________________
कथामुखे-जाबाल्याश्रमवर्णनम् अदष्टपूर्व कलिकालस्य, अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम्, असुरारिमिव प्रकटितनरहरिवराहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मथुरोपवनमिव बलावलीढ-दर्पितधेनुकम्, उदयनमिवानन्दितवत्स-कुलम्, किम्पुरुषाधिराज्यमिव मुनिजनगृहीतकलशाभिषिच्यमान-द्रुमम्, निदाघसमयावसानमिव प्रत्यासन्न-जलप्रपातम्, जलधरसमयमिव मानवेत्रदण्डं = न्यस्यमानः (स्थाप्यमानः) वेत्रदण्डः ( वेतसदण्डः ) यस्मिस्तम् । सत्क्रियमाणपरिव्राजकं सक्रियमाणाः (आद्रियमाणा: ) परिव्राजकाः ( संन्यासिनः ) यस्मिस्तम् । आपूर्यमाणकमण्डलुम् = आपूर्यमाणाः ( संभ्रियमाणाः, जलेनेति शेषः ) कमण्डलव: ( कुण्डयः ) यस्मिस्तम् । “अस्त्रो कमण्डलु: कुण्डी" त्यमरः । कलिकालस्य = चतुर्थयुगसमयस्य, अदृष्ट पूर्वम् = अनवलोकितपूर्व, पातकाऽमावादिति शेषः । अन्तस्य = असत्यस्य, अपरिचितम् = असंस्तुतं परिचयरहितमितिमावः । अनङ्गस्य = कामदेवय, अश्रुतपूर्वम् = अनाकणितपूर्व, मदनविकारराहित्यादिति शेषः ।
अब्जयोनिम् इव = ब्रह्मदेवम् इव, त्रिभुवनवन्दितं त्रिभुवनेन ( लोकत्रयेण, स्वर्गमर्त्यपातालात्मकेनेत्यर्थः ) वन्दितम् ( अभिवादितम् ) । अत्र पूर्णोपमाऽलङ्कारः, एवं परत्राऽपि । असुरारिम् इव - दत्यारिम्, विष्णुमिवेति भावः । प्रकटितनरहरिवराहरूपं-प्रकटिते (प्रकाशिते) नरहरिवराहयोः (नृसिंहसूकरयोः) रूपे ( स्वरूपे) येन, तम् । आश्रमपक्षे तु-प्रकटितानि (प्रकाशितानि) नरा: ( मनुष्याः ) हरयः ( सिंहाः ) वराहाः ( सूकराः ) रूपाणि ( मृगाः ) येन, तम् । “रूपं मृगेऽपि विज्ञेयम्" इति हलायुषः । सांख्यम् इव = कपिलदर्शनम् इव, कपिलाऽधिष्ठितं - कपिलेन ( कर्दमपुत्रेण ) अधिष्ठितम् (आश्रितम् ), आश्रमपक्षे—कपिलामिः ( गोविशेषः ) अधिष्ठितम् । “कपिला रेणुकायां च शिशपा गोविशेषयोः ।" इति मेदिनी।
मथुरोपवनम् = मथुराया: ( "अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । पुरी द्वारावती चैव सप्तता मोक्षदायिकाः ।" इति पुरीसप्तकमध्ये द्वितीयपुर्याः) उपवनम् ( आरामः) इव, बलाऽवलीढेत्यादि० = बलेन ( शक्त्या ) अवलीढः ( व्याप्तः ) अत एव दर्पितः ( गवंयुक्तः ) धेनुकः ( धेनुकनामा दैत्यः ), यस्मिस्तम् । आश्रमपक्षे-बलाऽवलोढा दर्पिता धेनवः ( नवप्रसूता गावः) यस्मिस्तम् । “शेषाद्विभाषा" इति समासाऽन्तो वैकल्पिक: कप् । उदयनम् इव = तन्नामकं राजानम् इव, वत्सदेशाऽधिपते राज्ञ उदयनस्य कथा बृहत्कथामञ्जर्यां द्रष्टव्या । आनन्दितवत्सकुलम् आनन्दितं (प्रमोदाऽन्वितम् ) वत्सकुलं ( वत्सदेशप्रजावर्गः ) येन, तम् । आश्रमपक्षे-आनन्दितं वत्सानां ( तर्णकानाम् ) कुलं ( समूहः ) यस्मिस्तम् । किम्पुरुषाऽधिराज्यम् = किम्पुरुषाणाम् (किन्नराणाम् ) अघिराज्यम् ( अधिराष्ट्रम् ) इव, मुनिजनेत्यादिः = मुनिजनैः (ऋषिसमूहैः) गृहीताः ( आत्ताः ) ये कलशाः ( जलपूर्णकुम्भाः ), तैः अभिषिच्यमानः ( अभ्युक्ष्यमाणः ) द्रुमः ( पुरुषविशेषः ) यस्मिस्तम् । आश्रमपक्षे-.....'अभिषिच्यमानाः द्रुमाः ( वृक्षाः ) यस्मिस्तम् । द्रुमस्याऽभिषेककथाऽपि बृहत्कथामञ्जयां द्रष्टव्या।
निदाघसमयाऽवसानं = निदाघसमयस्य (ग्रीष्मकालस्य ) अवसानम् ( शेषमागम् ), इव, वेत्रदण्ड रक्खे जा रहे थे, कहीं सन्यासियोंका सत्कार हो रहा था, कहीं कमण्डलु जलसे भरे जा रहे थे, जहांपर कलि. युग पहले कभी नहीं देखा गया था, असत्य का अपरिचित, जहांपर कामदेव पहले नहीं सुना गया था, जो ब्रह्माके समान तीनों लोकोंसे अभिवादित था, असुराऽरि (विष्णु) के समान नृसिंह और वराहके रूपको प्रकट करनेवाला, आश्रमपक्षमें मनुष्य, सिंह (शेर) वराह (सूअर ) और मृगको प्रकट करनेवाला, सांख्यके समान कपिल (मुनि ) से आश्रित, आश्रमपक्षमें-कपिला (गो विशेष ) से आश्रित, मथुराके उपवन ( बगीचे ) के समान बलशाली अभिमानी धेनुक दैत्यसे युक्त, आश्रमपक्षमें-शक्तिशालिनी दर्पयुक्त गायोंसे युक्त, उदयन ( वत्सदेशके राजा ) के समान वत्सकुल ( वत्सदेशके जनसमूह ) को आनन्दित करनेवाला, आश्रमपक्षमें-वत्सकुल (बछड़ोंके समूह) को आनन्दित करनेवाला, किन्नरोंके अधिराज्यके समान ऋषियोंसे ग्रहण किये गये कलशोंसे अभिषेक
-
--
--