Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 120
________________ १०३ कथामुखे-शुकशावकनिपातनम् किमिव हि दुष्करमकरुणानाम् ? यतः स तमनेक-ताल-तुङ्गमभ्रङ्कष-शाखाशिखरमपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्, कांश्चिदल्पदिवस-जातान् गर्भच्छविपाटलाञ् शाल्मली-कुसुमशङ्कामुपजनयतः,कांश्चिदुद्भिद्यमानपक्षतया नलिन-संवत्तिकानुकारिणः, कांश्चिदर्कफलसदृशान्, कांश्चिल्लोहितायमान-चञ्चुकोटीन् ईषद्विघटित-दल-पुट-पाटलमुखानां कमलमुकुलानां श्रियमुद्वहतः, कांश्चिदनवरत-शिरःकम्प व्याजेन निवारयत इव प्रतीकारासमर्थान्, एकेकतयाः फलानीव तस्य वनस्पतेः शाखान्तरेभ्यश्च शुक-शावकानग्रहीत्, अपगताइंश्च कृत्वा क्षितावपातयत् । किमिवेति । हि= यस्मात् कारणात्, "हि हेताववधारणे" इत्यमरः । अकरुणानां = निर्दयानां, दुष्करं = दुविधेयं, किमिव ? न किमपीति भावः । ते सर्वमपि क्रूरकर्माऽनुतिष्ठन्तीति भावः, अर्थापत्तिः । यतः= यस्मात्कारणात्, सः =जरच्छबरः, अनेकतालतुङ्गम् = अनेके (बहवः ) ये तालाः ( तालवृक्षाः, उपर्युपरिसंयोजिता इति शेषः ) त इव तुङ्गः ( उन्नतः ), तम् । अभ्रङ्कषशाखाशिखरम् अपिअभ्रं ( मेघम् ) कषन्ति (विलिखन्ति ) इति अभ्रङ्कषाणि, “सर्वमूलाऽभ्रकरीषेषु कषः" इति खच्, "अरुद्विषदजन्तस्य मुम्" इति मुमागमः । अभ्रङ्कषाणि ( मेघस्पर्शीनि, अत्युन्नतानीति भावः ) शाखानां (स्कन्धानाम् ) शिखराणि ( अग्रभागाः ) यस्य तम् । तादृशमपि पादपं वृक्षम् । सोपानरिव = आरोहणरिव, उत्प्रेक्षा । अयत्नेनैव = अनायासेनव, आरुह्य = आरोहणं कृत्वा, अनुपजातोत्पतनशक्तीन् = अनुपजाता ( अनुत्पन्ना) उत्पतनशक्तिः ( उडयनसामर्थ्यम् ) येषां, तान् । तादृशान्, कांश्चित्, अल्पदिवसजातान् =स्तोकदिनोत्पन्नान्, अत एव गच्छविपाटलान् = गर्भस्य (भ्रूणस्य ) या छबिः ( कान्तिः ), तया पाटलान् ( श्वेतरक्तान ), अतः शाल्मलीकुसुमशङ्कां=शाल्मलीकुसुमस्य ( पिच्छिलापुष्पस्य ) शङ्काम् (सन्देहम् ), उपजनयतः= उत्पादयतः, "पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिद्वंयोः ।" इत्यमरः । अत्र काव्यलिङ्ग भ्रान्तिमांश्च । कांश्चित्-उद्भिद्यमानपक्षतया = उद्भिद्यमानी ( उत्पद्यमानौ ) पक्षौ (पतत्रे ) येषां, ते, तेषां मावस्तत्ता, तया । नलिनसंवर्तिकाऽनुकारिणः = नलिनानां ( कमलानाम् ) संवर्तिका: ( नवदलानि ), ता अनुकुर्वन्ति ( विडम्बयन्ति ) तच्छीलास्तान एतेनाऽतिनर्मल्यं गम्यते । उपमा । "संवर्तिका नवदलम्" इत्यमरः । कांश्चित्-अर्कफलसदृशान् = मन्दारफलतुल्यान्, कांश्चित्-लोहितायमानचञ्चुकोटीन् = अलोहिता लोहिता यथा सम्पद्यन्त इति लोहितायमानाः, "लोहितादिडाज्भ्य: क्यष्" इति क्यषन्ताल्लट: शानच् । लोहितायमानाः ( रक्तीभवन्तः ) चञ्चूनां ( त्रोटीनाम् ) कोटयः ( अग्रभागाः ) येषां, तान् । अत एव ईषद्विघटितेत्यादि:ईषद्विघटितं (स्तोकविकसितम् ) यत् दलपुटं (पत्त्रपुटम् ), तेन पाटलं ( श्वेतरक्तम् ) मुखम् (अग्रमागः ) येषां तेषाम् । तादृशानां कमलमुकुलानां= पद्मकुड्मलानां, श्रियं = शोभाम्, उद्वहतः= धारयतः, अत्र निदर्शनाऽलङ्कारः । कांश्चित्-अनवरतशिरःकम्पव्याजेन =अनवरतं ( निरन्तरम् ) यः शिर:कम्पः ( मस्तकवेपथुः ), तस्य व्याजेन (छलेन) निवारयत इव = "वयम् अर्भका अत एव उस समय उसको देखनेसे डरे हुए शुकसमूहोंका प्राण मानों निकल गया। निर्दयोंको दुष्कर कर्म क्या है ? जो कि उस वृद्ध शबरने अनेक ताड़के पेड़ोंके समान ऊँचे, आकाशको स्पर्श करनेवाले शाखा-शिखरोंवाले उस पेड़पर मानों सीढ़ियोंसे ही प्रयासके विना ही चढ़कर उन शुकशिशुओंको, जिनमें उड़नेकी शक्ति उत्पन्न नहीं हुई थी। कुछ थोड़े ही दिनोंके पहले उत्पन्न थे, अत: गर्भकी कान्तिसे गुलाबी होनेसे सेमलके फूलोंकी शङ्का उत्पन्न करते थे। कुछ पटोंके उगनेसे कमलके नये पत्तोंके समान थे। कुछ अर्कवृक्षके फलके समान थे। कुछ चोंचके अग्रभागके लाल होनेसे कुछ पत्तोंके विकसित होनेसे गुलाबी अग्रभागवाली कमलकी कलियोंकी शोभाको धारण कर रहे थे और कुछ प्रतीकारमें असमर्थ होनेसे लगातार शिर हिलानेके बहानेसे मानों ( उस वृद्धशबरको) निवारण कर रहे थे। एक एक करके उस शाल्मलीकी शाखाओंके भीतरसे ऐसे उन शुकशावकोंको उस वृक्षके फलोंके समान पकड़ लिया और उनको, मारकर जमीनपर पटक दिया।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172