________________
कथामुखे – शबरचरितालोचनम्
विन्ध्याचलस्य, अंशकाऽवतारमिव कृतान्तस्य सहोदर मित्र पापस्य, सारमित्र कलिकालस्य भीषणमपि महासत्त्वतया गभीरमिवोपलक्ष्यमाणम्, अनभिभवनीयाकृतिम्, मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानन्तु तस्य पश्चादहमश्रीषम् ।
९९
आसीच्च मे मनसि - 'अहो ! मोहप्रायमेतेषां जीवितम्, साधुजन - गर्हितञ्च चरितम् । तथाहि-पुरुष-पिशितोपहारे धर्म्मबुद्धिः, आहारः साधुजन विगर्हितो मधुमांसादिः, श्रमो मृगया, शास्त्रं शिवारुतम् उपदेष्टारः सदमतां कौशिका, प्रज्ञा शकुनिज्ञानम्, परिचिताः श्वानः,
(राजा), तत्पादी ( तच्चरणी ) अनुवर्तते ( अनुसरति ) तच्छील इति, तम् । तथाविधोऽपि राजसेवाऽनभिज्ञं = राजसेवायाम् (नृपपरिचर्यायाम् ) अनभिज्ञम् ( अज्ञातारम् ) अत्राऽपि विरोधः । परिहारपक्षे - क्षिति ( पृथिवीम् ) बिभर्ति ( धारयति ) इति क्षितिभृत् ( पर्वतः ) तस्य पादा: ( प्रत्यन्तपर्वताः ) तान् अनुवर्तते तच्छीलस्तम्, अत एव राजसेवाऽनभिज्ञम् । विरोधाभासः ।
अपत्यमिति । विन्ध्याचलस्य - विन्ध्यपर्वतस्य अपत्यम् इव = सन्तानम् इव, उत्प्रेक्षाऽलङ्कारः । अंशकेति । कृताऽन्तस्य = यमराजस्य, अंशकाऽवतारम् = एकभागाऽवतारम् इव, "कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ।” इत्यमरः । उत्प्रेक्षा । सहोदरमिति । पापस्य = कलुषस्य, सहोदरं = सोदरम्, इव, उत्प्रेक्षा ।
सारमिति । कलिकालस्य = चतुर्थयुगस्य, सारं स्थिरांशतम्, इव । उत्प्रेक्षाऽलङ्कारः । भीषणमिति । भीषणम् अपि = भयानकम् अपि महासत्त्वतया = उदात्तस्वभावत्वेन गम्भीरम् इव = गमीरम् इब, अस्फुटाशयमिवेति भावः । उपलक्ष्यमाणं = परिदृश्यमानम् । उत्प्रेक्षाऽलङ्कारः ।
अनभिभवनीयाकृतिमिति । अनभिभवनीया ( अभिभवितुम् = तिरस्कर्तुम् ) अशक्या ( अशक्तिविषया ) आकृति: ( आकार: ) यस्य, तम् तादृशं मातङ्गनामानं = मातङ्गसंज्ञकं, शबरसेनापति = शबरसैन्याऽघ्यक्षम्, अपश्यं = व्यलोकयम् । तस्य = शबरसेनापतेः अभिधानं तु = नामधेयं तु, अहं, पश्चात् = अनन्तरम् = अश्रौषं = श्रुतवान् ।
आसीदिति । मे = मम मनसि = चित्ते, आसीत् = अभवत्, विचार इति शेषः । तमुपन्यस्यति - अहो इत्यादिना । अहो = आश्रयंम् । एतेषां शबराणां जीवितं जीवनं मोहप्रायम्=अज्ञानप्रचुरम् । चरितम् = आचरणं च, साधुजनगर्हितं = साधुजनैः ( शिष्टजन ), गर्हितं ( निन्दितम् ) च । एतदुपपादयति - तथाहीति । पुरुषपिशितोपहारे = पुरुषस्य ( पुंसः ) यत् पिशितं ( मांसम् ) तस्य उपहारे ( देव्यं नैवेद्यरूपेण समर्पणे ) धर्मबुद्धिः = इदं पुण्यमिति ज्ञानम् । साघुजनगर्हितः = सज्जननिन्दितः, मघुमांसादिः = मद्यपिशिताऽऽदिः, आहारः = मक्ष्यपदार्थः । श्रमः = व्यायामः, मृगया = आखेटक्रीडा । शास्त्रम् = अनुशासनवचनं, शिवारुतं = शृगालध्वनिः, "स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । " इत्यमरः । सदसतां = शुभाशुभानाम्, “उपदेष्टारः" इति कृदन्तपदयोगे "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी । उपदेष्टारः = उपदेशकाः । कौशिकाः = उलूका:, तेषां धूत्कारश्रवणेन कार्याकार्यनिर्णया
-
होकर भी राजसेवामें अनभिज्ञ (विरोध), परिहार - क्षितिभृत् (पर्वत) के पाद - ( प्रत्यन्तपर्वत) का अनुवर्ती अतः राजसेवा में अनभिज्ञ । जो मानों विन्ध्यपर्वतका पुत्र था। वह मानो यमराजका अंशाऽवतार था । मानों पापका सहोदर भाई था, कलिकालका मानों सार था । भीषण ( भयङ्कर ) होकर महान् सत्त्वगुण होनेसे गम्भीर-सा देखा जानेवाला था, जिसका आकार तिरस्कारयोग्य नहीं था। ऐसे मातङ्ग नामके शबर सेनापतिको मैंने देखा । उसका नाम तो मैंने पीछे सुन लिया ।
मेरे मनमें ( ऐसा विचार ) हुआ - इन ( शबरों) का जीवन अज्ञानसे पूर्ण है और चरित्र सज्जनोंसे निन्दित है । जैसे कि ये लोग नरमांसको समर्पण करने में धर्मं समझते हैं। इनका आहार सज्जनोंसे निन्दित मद्य मांस आदि है । शिकार खेलना व्यायाम है । गीदड़ोंकी चीख शास्त्र है, शुभ और अशुभ के उपदेश करने