________________
कादम्बरी
अनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्यमित्र सखङ्गधेनुकम्, अभिवन - जलधरामव मयूर - पिच्छ-चित्र- चापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहानाग-दशनम्, भीष्ममिव शिखण्डि - शत्रुम्, निदाघ दिवसमिव सतताविर्भूत-मृगतृष्णम्, विद्या
९६
=
( धारिता: ), "पूर्वकालै कसर्व जरत्पुराणनवकेवलाः समानाऽधिकरणेन" इति पूर्वकालसमासः । समुत्खातविधृताः गजदन्ता: ( हस्तिदशनाः ) यस्तै, अत एव कृष्णचरितं केशवचरित्रं दर्शयद्भिः : प्रदर्शितं कुर्वद्भिः । कैश्चित् शबरवृन्दैः, भगवता श्रीकृष्णेन कंसस्य कुवलयापीडनामकं गजं व्यापाद्य तस्य दन्तो गृहीत इति श्रीमद्भागवतकथा द्रष्टव्या । उपमा |
कैश्विदिति । जलदागमदिवसः = जलदागमस्य ( वर्षर्तो: ) दिवस: = वासरै: इव, जलधरच्छायया ( मेघकान्त्या ) मलिनम् ( मलीमसम् ) अम्बरम् ( आकाशम् ) येषु ते । शबरवृन्दपक्षे -- जलधरच्छाया इव मलिनम् अम्बरं ( वस्त्रम् ) येषां तैः । श्लेष उपमा च द्वयोरङ्गाङ्गिभावेन सङ्करः । तादृशैः शबरवृन्दैः परिवृतं = परिवेष्टितम् ।
अरण्यमिति । अरण्यं = वनम् इव सखङ्गधेनुकं = खङ्गः ( गण्डकः ) धेनुका ( करिणी ) च ताभ्यां सहितम् । “गण्डके खङ्गखङ्गिनो" इति "करिणी धेनुका वशा" इति चामरः । शबरसेनापतिपक्षे - खङ्गः ( करवाल: ), धेनुका ( छुरिका ) च ताभ्यां सहितम् । " खङ्गे तु निस्त्रिशचन्द्रहासाऽसिरिष्टयः ।" इति "छुरिका चाऽसिधेनुका" इत्यमरः ।
अभिनवेति । अभिनवजलधरम् = नूतनमेघम् इव मयूरपिच्छचित्रचापधारिणं = मयूरपिच्छम् ( बहिणबर्हम् ) इव चित्रम् ( अनेकवर्णम् ) चापं ( धनुः, इन्द्रायुधमिति भावः ) तद्धारिणम् ( तद्धारणशीलम् ) । शबरसेनापतिपक्षे – मयूरपिच्छानि ( बहिणवर्हाणि ) तै: चित्रं ( विचित्रम् ) यच्चापं ( धनुः ) तद्धारिणम् । उपमालङ्कारः ।
।
बकराक्षसमिति । बकराक्षसं = बकः ( बकनामक: ) यो राक्षस: ( यातुधानः ), तम् इव, गृहीतैकचक्रं = गृहीता ( स्वाऽधीनीकृता ) एकचक्रा ( एकचक्रा नामिका पुरी ) येन, तम् । शबरसेनापतिपक्षे – गृहीतम् ( धृतम् ) एकम् ( अद्वितीयम् ) चक्रम् ( शस्त्रविशेषः ) येन तम् । पुरा पाण्डवाः समातृका एकचक्राख्यायां पुर्यां न्यवसन्, तत्र मात्रनुरोधेन एकस्य ब्राह्मणस्य रक्षणार्थं नरभक्षकं बकाऽभिधानं राक्षसं निहत्य मीमसेनस्तत्पुरवासिनः सर्वानपि समुद्दधारेति महाभारतीया कथाsनुसन्धेया ।
अरुणाऽनुमिति । अरुणाऽनुजम् = गरुडम्, इव उद्धृताऽनेक महानागदशनम् = उद्धृताः ( उत्पाटिता: ) अनेकेषां ( बहूनाम् ) महानागानां ( विशालनागानाम् ) दशना: ( दन्ताः ) येन, तम् । शबरसेनापतिपक्षे - महानागानां ( विशालगजानाम् ) दशनाः येन तम् । " मतङ्गजो गजो नागः कुञ्जरो वारण: करी - ।" त्यमरः ।
भीष्ममिति । भीष्मं = देवव्रतम्, इव, शिखण्डिशत्रु = शिखण्डिनः ( द्रुपदपुत्रस्य ) शत्रुम् ( रिपुम् ) । शबरसेनापतिपक्षे -- शिखण्डिनां ( मयूरागाम् ) शत्रु, तद्विनाशकत्वादिति भावः । " शिखण्डी ना कलापे स्याद्गङ्गेयाऽरि-मयूरयोः ।" इति मेदिनी ।
समान, मेघों की छाया के समान मलिन अम्बर (वस्त्र) वाले थे, वर्षा ऋतुके दिन भी मेघों की छायासे मलिन अम्बर ( आकाश ) वाले होते हैं। ऐसे अनेक वृत्तान्तोंवाले शवरसमूहरु घिरा गया, खड्ग ( गैंडा ) और धेनुका ( हथिनी )से युक्त वनके समान वह ( सेनापति ) खड्ग ( तलवार ) और धेनुका (छुरी) से युक्त था, मयूरके पलके समान रंगविरंगे धनु (इन्द्रायुध ) को धारण करने वाले नये मेघके समन वह मयूरके पङ्खोंसे विचित्र धनुको लिया हुआ था, एकचक्रापुरीको वशमें करनेवाले बक राक्षसके समान वह एक चक्र ( शस्त्र विशेष ) को लिया हुआ था । अनेक विशाल नागके दाँतों को उखाड़ने वाले गरुडके समान वह अनेक विशाल नागों ( हाथियों) के दाँतों को लिया हुआ था । शिखण्डी ( द्र पदराजके पुत्र ) के शत्रु भीष्मके समान वह शिखण्डियों ( मयूरों ) का शत्रु था ।