Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 128
________________ कथामुखे-हारीतवर्णनम् १११ एवं चिन्तयत्येव मयि तस्मात् सरसोनातिदूरवत्तिनि तपोवने जाबालि म महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरस्तपोधन-कुमारकनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान् विभावसुरतितेजस्वितया दुनिरीक्ष्यमत्तिः, उद्यतो दिवसकर-मण्डलादिवोत्कीर्णः तडिद्भिरिव रचितावयवः, तप्त-कनक-द्रवेणेव बहिरुपलिप्त-मूतिः, पिशङ्गावदातया देह-प्रभया स्फुरन्त्या सबालातपमिव दिवसं सदावानलमिव वनमुपदर्शयन् उत्तप्त-लौहलोहिनीनामनेक-तीर्थाभिषेकपूतानामचक्षः = नेत्रम्, अन्धकारतां= तिमिरताम्, उपयाति = संप्राप्नोति, अन्धकाराकुलं भवतीति भावः । खल:=दर्जनः, विधि:-विधाता, अनिच्छतोऽपि = असमीहमानस्य अपि, मे= मम, अचव = अस्मिन्नेव दिने, मरणं-मृत्युम्, उपपादयेत् अपि-कुर्यात् किम् ?, “गर्हासमुच्चय-प्रश्न-शङ्का-संभावनास्वपि।" इत्यमरः । नामेति "नाम प्राकाश्य-संभाव्य-क्रोधोपगम-कुत्सने।" इत्यमरः । एवमिति । एवम् = इत्थं, मयि, चिन्तयति = चिन्तां कुर्वति सति, तस्मात् = पूर्वोक्तात्, सरसः कासारान्, नाऽतिदूरवर्तिनि = नाऽधिकविप्रकृष्टवर्तिनि, समीपवर्तिनीतिभावः । तपोवने = तपः कानने, जाबालि म = नाम्ना जाबालिरिति, महातपाः= महातपस्वी मुनिः = मननशीलः, ऋषिरिति मावः । प्रतिवसति स्म = निवासं चकार "लट् स्मे" भूताऽर्थे लट् । तत्तनय इति । तत्तनयः = तस्य ( जाबालेः ) तनयः (पुत्रः ), हारीतनामा = हारीतनामकः, मुनिकुमारकः = तपस्विमाणवकः, सनत्कुमार इव = ब्रह्मपुत्र इव, “सनत्कुमारौ वैधात्र" इत्यमरः । सर्वविद्याऽवदातचेता: =सर्वविद्यासु ( समस्तवेदादिविद्यासु) अवदातं ( शुद्धम् ) चेतः ( चित्तम ) यस्य सः । सवयोमिः- समवयस्कः, समानं वयः ( अवस्था ) येषां, तैः । "ज्योतिर्जनपदे"-त्यादिसूत्रेण समानस्य सभावः । अपरैः = अन्यः, तपोधनकुमारक:- तपस्विदारक: अनुगम्यमानः = अनुस्रियमाणः, सन् । "तदेव कमलसरः सिस्नासुरुपागमत्" इत्यागामिमिः पदैः सम्बन्धः । तेनैव पथा = तेनैव मार्गेण, द्वितीयः = अपरः, भगवान् = ऐश्वर्यसम्पन्नः, विभावसुरिव = अग्निरिव । उत्प्रेक्षाङ्लङ्कारः। अतितेजस्वितया = अधिकतेजःसम्पन्नत्वेन हेतुना, दुनिरीक्ष्यमूर्तिः = दुनिरीक्ष्या ( दुःखेन निरीक्षितुं योग्या) मूर्तिः ( शरीरम् ) यस्य सः । उद्यतः = उदयं प्राप्नुवतः. दिवसकरमण्डलात् = सूर्यबिम्बात्, उत्कीर्ण इव-उल्लिखित इव, उत्प्रेक्षा । तडिद्भिः = विद्यद्धिः, रचिताऽवयव इव = निर्मिताऽङ्ग इव, उत्प्रेक्षा तप्तकनकद्रवेण इव = सन्तप्तसुवर्णरसेन इव, बहिः = बाह्यमागे, उपलिप्तमूर्तिः = उपलिप्ता=( उपदिग्धा ) मूर्तिः ( शरीरम् ) यस्य । पिशङ्गति । स्फुरन्त्या = दीप्यमानया, पिशङ्गाऽवदातया = पिशङ्गा ( पीतवर्णा ) चासो अवदाता ( सिता ), तया, तादृश्या = देहप्र मया = शरीरकान्त्या, सबालातपम् इव = नूतनद्योतम् इव. दिवसं =दिनं, सदावाऽनलम् = दावाग्निसहितम् इव, वनं = काननम्, उपदर्शयन् = प्रकाशयन् । उभयत्रोत्प्रेक्षाऽलङ्कारः । उत्ततेति । उत्तप्तलौहलोहिनीनाम् = उत्तप्ता: ( उत्तापयता: ) ये लोहाः ( कालायसानि) "लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसार" इत्यमरः । ते इव लोहिन्यः ( रक्त--- मरे ऐसे सोचते रहने पर उस तालाबके कुछ दूरपर रहे हुए तपोवन में जाबालि नामक बड़े नपस्वी मुनि हते थे, उनके पुत्र हारीत नामक मुनिकुमार सनत्कुमारके ममान समस्त विद्याओंसे शुद्ध चित्तवाले अन्य समअयस्क मुनिकुमारोंमे अनुगत होते हुए. उसी मार्गसे अतिशय तेजस्वी होनेसे दूसरे भगवान् अग्निदेवके समान दुःस्वसे देखे जानेवाले शरीरसे युक्त होकर मानों उगते हुए मूर्यमण्डलसे गढ़कर बने हुएके सदृशा, उनके शरीरके अवयव मानों बिजलीमे रचे गये थे, मानों सन्तप्त मोनेके द्रवमे उनके बाह्य शरीर में मुलम्मा किया गया था, पीली, उम्बल और चमकती हुई शरीरकान्तिसे मानों दिनको मूर्यकी नई धूपसे युक्त और वनको दावानलसे युक्त

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172