________________
कथामुखे-शबरसेनापतिवर्णनम् घरमिव मानसवेगम्, पराशरमिव योजनगन्धानुसारिणम्, घटोत्कचमिव भीमरूपधारिणम्, अचलराजकन्यका-केशपाशमिव नीलकण्ठ-चन्द्रकाभरणम्, हिरण्याक्ष-दानवमिव महावराह-दंष्ट्राविभिन्न-वक्षःस्थलम्, अतिरागिणमिव कृत-बह-बन्दी-परिग्रहम्, पिशिताशनमिव रक्तलुब्धकम्,
पुरा काशिराजसुताऽम्बालिका देवव्रतेनाऽस्वीकृतत्वात्तद्वधार्थ तपश्चरित्वा जन्मान्तरे द्रुपददुहिता बभूव, तदनु गन्धर्वस्य पुंभावं गृहीत्वा शिखण्डिरूपेण ख्याति जगामेति महामारतकथा ।
निदाघदिवसमिति । निदाघदिवसं = ग्रीष्मदिनम्, इव, सतताविर्भूतमृगतृष्णं = सततम् (निरन्तरम् ) आविर्भूता (प्रादुर्भूता ) मृगतृष्णा ( मरीचिका सूर्यकिरणेषु सलिलभ्रम इति भाव: ), यस्य तम् । शबरसेनापतिपक्षे सततम् आविर्भूता मृगेषु (हरिणेषु ) तृष्णा (हननाऽभिलाषः) यस्य, तम् ।
विद्याधरमिति । विद्याधरं = देवयोनिविशेषम्, इव, मानसवेगं मानेन ( अहङ्कारेण ) सवेगम् ( वेगसहितम् ), अथवा मानसस्य ( मनसः ) इव वेगः ( जव: ) यस्य तम् ।
पराशरमिति । पराशरं = व्यासजनकमृषिविशेषम् इव, योजनगन्धाऽनुसारिणं = योजनगन्धा ( धीवरराजकुमारी सत्यवती ) ताम् अनुसरति ( अनुरुणद्धि ) तच्छीलस्तम् । शबरसेनापतिपक्षेयोजनान् (क्रोशचतुष्टयात् ) गन्धम् ( आखेटपश्वामोदम् ) अनुसरतीति तच्छोलस्तम् । पुरा किल पराशरमुनिर्धीवरराजदुहितरं योजनगन्धां दृष्ट्वा तस्यामासक्तो जातस्ततः कुहकं निर्माय रमणप्रसक्तो जातः कृष्णद्वैपायनं चाऽजीजनदिति महाभारतकथा द्रष्टव्या ।
___ घटोत्कचमिति । घटोत्कचं = हिडिम्बासुतं भीमसेनपुत्रम, इव, भोमरूपधारिणं = मोमस्य (भीमसेनस्य ) रूपं धारयति तच्छीलस्तम् पुत्रः पितुः सादृश्यं प्राप्नोति । शबरसेनापतिपक्षे-मीम (भयङ्करम् ) यत् रूपम् ( आकारम् ) तद्धारणशीलम् । उपमाऽलङ्कारः ।
अचलराजेति । अचलराजेत्यादिः = अचलराजस्य (पर्वतराजस्य, हिमालयस्येति भावः ) कन्यका ( कुमारी, पार्वतीति भावः ), तस्या: केशपाशम् ( कचकलापम् ) इव, नीलकण्ठ चन्द्रकामरणं = नीलकण्ठस्य ( महादेवस्य ) चन्द्रकः ( इन्दुः ) स एव आमरणम् (आभूषणम् ) यस्य तम् । शबरसेनापतिपक्षे-नीलकण्ठस्य ( मयूरस्य ) चन्द्रकः ( मेचक: ) स एव आभरणं यस्य, तम् । उपमाऽलङ्कारः ।
हिरण्याक्षदानवमिति । हिरण्याक्षदानवं-हिरण्याक्षः ( हिरण्यकशिपुसोदरः ) स चाऽसौ दानवः (दनुपुत्रः ), तम् इव । महावराहेत्यादि:०= महावराहस्य (आदिवराहस्य, श्रीविष्णोस्तृतीयाsवतारस्य ) दंष्ट्राभिः (विशालदशनः ) विभिन्नं (विदारितम् ) वक्षःस्थलम् ( उर:स्थलम् ) यस्य, तम् । शबरसेनापतिपक्षे-महावराहाणाम् ( विशालवनशूकराणाम् ), अन्यत्पूर्ववत् । भगवता श्रीविष्णुना पराहरूपमास्थाय स्वदंष्ट्रामिहिरण्याक्षं व्यापाद्य सलिलमग्नायाः पृथिव्या उद्धारो विहित इति श्रीमद्भागवतस्था कथा द्रष्टव्या । उपमाऽलङ्कारः ।
अतिरागिणमिति । अतिरागिणम् = अतिशयविषयाऽभिलाषिणम्, इव, कृतबहुबन्दीपरिग्रहं =
का
..
निरन्तर मृगतृष्णा ( मरीचिका ) को प्रकट करनेवाले ग्रीष्मके दिनके समान वह निरन्तर मृगोंकी तृष्णा ( लालसा) को प्रकट करनेवाला था। मानस (मानससरोवर) में वेगवाले विद्याधरके समान वह अभिमानसे वेगवाला था। योजनगन्धा ( सत्यवती) का अनुसरण करनेवाले पराशर ऋषिके समान वह योजन (चारकोसों) से आखेट पशुके गन्धका अनुसरण करनेवाला था, भीम (भीमसेन ) पिताके रूप (आकृति) को धारण करनेवाले घटोत्कच राक्षसके समान वह भीम ( भयङ्कर ) रूप ( आकार ) को धारण करनेवाला था, पार्वतीका केशपाश जैसे नीलकण्ठ (महादेवके चन्द्ररूप आभरणसे युक्त था वैसे ही वह नीलकण्ठ (मयूर ) के चन्द्रक ( पङ्ख ) के आभरण(अलकार ) से युक्त था। जैसे हिरण्याक्ष दानव महावराह ( आदिवराह, भगवान् विष्णुके तृतीय अवतार ) के दाढ़ीसे विदीर्ण वक्षःस्थलवाला था वैसे ही वह महावराह । विशाल सूअर ) के दाढोंसे विदीर्ण वक्षःस्थल. बाला था। जैसे अतिरागी ( अतिविषयाऽभिलाषी ) बहुत-सी बन्दी बनाई गई स्त्रियोंका संग्रह करता है वैसे ही वह
७का०