________________
कथामुखे-शबरसेनापतिवर्णनम् सिंहीभिरिव कौलेयककुटुम्बिनीभिरनुगम्यमानम्, कश्चिद्गृहीत-चमर-बालगजदन्तभारः, कैश्चिदच्छिद्र-पर्ण-बद्ध-मधुपुट: कैश्चिन्मृगपतिभिरिव गज-कुम्भ-मुक्ताफलनिकर-सनाथ-पाणिभिः, कैश्विद्यातुधानैरिव गृहीतपिशितभारैः, कैश्चित् प्रमथैरिव केसरिकृत्तिधारिभिः, कैश्चित् क्षपणकैरिव मयूरपिच्छधारिभिः, कैश्चिच्छिशुभिरिव काकपक्षधरैः, कैश्चित् कृष्णचरितमिव दर्शयद्भिः, समुत्खात-विधृत-गजदन्तः, कैश्चिज्जलदागमदिवसैरिव जलधरच्छायामलिनाम्बरः, कात्वव्रतवितरणे ) दक्षः ( निपुणः ), अनेकवर्णैः = अनेके ( बहवः ) वर्णाः ( शुक्लनीलादयः ) येषां, तैः । तादृशैः, श्वभिः = सारमेयः अनुगम्यमानम् ।।
अतीति । अतिप्रमाणाभिः = अधिकपरिमाणाभिः, केसरिणां =सिंहानाम्, अभयप्रदानयाचना:धम्=अभयप्रदानं ( निर्भयतावितरणम् ), तस्य या याचना ( प्रार्थना ) तदर्थम्, आगताभिः, सिंहीमि: इव =सिंहवधूभिः इव, कोलेयककुटुम्बिनीभिः = सारमेयवधूमिः, अनुगम्यमानम् = अनुस्रियमाणम् । अत्रोत्प्रेक्षाऽलङ्कारः ।
कैश्चिदिति । गृहीतचमरेत्यादिः०=गृहीताः ( आत्ता: ) चमरवालानां ( चमरमृगवालधीनाम् ) गजदन्तानां ( हस्तिदशनानाम् ) भाराः ( समूहाः ) यस्तैः, कैश्चित् कतिपयः, शबरवृन्दः, परिवृतम्परिवेष्टितम् । एवं परत्राऽपि अन्वयः ।
कैश्चिदिति । अच्छिद्रपर्णबद्धमधुपुटः = अच्छिद्राणि (छिद्ररहितानि ) यानि पर्णानि ( वृक्षपत्त्राणि ) तेषु बद्धानि ( नद्धानि ) मधुपुटानि ( क्षौद्रपुटकानि ) यस्तैः, कैश्चित् शवरवृन्दः ।
कैश्चिदिति । मृगपतिमिरिव = सिहैरिव, गजकुम्भेत्यादि: ० = गजकुम्मानां ( हस्तिमस्तकपिण्डानाम् ) यानि मुक्ताफलानि ( मौक्तिकानि ) तेषां निकरः ( समूहः ) तेन सनाथः ( युक्तः ) पाणिः ( हस्तः ) येषां, तैः, कैश्चित् = शबरवृन्दैः । अत्रोपमा।
कैश्चिदिति । यातुधानरिव = राक्षसरिव, गृहीतपिशितभारः = गृहीतः (धृतः ) पिशितभार: ( मांसमारः ) यस्तैः, कश्चित् शबरवृन्दैः । अत्रोपमाऽलङ्कारः। 'यातुधानः पुण्यजनो नतो यातुरक्षसी।" इत्यमरः ।।
कैश्रिदिति । प्रमथैरिव = शिवगणरिव, केसरिकृत्तिधारिभिः=सिंहचर्मधारणशीलः, कैश्चित शबरवृन्दैः । अत्रोपमाऽलङ्कारः ।
कैश्चिदिति । क्षपणकरिव = जनसंन्यासिभिरिव, मयूरपिच्छधारिभिः = वहिणबहधारणशील:, कैश्चित् शबरवृन्दैः । उपमाऽलङ्कारः । “गजकुम्भे" त्यारम्य "मयूरपिच्छधारिमिः" इति यावदमङ्गश्लेषश्च ।
कैश्चिदिति । शिशुभिरिव=बालकरिव, काकपक्षधरः-शिखण्डकघारकः, “काकपक्ष: शिखण्डकः" इत्यमरः । शबरवृन्दपक्षे-काकानां (वायसानाम् ) पक्षाणाम् (छदानाम् ) घराः, तैः । उपमाऽलङ्कारः ।
कैश्चिदिति । समुत्खातविधृतगजदन्तः = प्राक् समुत्खाताः ( समुत्पाटिताः ) पचात् विधृता:
समान, मृगोंकी वधूओंको वैधव्य दीक्षाके दानमें निपुण, अनेक वर्णीवाले शिकारी कुत्तोंसे और विस्तृत प्रमाणवाली, सिंहोंके अभयदानको प्रार्थनाके लिए आईहुई सिंहियोंकी समान शिकारीकुत्तोंकी मादाओंसे अनुगमन किया गया था ।
और जो अनेक शबर समूहोंसे घिरा गया था। उनमें कुछ चमर मृगके बाल और हाथी दाँत इनके समूहको लिये हुए थे, कुछ छिद्ररहित पत्तोंमें शहद रखे हुए थे, कुछ सिंहोंके समान हाथीके मस्तकपिण्डस्थित मोतियोंको हाथमें लिये हुए थे, कुछ राक्षसोंके समान मांसभारको लिये हुए थे, कुछ प्रमथों (शिवगणों) के समान सिहचर्मको लिये हुए थे, कुछ दिगम्बर जैन भिक्षुओंके समान मयूरके पढोंको लिये हुए थे, कुछ बालकोंके समान काकपक्षोंको लिये हुए थे, कुछ मानों कृष्णचरितको दिखलाते हुए उखाड़ कर हाथी दांतों को लिये हुए थे। कुछ वर्षा ऋतु के दिनोंके