Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 147
________________ कादम्बरी १३० लस्य हरिणशिशुभिः पीयमानालवालकसलिलस्य मुनिकुमारकाबद्ध - कुशचीरदाम्नो हरितगोमयोपलेपन - विविक्ततलस्य, तत्क्षण-कृत- कुसुमोपहार - रमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य रक्ताशोकतरोरधश्छायायामुपविष्टम्, उग्रतपोभिर्भुवनमिव सागरैः, कनकगिरिमिव कुलपर्वतैः क्रतुमिव वैतानिक वह्निभिः कल्पान्तदिवसमिव रविभिः, कालमिव कल्पैः, समन्तान्महर्षिभिः परिवृतम्, उग्र-शाप कम्पितदेहया, प्रणयिन्येव विहित- केशग्रहया, मुनिजन: ( तापस लोकैः ) आलम्बिता: ( अवलम्बिता: ) कृष्णाऽजिनानि ( कृष्णसारमृगचर्माणि ) जलकरका : ( सलिलाssधारकमण्डलवः), तैः सनाथा : ( युक्ताः ) शाखा: ( विटपा: ) यस्य, तस्य । तापसकुमारिकाभिः = तपस्विकन्यकाभिः, आलवालेत्यादि: ० = आलवाले ( आवापे ) दत्ता: ( वितीर्णाः निहिता इति भाव: ), पीतपिष्टस्य ( हरिद्राचूर्णस्य ) पञ्चाङ्गुलयः ( विस्तारित हस्तबिम्बाः ) यस्मिन् तस्य । हरिणशिशुभिः = मृगशावकैः पीयमानाऽऽलवालकसलिलस्य = पीयमानम् ( धीयमानम्, आस्वाद्यमानमिति भाव: ) आलवालकस्य ( आवापस्य ) सलिलं ( जलम् ) यस्य तस्य । मुनिकुमारकाबद्धकुशचीरदाम्नः=मुनिकुमार कै: ( तापसबालकै : ) आबद्धम् ( आनद्धम् ) कुशचीरदाम ( दर्भवस्त्ररज्जुः ) यस्मिन्, तस्य । हरितेत्यादि ० = हरितं ( हरिद्वर्णम् ) यत् गोमयं ( गोपुरीषं, "गोत्र पुरीषे" इति मयट् ) तेन उपलेपनम् ( उपलेपकरणम् ) तेन विविक्तं ( पूतम् ) तलं ( स्वरूपम् ) यस्य तस्य । तत्क्षणेत्यादि ० = तत्क्षणं ( तत्कालम् ) कृतः ( विहितः ) य: कुसुमोपहार : ( पुष्पोपायनम् ) तेन रमणीयः ( मनोहर: ), तस्य । नाऽतिमहतः = नाऽतिदीर्घस्य, परिमण्डलतया = परितो विस्तृततया, विस्तीर्णाऽवकाशस्य = अतिदीर्घस्थानस्य, रक्ताऽशोकत रोः = लोहितवञ्जुलवृक्षस्य, अधरछायायां = निम्नाऽनातपप्रदेशे, उपविष्टं = निषण्णं, "भगवन्तं जाबालिमपश्यम्" इत्यागामिभिः पदैः सम्बन्ध:, एवं परत्राऽपि । उग्रतपोभिः = कठोरतपश्चरणः, "महर्षिभिः इत्यस्य विशेषणं, सागरैः = समुद्र:, भुवनं : लोकम्, इव, कुलपर्वतैः = कुलाऽचलैः, महेन्द्रादिभिरिति भावः । कुलपर्वताच सप्त, ते यथा -- "महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।" इति । कनकगिरि = सुमेरुपर्वतम्, इव, वैतानिकवह्निभिः = यज्ञसम्बन्ध्यग्निभिः, दक्षिणाग्निगार्हपत्याहवनीयैरिति भाव: वितानं = यज्ञः, तस्मिन्भवा वैतानिकाः, "तत्र भव" इति ठञ् । क्रतुं = यज्ञम्, इव, रविभिः = सूर्यैः, कल्पाऽन्तदिवसम् = प्रलयाऽवसानदिनम् इव कल्पैः = युगान्तैः, कालं = समयम् इव । समन्तात् = परितः, महर्षिभिः = महामुनिभिः परिवृतं = परिवेष्टितम् । अत्रैकस्योपमेयस्य जाबालेबंहूनामुपमानानां दर्शनान्मालोपमा नामाऽलङ्कारः । तल्लक्षणं यथा साहित्यदर्पणे = "मालोपमा यदेकस्योपमानं बहु दृश्यते ।" इति । उग्रेति । उग्रशापकम्पितदेहया = उग्र: ( कठोर : ) यः शापः ( आक्रोशः ) तेन कम्पितः ( सञ्जातकम्पः ) देह: ( शरीरम् ) यया, तया । पक्षे यस्यास्तया । प्रणयिन्या - प्रणयवत्या नायिकया, इव, विहितकेशग्रहया = विहितः ( कृतः ) केशग्रह: ( शिरोरुहाकर्षणम् ) यया, तया । पूर्णोपमा, एवं परत्रापि । प्रणयिन्यपि रतिकलहे केशग्रहं करोति । जराऽपि पलितोत्पादनार्थं केशग्रहं विदधाति । क्रुद्धया=_ आलवाल ( क्यारी) को हलदी के पिष्टके पाँच उँगलियोंके चिह्नसे युक्त किया था, जिसकी क्यारीका जलमृगके बच्चोंसे पीया जा रहा था, जिसको मुनिकुमारोंने कुशरज्जुसे बांधा था, जिसका अधोभाग हरे गोबरके उपलेपसे पवित्र था, उसी क्षण मुनिकुमारोंसे किये गये फूलोंके उपहारोंसे रमणीय, जो ज्यादा बड़ा नहीं था, चारों ओरसे विस्तृत होने से विस्तीर्ण स्थानवाले ऐसे लाल अशोक वृक्षकी छाया में बैठे हुए भगवान् जात्रालिको मैंने देखा । जो समुद्रोंसे घिरे हुए भुवनके समान, महेन्द्र आदि कुलपर्वतों से घिरे हुए सुमेरु पर्वतके समान, अग्निहोत्र के दक्षिणाऽग्नि आदि अग्नियोंसे यज्ञके समान, सूर्योंसे घिरे हुए प्रलयकालके दिनके समान, कल्पोंसे घिरे हुए समयके समान, उग्रतपस्यावाले मुनियोंसे चारों ओरसे घिरे हुए थे । उग्रशापसे कम्पित शरीरवाली प्रणयिनी के समान केशग्रहण करनेवाली,

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172