Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-हारोतवर्णनम् प्रायेणाकारण-मित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि । यतः स मां तदवस्थमालोक्य समुपजातकरुणः समीपत्तिनमृषिकुमारकमन्यतममब्रवीत्-'अयं कथमपि शुक-शिशुरसञ्जात-पक्षपुट एव तरुशिखरादस्मात् परिच्युतः । श्येन-मुख-परिभ्रष्टेन वाऽनेन भवितव्यम् । तथाहि-अतिदवीयस्तया प्रपातस्याऽल्पशेषजीवितोऽयमामीलित-लोचनो मुहुर्मुहुमुखेन पतति, मुहुर्मुहुरत्युल्बणं श्वसिति, मुहुर्मुहुश्चञ्चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहिष । यावदेवायमसुभिर्न विमुच्यते तावदेव गृहाणेमम् अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । ___ उपसृत्य च जल-समीपमेकदेश-निहित-दण्ड-कमण्डलुरादाय स्वयं मा मुक्तप्रयत्न
प्रायेणेति । प्रायेण = बाहल्येन, सतां = सज्जनानां चेतांसि = चित्तानि, सदा सर्वदा, अकारणमित्राणि - अकारणेऽपि ( हेत्वभावेऽपि ) मित्राणि ( सौहार्दयक्तानि), एवं च अतिकरुणाऽऽर्द्राणि च=अतिशयदयाक्लिन्नानि च, भवन्ति = विद्यन्ते । यतः= यस्मात्कारणात्, सः-हारोतः, मां, तदवस्थं = सा ( तादृशी ) अवस्था ( दशा ) यस्य, तम्, कष्टपूर्णाऽवस्थाऽऽपन्न मिति भावः । आलोक्य-दृष्टा, समुपजातकरुणः = समुपजाता (समुत्पन्ना ) करुणा ( दया ) यस्य सः । समीपवर्तिनं-निकटस्थायिनम्, अन्यतमम् =एकम्, ऋषिकुमारं = मुनिसुतम्, अब्रवीत् =अवदत् ।
अयमिति । अयं = सन्निकृष्टस्थः, असंजातपक्षपुट:= असमुत्पन्नच्छदपुटः, एव शुकशिशुः= कोरशावकः, कथमपि = केनाऽपि प्रकारेण । अस्मात् = निकटस्थात्, तरुशिखरात् - वृक्षोभागात. परिच्यतः= परिस्रस्तः । वा=अथवा अनेन = शुकशिशुना, श्येनमुखभ्रष्टेन श्येनस्य (पत्रिणः. आखेटशीलपक्षिविशेषस्य ) "पत्त्री श्येन" इत्यमरः । श्येनो हिन्दीभाषायां "बाज" इति नाम्ना विख्यातः । मुखं ( वदनम् ), तस्मात्, परिभ्रष्टेन (परिच्युतेन ), भवितव्यं = माव्यम् ।
तदेवोपपादयति-तथा हीति । प्रपातस्य-प्रपतनस्थानस्य, अतिदवीयस्तया =अतिशयदरत्वेन, अयं - शकशिशः, अल्पशेषजीवितः=अल्पशेषं (स्तोकाऽवशिष्टम् ) जीवितं (जीवनम् ) यस्य सः । "शेषोऽनन्ते वधे सीरिण्युपयुक्ततरेऽपि चे"ति हैमः अतएव आमीलितलोचनः = आमीलिते ( ईषन्मुद्रिते) लोचने (नेत्रे ) यस्य सः । मुहुर्मुहुः - वारं वारं, मुखेन = वदनेन करणेन, पतति = निपतति, मुहुर्मुहुः, अत्यल्बणं-प्रव्यक्तं, "स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्" इत्यमरः । श्वसिति-प्राणिति, महमहः चञ्चपूट = प्रोटिपटं. विवणोति =विकासयति। शिरोधरां-ग्रीवां, धारयितुं = स्थिरीकतूं. न शक्नोतिन समर्थों भवति । तत् = तस्मात्कारणात् । एहि = आगच्छ । यावत् एव = यत्कालम् एव, अयं = सन्निकृष्टस्थः, शकशिशः, अभिः प्राणः, न विमुच्यतेन परित्यज्यते, तावत् एव तत्कालम् एव, इमं - शुकशिशु, गृहाण = धारय । सलिलसमीपं =जलनिकटम्, अवतारय-प्रापय, इति =एवम्, अभिधाय= उक्त्वा, तेन = ऋषिकुमारकेण, प्रयोज्यकर्ता, मां, सरस्तीरं = कासारतटम्, अनाययत् =प्रापयत् ।
उपसत्येति । जलसमीपं - सलिलान्तिकम्, उपसृत्य प्राप्य, च, एकदेशेत्यादि:०= एकदेशे (एकभागे ) निहितो (स्थापितौ ) दण्डकमण्डलू (पालाशदण्डकरको ) येन सः। आमुक्तप्रयत्नम् =
प्रायः सज्जनोंके चित्त विना कारणके ही मित्र और अतिशय करुणासे सदा आर्द्र होते हैं। क्योंकि उन्होंने (हारीतने ) वैसी अवस्थावाले मुझे देखकर करुणा उत्पन्न होनेसे समीपमें स्थित दूसरे मुनिकुमारको कहानहीं उगे हुए पंखोंवाला "यह तोतेका बच्चा किसी प्रकार इस पेड़की चोटीसे गिर पड़ा है, अथवा यह बाजके मुखसे गिरा होगा। जैसे कि-गिरनेका स्थान अतिदूर होनेसे अल्पशेष जीवनवाला यह आँखोंको मूंदकर वारंवार मुँहसे गिरता है, वारंवार अत्यन्त जोरसे श्वास लेता है, वारंवार चञ्चपुट खोलता है। गरदनको नहीं संभाल पाता है। इसलिए आओ-जब तक यह प्राणोंसे छोड़ा नहीं जाता है तब तक इसे पकड़ो और जलके समीप उतारो।" ऐसा कहकर उन्होंने उस मुनिकुमारके द्वारा मुझे तालाबके किनारेपर पहुँचाया। जलके समीप जाकर एक ओर दण्ड और कमण्डलुको रखकर शरीर धारणके प्रयत्नको छोड़नेवाले और मुखको ऊँचा करनेवाले मुझको स्वयम्

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172