Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 113
________________ कादम्बरी अनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्यमित्र सखङ्गधेनुकम्, अभिवन - जलधरामव मयूर - पिच्छ-चित्र- चापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहानाग-दशनम्, भीष्ममिव शिखण्डि - शत्रुम्, निदाघ दिवसमिव सतताविर्भूत-मृगतृष्णम्, विद्या ९६ = ( धारिता: ), "पूर्वकालै कसर्व जरत्पुराणनवकेवलाः समानाऽधिकरणेन" इति पूर्वकालसमासः । समुत्खातविधृताः गजदन्ता: ( हस्तिदशनाः ) यस्तै, अत एव कृष्णचरितं केशवचरित्रं दर्शयद्भिः : प्रदर्शितं कुर्वद्भिः । कैश्चित् शबरवृन्दैः, भगवता श्रीकृष्णेन कंसस्य कुवलयापीडनामकं गजं व्यापाद्य तस्य दन्तो गृहीत इति श्रीमद्भागवतकथा द्रष्टव्या । उपमा | कैश्विदिति । जलदागमदिवसः = जलदागमस्य ( वर्षर्तो: ) दिवस: = वासरै: इव, जलधरच्छायया ( मेघकान्त्या ) मलिनम् ( मलीमसम् ) अम्बरम् ( आकाशम् ) येषु ते । शबरवृन्दपक्षे -- जलधरच्छाया इव मलिनम् अम्बरं ( वस्त्रम् ) येषां तैः । श्लेष उपमा च द्वयोरङ्गाङ्गिभावेन सङ्करः । तादृशैः शबरवृन्दैः परिवृतं = परिवेष्टितम् । अरण्यमिति । अरण्यं = वनम् इव सखङ्गधेनुकं = खङ्गः ( गण्डकः ) धेनुका ( करिणी ) च ताभ्यां सहितम् । “गण्डके खङ्गखङ्गिनो" इति "करिणी धेनुका वशा" इति चामरः । शबरसेनापतिपक्षे - खङ्गः ( करवाल: ), धेनुका ( छुरिका ) च ताभ्यां सहितम् । " खङ्गे तु निस्त्रिशचन्द्रहासाऽसिरिष्टयः ।" इति "छुरिका चाऽसिधेनुका" इत्यमरः । अभिनवेति । अभिनवजलधरम् = नूतनमेघम् इव मयूरपिच्छचित्रचापधारिणं = मयूरपिच्छम् ( बहिणबर्हम् ) इव चित्रम् ( अनेकवर्णम् ) चापं ( धनुः, इन्द्रायुधमिति भावः ) तद्धारिणम् ( तद्धारणशीलम् ) । शबरसेनापतिपक्षे – मयूरपिच्छानि ( बहिणवर्हाणि ) तै: चित्रं ( विचित्रम् ) यच्चापं ( धनुः ) तद्धारिणम् । उपमालङ्कारः । । बकराक्षसमिति । बकराक्षसं = बकः ( बकनामक: ) यो राक्षस: ( यातुधानः ), तम् इव, गृहीतैकचक्रं = गृहीता ( स्वाऽधीनीकृता ) एकचक्रा ( एकचक्रा नामिका पुरी ) येन, तम् । शबरसेनापतिपक्षे – गृहीतम् ( धृतम् ) एकम् ( अद्वितीयम् ) चक्रम् ( शस्त्रविशेषः ) येन तम् । पुरा पाण्डवाः समातृका एकचक्राख्यायां पुर्यां न्यवसन्, तत्र मात्रनुरोधेन एकस्य ब्राह्मणस्य रक्षणार्थं नरभक्षकं बकाऽभिधानं राक्षसं निहत्य मीमसेनस्तत्पुरवासिनः सर्वानपि समुद्दधारेति महाभारतीया कथाsनुसन्धेया । अरुणाऽनुमिति । अरुणाऽनुजम् = गरुडम्, इव उद्धृताऽनेक महानागदशनम् = उद्धृताः ( उत्पाटिता: ) अनेकेषां ( बहूनाम् ) महानागानां ( विशालनागानाम् ) दशना: ( दन्ताः ) येन, तम् । शबरसेनापतिपक्षे - महानागानां ( विशालगजानाम् ) दशनाः येन तम् । " मतङ्गजो गजो नागः कुञ्जरो वारण: करी - ।" त्यमरः । भीष्ममिति । भीष्मं = देवव्रतम्, इव, शिखण्डिशत्रु = शिखण्डिनः ( द्रुपदपुत्रस्य ) शत्रुम् ( रिपुम् ) । शबरसेनापतिपक्षे -- शिखण्डिनां ( मयूरागाम् ) शत्रु, तद्विनाशकत्वादिति भावः । " शिखण्डी ना कलापे स्याद्गङ्गेयाऽरि-मयूरयोः ।" इति मेदिनी । समान, मेघों की छाया के समान मलिन अम्बर (वस्त्र) वाले थे, वर्षा ऋतुके दिन भी मेघों की छायासे मलिन अम्बर ( आकाश ) वाले होते हैं। ऐसे अनेक वृत्तान्तोंवाले शवरसमूहरु घिरा गया, खड्ग ( गैंडा ) और धेनुका ( हथिनी )से युक्त वनके समान वह ( सेनापति ) खड्ग ( तलवार ) और धेनुका (छुरी) से युक्त था, मयूरके पलके समान रंगविरंगे धनु (इन्द्रायुध ) को धारण करने वाले नये मेघके समन वह मयूरके पङ्खोंसे विचित्र धनुको लिया हुआ था, एकचक्रापुरीको वशमें करनेवाले बक राक्षसके समान वह एक चक्र ( शस्त्र विशेष ) को लिया हुआ था । अनेक विशाल नागके दाँतों को उखाड़ने वाले गरुडके समान वह अनेक विशाल नागों ( हाथियों) के दाँतों को लिया हुआ था । शिखण्डी ( द्र पदराजके पुत्र ) के शत्रु भीष्मके समान वह शिखण्डियों ( मयूरों ) का शत्रु था ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172