Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 116
________________ कथामुखे – शबरचरितालोचनम् विन्ध्याचलस्य, अंशकाऽवतारमिव कृतान्तस्य सहोदर मित्र पापस्य, सारमित्र कलिकालस्य भीषणमपि महासत्त्वतया गभीरमिवोपलक्ष्यमाणम्, अनभिभवनीयाकृतिम्, मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानन्तु तस्य पश्चादहमश्रीषम् । ९९ आसीच्च मे मनसि - 'अहो ! मोहप्रायमेतेषां जीवितम्, साधुजन - गर्हितञ्च चरितम् । तथाहि-पुरुष-पिशितोपहारे धर्म्मबुद्धिः, आहारः साधुजन विगर्हितो मधुमांसादिः, श्रमो मृगया, शास्त्रं शिवारुतम् उपदेष्टारः सदमतां कौशिका, प्रज्ञा शकुनिज्ञानम्, परिचिताः श्वानः, (राजा), तत्पादी ( तच्चरणी ) अनुवर्तते ( अनुसरति ) तच्छील इति, तम् । तथाविधोऽपि राजसेवाऽनभिज्ञं = राजसेवायाम् (नृपपरिचर्यायाम् ) अनभिज्ञम् ( अज्ञातारम् ) अत्राऽपि विरोधः । परिहारपक्षे - क्षिति ( पृथिवीम् ) बिभर्ति ( धारयति ) इति क्षितिभृत् ( पर्वतः ) तस्य पादा: ( प्रत्यन्तपर्वताः ) तान् अनुवर्तते तच्छीलस्तम्, अत एव राजसेवाऽनभिज्ञम् । विरोधाभासः । अपत्यमिति । विन्ध्याचलस्य - विन्ध्यपर्वतस्य अपत्यम् इव = सन्तानम् इव, उत्प्रेक्षाऽलङ्कारः । अंशकेति । कृताऽन्तस्य = यमराजस्य, अंशकाऽवतारम् = एकभागाऽवतारम् इव, "कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ।” इत्यमरः । उत्प्रेक्षा । सहोदरमिति । पापस्य = कलुषस्य, सहोदरं = सोदरम्, इव, उत्प्रेक्षा । सारमिति । कलिकालस्य = चतुर्थयुगस्य, सारं स्थिरांशतम्, इव । उत्प्रेक्षाऽलङ्कारः । भीषणमिति । भीषणम् अपि = भयानकम् अपि महासत्त्वतया = उदात्तस्वभावत्वेन गम्भीरम् इव = गमीरम् इब, अस्फुटाशयमिवेति भावः । उपलक्ष्यमाणं = परिदृश्यमानम् । उत्प्रेक्षाऽलङ्कारः । अनभिभवनीयाकृतिमिति । अनभिभवनीया ( अभिभवितुम् = तिरस्कर्तुम् ) अशक्या ( अशक्तिविषया ) आकृति: ( आकार: ) यस्य, तम् तादृशं मातङ्गनामानं = मातङ्गसंज्ञकं, शबरसेनापति = शबरसैन्याऽघ्यक्षम्, अपश्यं = व्यलोकयम् । तस्य = शबरसेनापतेः अभिधानं तु = नामधेयं तु, अहं, पश्चात् = अनन्तरम् = अश्रौषं = श्रुतवान् । आसीदिति । मे = मम मनसि = चित्ते, आसीत् = अभवत्, विचार इति शेषः । तमुपन्यस्यति - अहो इत्यादिना । अहो = आश्रयंम् । एतेषां शबराणां जीवितं जीवनं मोहप्रायम्=अज्ञानप्रचुरम् । चरितम् = आचरणं च, साधुजनगर्हितं = साधुजनैः ( शिष्टजन ), गर्हितं ( निन्दितम् ) च । एतदुपपादयति - तथाहीति । पुरुषपिशितोपहारे = पुरुषस्य ( पुंसः ) यत् पिशितं ( मांसम् ) तस्य उपहारे ( देव्यं नैवेद्यरूपेण समर्पणे ) धर्मबुद्धिः = इदं पुण्यमिति ज्ञानम् । साघुजनगर्हितः = सज्जननिन्दितः, मघुमांसादिः = मद्यपिशिताऽऽदिः, आहारः = मक्ष्यपदार्थः । श्रमः = व्यायामः, मृगया = आखेटक्रीडा । शास्त्रम् = अनुशासनवचनं, शिवारुतं = शृगालध्वनिः, "स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । " इत्यमरः । सदसतां = शुभाशुभानाम्, “उपदेष्टारः" इति कृदन्तपदयोगे "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी । उपदेष्टारः = उपदेशकाः । कौशिकाः = उलूका:, तेषां धूत्कारश्रवणेन कार्याकार्यनिर्णया - होकर भी राजसेवामें अनभिज्ञ (विरोध), परिहार - क्षितिभृत् (पर्वत) के पाद - ( प्रत्यन्तपर्वत) का अनुवर्ती अतः राजसेवा में अनभिज्ञ । जो मानों विन्ध्यपर्वतका पुत्र था। वह मानो यमराजका अंशाऽवतार था । मानों पापका सहोदर भाई था, कलिकालका मानों सार था । भीषण ( भयङ्कर ) होकर महान् सत्त्वगुण होनेसे गम्भीर-सा देखा जानेवाला था, जिसका आकार तिरस्कारयोग्य नहीं था। ऐसे मातङ्ग नामके शबर सेनापतिको मैंने देखा । उसका नाम तो मैंने पीछे सुन लिया । मेरे मनमें ( ऐसा विचार ) हुआ - इन ( शबरों) का जीवन अज्ञानसे पूर्ण है और चरित्र सज्जनोंसे निन्दित है । जैसे कि ये लोग नरमांसको समर्पण करने में धर्मं समझते हैं। इनका आहार सज्जनोंसे निन्दित मद्य मांस आदि है । शिकार खेलना व्यायाम है । गीदड़ोंकी चीख शास्त्र है, शुभ और अशुभ के उपदेश करने

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172