका, श्री (लक्ष्मी) का फल (विलास ) आश्रममें नहीं, अधोगति (नीचे जाना) मूलों (जड़ों )में, आश्रमके तपस्वियोंका नहीं।
इस तरह उस आश्रमके मध्यभागको अलकृत करते हुए लाखके समान लाल पल्लववाले मुनियोंसे लटकाये गये कृष्णसारमृगका चर्म (चमड़ा) जलपूर्ण कमण्डलुसे युक्त डालोंसे युक्त, तपस्वियोंकी कन्याओंने जिसके
९का०