________________
कादम्बरी
गीतकलाविन्यासमिव निषादानुगतम्, अम्बिका - त्रिशूलमिव महिष- रुधिरार्द्रकायम्, अभिनवयौवनमपि क्षपित-बहुवयसम्, कृत-सारमेय-संग्रहमपि फलमूलाशनम्, कृष्णमप्यसुदर्शनम्, स्वच्छन्दचारमपि दुर्गैकशरणम्, क्षितिभृत्पादानुर्वात्तनमपि राजसेवानभिज्ञम्, अपत्यमिव
९८
कृत: ( विहितः ) बहुबन्दीनाम् ( प्रचुरनिरुद्ध महिलानाम् ) परिग्रहः ( स्वीकार: ) येन तम् । शबरसेनापतिपक्षे — कृतः बहूनां ( प्रचुराणाम् ) बन्दिनां ( स्तुतिपाठकानाम् ) परिग्रहो येन, तम् । अत्र वन्दीत्यत्र ह्रस्वत्वमनुसन्धेयम् । उपमाऽलङ्कारः ।
1
पिशिताशनमिति । पिशितम् ( मांसम् ) अशनं ( भक्षणम् ) यस्य तं, मांसभक्षकम् इव । शबरसेनापतिपक्षे – रक्ताः (अनुरक्ताः )
रक्तलुब्धकं = रक्ते ( रुधिरे) लुब्धकम् ( लोलुपम् ) । लुब्धका : ( व्याघा: यस्मिन् तम् ।
गीतकलेति । गीतकलाविन्यासं = गानशिल्पविशेषस्थितिम् इव निषादाऽनुगतं = निषादेन ( षड्जादिस्वरान्यतमेन ) अनुगतम् ( अनुसृतम् ) । शबरसेनापतिपक्षे - निषाद : ( मातङ्गः ) अनुगतम् । “निषादः स्वरभेदे स्याच्चण्डाले धीवरान्तरे ।" इति मेदिनी । उपमालङ्कारः ।
अम्बिकेति । अम्बिकात्रिशूलम् = अम्बिकायाः ( गौर्या : ) त्रिशूलम् ( शस्त्रविशेषः ) तत् इव, महिषरुधिरार्द्रकायं = महिषस्य ( महिषासुरस्य ) रुधिरं ( रक्तम् ) तेन आर्द्र : ( क्लिन्न: ) कायः ( शरीरम् ) यस्य तम् । शबरसेनापतिपक्षे – महिषाणां ( सैरिमाणाम् ) रुधिरेण आर्द्रकायम् । उपमा । अभिनवेति । अभिनवयौवनम् = अभिनवं ( नूतनम् ) योवनं ( तारुण्यम् ) यस्य तम् । तादृशमपि क्षपितबहुवयसं = क्षपितानि ( क्षयीकृतानि ) बहूनि ( अधिकानि ) वयांसि (बाल्ययौवनाद्यवस्थाः) येन, तम् । शबरसेनापतिपक्षे - क्षपितानि बहूनि वयांसि ( पक्षिणः ) येन, तम् । "खगबाल्यादिनोवंय” इत्यमरः । विरोधाभासोऽलङ्कारः । तल्लक्षणं यथा - " आमासत्वं विरोधस्य विरोधाभास इष्यते " इति । कृतेति । कृतसारमेयसंग्रहम् = कृतः ( विहितः ) सारस्य ( घनस्य ) मेयस्य ( मातुं योग्यस्याऽन्नादेः ) संग्रह: ( सञ्चयः ) येन, तम् अपि फलमूलाशनं = फलमूलम् एव अशनं ( मक्षणम् ) येन, तम् । परिहारपक्षे — कृतः सारमेयाणां ( शुनाम् ) संग्रहो येन, तम् ।
1
कृष्णमिति । कृष्णं = विष्णुम् अपि "विष्णुर्नारायणः कृष्णः" इत्यमरः । असुदर्शनम् = अविद्यमानं सुदर्शनं ( चक्रम् ) यस्य तम् अत्राऽपि विरोधः, परिहारपक्षे – कृष्णं = श्यामवर्णम्, अत एव -- असुदर्शनं = सुन्दर दर्शनरहितं भयङ्करमिति भाव: । विरोधाभासोऽलङ्कारः ।
स्वच्छन्देति । स्वच्छन्दचारम् = स्वच्छन्देन ( स्वाशयेन ) चारः ( सञ्चरणम् ) यस्य तम्, अपि, दुर्गेकशरणं-दुर्गम् ( दुर्गमस्थानं, गिर्यादिकमितिभाव ) एव एकम् ( एकमात्रम् ) शरणं ( रक्षणस्थानम् ) यस्य तं, “शरणं गृहरक्षित्रोः" इत्यमरः । अत्राऽपि विरोधः, परिहारस्तु-दुर्गा ( गौरी ) एव एकं ( मुख्यम् ) शरणं ( रक्षित्री ) यस्य, तम् । विरोधाभासः ।
क्षितीति । क्षितिभृत्पादाऽनुवर्तनं = क्षितिं ( पृथिवीं ) बिर्भात ( पुष्णाति ) इति क्षितिभृत्
भी बहुत-से बन्दिजनों (स्तुतिपाठकों ) का संग्रह करता था । जैसे गानकला का विन्यास निषाद ( स्वरविशेष )से अनुगत होता है वैसे ही वह निषादों ( व्याधों ) से अनुगत था । जैसे दुर्गाका त्रिशूल महिष -- ( महिषासुर ) के रुधिरसे आर्द्र था वैसे ही वह महिषों ( जङ्गली भैंसों ) के रुधिरसे आर्द्र शरीरवाला था । नये यौवनवाला होकर भी उसने बहुत वयस् (उम्र) का क्षय किया था ( विरोध ) । परिहार - बहुतसे वयस् ( पक्षियों ) का क्षय किया था । बहुतसा सार-मेय (धन-धान्य ) का संग्रह किया हुआ होकर भी वह फलमूल खानेवाला था ( विरोध ) । परिहार - बहुत-से सारमेयों ( कुत्तों ) का संग्रह किया हुथा था । कृष्ण (वासुदेव) होता हुआ भी असुदर्शन = सुदर्शन( चक्र ) से रहित, ( विरोध ) । परिहार – कृष्ण = कालावर्णवाला, असुदर्शन = सुन्दर दर्शनसे रहित= भयङ्कर था । स्वच्छन्दतासे चलनेवाला होकर भी दुर्ग ( किला ) का मात्र आश्रय करनेवाला, ( विरोध ) । परिहार — केवल दुर्गाका शरण (आश्रय ) लेनेवाला था । क्षितिभृत् (राजा) के पादाऽनुवर्ती ( चरणका अनुवर्तन करनेवाला )