Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
११४
कादम्बरो राहुरिवासकृदास्वादित-सोमः, पद्मनिकर इव दिवसकर-मरीचिपः, नदी-तट-तरुरिव सततजलक्षालन-विमलजट:, करि-कलभ इव विकच-कुमुद-दल-शकलसित-दशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृग-कृत्तिकाश्लेषोपशोभितः, घर्मकाल-दिवस इव क्षपितबहुदोषः, जलधरसमय इव प्रशमितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव
शाखयोः।" इति विश्वः। कोमलवल्कलावतशरीरः-कोमलं (मृदुलम् ) यत् वल्कलं ( वल्कम् ) तेन आवृतम् (आच्छादितम् ) शरीरं ( देहः ) यस्य सः उभयत्र साम्यम् । पूर्णोपमाऽलङ्कारः, एवं परत्राऽपि । गिरिरिव = पर्वत इव, समेखल:=समध्यमाग इव, “मेखलाऽद्रिनितम्बे स्याद्रशनाखड्गबन्धयोः । "इति हैमः । हारीतपक्षे = मौञ्ज्या मेखलया सहितः। राहुरिव = सैहिकेय इव, असकृदास्वादितसोमः = असकृत् ( निरन्तरम् ) आस्वादितः ( ग्रासविषयीकृतः ) सोमः ( चन्द्रः) येन सः । हारीतपक्षे-असकृत्, आस्वादितः ( पीतः ) सोमः ( सोमलतारसः ) येन सः । “सोमस्त्वोषधीतद्रसेन्दुषु" इति हैमः । पद्मनिकरः = पद्मानां (कमलानाम् ) निकरः ( समूहः ), इव, दिवसकरमरीचिपः-दिवसकरस्य ( सूर्यस्य) मरीचीन (किरणान् ) पिबतीति । हारीतपक्षे–पञ्चाग्नि सेवनतपसि चतुष्वग्निषु मध्ये ऊर्ध्वस्थितस्य सूर्यरूपाऽग्ने: किरणपानकर इति भावः । “ग्रीष्मे पञ्चाऽग्निमध्यस्थो वर्षासु स्थण्डिलेशयः।" इति याज्ञ० स्मृति: ३-५२। नदीतटतरुः = नद्याः ( सरितः ) तटे (तीरे ) तरुः ( वृक्षः ), इव, सततजलेत्यादिः = सततं (निरन्तरम् ), त्रिसन्ध्यमिति भावः । जलेन ( अम्बुना ) यत् क्षालनं ( मज्जनम ), तेन विमला ( निर्मला ) जटा (शिफा ) यस्य सः । हारीतपक्षे-विमला जटा ( सटा ) यस्य सः । “शिफाजटे" इति "व्रतिनस्तु जटा सटा" इत्यप्यमरः । करिकलमः = करिशावकः, इव, अत्र "कलभ" इति पदेनैव करिशावकरूपाऽर्थबोधेऽपि पुनः करिपदोपादानं प्राशस्त्यबोधनाऽर्थमतो न पुनरुक्ति: । "कलम: करिशावक" इत्यमरः । विकचकुमुदेत्यादि:विकचानि ( विकसितानि ) यानि कुमुदानि ( करवाणि ) तेषां दलानि ( पत्त्राणि ) तेषां शकलानि ( खण्डानि ) तानि इव सिताः ( शुभ्राः ) दशनाः ( दन्ताः ) यस्य सः । उभयत्र साम्यं स्फुटमेव । द्रौणिः = द्रोणपुत्रः, अश्वत्थामा इति भावः, स इव, कृपाऽनुगतः= कृपेण ( कृपाचार्येण) अनुगतः ( अनुसृतः ) युद्धादाविति शेषः । हारीतपक्षे–कृपया ( दयया, परदुःखप्रहाणेच्छयेति भाव: ) अनुगतः । नक्षत्रराशिः=तारासमूहः, इव चित्रमृगकृत्तिकाश्लेषोपशोभितः = चित्रं ( चित्रानक्षत्रम् ) मृगः ( मृगशीर्ष ) "नामैकदेशे नामग्रहणम्" इति न्यायेन ) कृत्तिका आश्लेषा च, एतैनक्षत्रः, उपशोभितः ( उपशोमां प्रापितः )। हारीतपक्षे-चित्रमृगस्य ( कर्बुरहरिणस्य ) या कृत्तिका (चमं ) तया आश्लेषः ( सम्बन्धः ), तेन उपशोभित: । धर्मकालदिवसः धर्मकालस्य (ग्रीष्मसमयस्य) दिवसः दिनम्, इव क्षपितबहुदोषः =क्षपितानि (क्षयं प्रापितानि, क्षयितानि" इति पाठेऽप्ययमेवाऽर्थः ) बहूनि ( अनेकानि ) दोषा ( रात्रयः ) येन सः, “सामान्ये नपुंसकम्"। दोषापदस्याऽव्ययत्वात् तस्य विशेषणाऽथं स्तम्ब वा शाखाके समान कोमल वल्कलसे आच्छादित शरीरवाले, जैसे पर्वत मेखला (मध्यभाग) से युक्त होता है वैसे ही पूँजकी मेखलासे युक्त, जैसे राहु सोम (चन्द्रमा) का आस्वादन करता है वैसे ही सोम ( सोमलताके रस )का आस्वादन किये हुए, जैसे कमलसमूह सूर्यकिरणका पान करता है वैसे ही पञ्चाऽग्निसाध्य तपमें सूर्यकिरणोंको पीये हुए, जैसे नदीके तटके वृक्षकी जटा निरन्तर जलके प्रक्षालनसे निर्मल होती है वैसे ही निरन्तर जलमें प्रक्षालनसे निर्मल जटावाले, हाथीके बच्चेके समान विकसित कुमुद के खण्डोंके सदृश सफेद दाँतोंवाले, जैसे अश्वत्थामा कृप (कृपाचार्य) से अनुगत होते हैं वैसे ही कृपा (दया) से अनुगत ( दयालु)। जैसे नक्षत्र-समूह चित्रा, मृगशिरा, कृत्तिका और आश्लेषासे उपशोभित होता है वैसे चित्र (चितकबरे) मृगकी कृत्ति ( चर्म ) के आश्लेष ( सम्बन्ध ) से उपशोभित । जैसे ग्रीष्मका दिन दोषा ( रात ) को क्षीण करता है वैसे ही दोष (कामक्रोध आदि ) को क्षीण किये हुए, वर्षाकाल जैसे रज (धूलि ) के प्रसरको हटाता है वैसे ही रज ( रजोगुण ) के व्यापारको हटानेवाले, वरुणके समान जलमें वास किये हुए, हरि (कृष्ण) ने जैसे नरक (नरकासुर ) के

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172