SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ कादम्बरी प्रबल भक्त्याराधितया 'मत्परिग्रहोऽयमिति कात्यायन्या त्रिशूलेनेवाङ्कितम्, उपजातपरिचयेरनुगच्छद्भिः, श्रमवशाद् दूरविनिर्गताभि: स्वभाव-पाटलतया शुष्काभिरपि हरिण - शोणितमिव क्षरन्तीभिजिह्वा भरावेद्यमानखेदैः विवृतमुखतया स्पष्ट दृष्ट - दन्तांशून् दंष्ट्रान्तराल-लग्नकेसरिसटानिव सृक्वभागानुदृहद्भिः, स्थूलवराटक-मालिका-परिगत कण्ठैर्महावराह-प्रहारजर्जरैः अल्पकायैरपि महाशक्तित्वादनुपजात के सरैरिव केसरि किशोरकैः, मृगवधू - वैधव्यदीक्षादान - दक्षैरनेकवर्णैः श्वभिः, अतिप्रमाणाभिश्व केसरिणामभयप्रदान- याचनार्थमागताभिः अकारणेऽपीति । अकारणेऽपि = कारणाभावेऽपि क्रूरतया = घातुकत्वेन, बद्धेत्यादिः ० बद्धा (नद्धा ) त्रिपताका ( त्रिपताका इव त्रिरेखा ) याभ्यां ते, तादृश्यौ उदग्रे ( उन्नते ) ये भ्रुकुट्यो ( भ्रू कुटयौ ) ताभ्यां करालं ( भीषणम् ), तस्मिन् । तादृशे ललाटफलके मालपट्टे, प्रबलभक्त्या = उत्कृष्टाराधनया, आराधितया = सेवितया, कात्यायन्या = गौर्या, अयं = शबरपतिः, मत्परिग्रहः मम ( कात्यायन्याः ) परिग्रहः ( परिजनः ), "पत्नीपरिजनाऽऽदानमूलशापाः परिग्रहाः ।" इत्यमरः । इति = एवं त्रिशूलेन = आयुधविशेषेण, अङ्कितं = चिह्नितम् इव । अत्रोत्प्रेक्षाऽलङ्कारः । = उपजातेति । उपजातपरिचयः = उपजातः ( उत्पन्नः ) परिचय: ( संस्तव: ) येषां तै:, परिचितैरिति भावः । तादृशः श्वभिः, कौलेयककुटुम्बिनीभिरनुगम्यमानम् 'इत्यागामिभिः पदैः सम्बन्धः । अनुगच्छद्भिः = अनुगमनं कुर्वद्भिः, शबरसेनापतेरिति शेषः । =1 श्रमवशादिति । श्रमवशात् = परिश्रमवशात्, दूरगमनादिति शेषः । दूरविनिर्गताभिः = विप्रकृष्टनिःसृताभिः वदनादिति शेषः । “जिह्वाभिः" इत्यस्य विशेषणम् । स्वभावपाटलतया = स्वभावेन ( निसर्गेण ) पाटलतया ( श्वेतरक्तत्वेन ), शुष्काभिरपि = शोषयुक्ताभिरर्पि, हरिणशोणितं - मृगरुधिरं, क्षरन्तीभिः इव = स्रवन्तीभिः इव तादृशीमि: जिह्वाभिः = रसनाभिः, आवेद्यमानखेदः = आवेद्यमानः ( बोध्यमानः ) खेदः ( श्रमः ) यस्तैः । अत्रोत्प्रेक्षाऽलङ्कारः । विवृतेति । विवृतमुखतया = विदीर्णवदनत्वेन हेतुना, स्पष्ट दृष्ट दन्तांशून् = स्पष्टं ( स्फुटम् ) दृष्टाः ( अवलोकिता: ) दन्तांऽशवः ( दशनकिरणा: ) येषु तान्, "सृक्वभागान्" इत्यस्य विशेषणम् । अत एव दंष्ट्रान्तराललग्नकेसरिसटान् इव = दंष्ट्राणां ( बृहदशनानाम् ) अन्तरालेषु ( मध्यभागेषु ) लग्ना: ( संसक्ताः ) केसरिसटा : ( सिंहस्कन्धवाला : ) येषु तान् इव सृक्वभागान् = ओष्ठप्रान्तप्रदेशान्, “प्रान्तावोष्ठस्य सृक्वणी" इत्यमरः । उद्वहद्भिः = धारयद्भिः । अत्राऽप्युत्प्रेक्षाऽलङ्कारः । स्यूलेति । स्थूलवराटकेत्यादिः = स्थूलाः ( पीवराः ) ये वराटका ( कपर्दकाः), तेषां मालिकाभि: ( मालाभिः ) परिगत: ( सहित ) कण्ठः ( गल: ) येषां तैः । महावराहेत्यादिः ० = महान्तः ( विशाला ) ये वराहा: ( आरण्यकशूकरा: ) तेषां दंष्ट्राप्रहारा: ( विशालदशनाघाताः ), तैः जर्जर : ( जीर्णै: ) । 1 अल्पकायैरपि । अल्पकायैरपि = ह्रस्वशरीरैरपि महाशक्तित्वात् = प्रचुरसामर्थ्याद्धेतोः । अनुपजातकेसरैः = अनुत्पन्नसटैः, केसरिकिशोर कै: इव = सिंह ावकैः इव । अत्रोपमाऽलङ्कारः । मृगवध्विति । मृगवध्वित्यादिः ० = मृगवधूनां ( मृगीणाम् ) वैधव्यदीक्षादाने ( विगतभर्तृ बांधने वाली ऊँची भ्रुकुटीसे भयङ्कर उसके ललाट फलकमें मानों उत्कट भक्तिसे आराधित दुर्गाजीने "यह मेरा भक्त है" इस प्रकार त्रिशूलसे अङ्कित कर दिया था, परिचयत्राले ( पालित) पीछे लगने वाले परिश्रमसे दूर तक निकली हुई स्वभावसे ही गुलाबी होने से शुष्क होनेपर भी मानों मृगके रुविरको चुआती हुई जीभसे परिश्रम जनाते हुए मुख के खुला रहनेसे स्पष्ट देखी जाती हुई दाँतोंकी किरणोंको मानों दाढ़ोंके भीतर लगे हुए सिंहके केसर ( स्कन्धवाल ) वाले होठोंके प्रान्तभागोंको धारण करते हुए, मोटी कौडियोंकी मालासे युक्त कण्ठवाले, विशाल सूअरोंके डाढ़ों के प्रहारसे जर्जर, छोटे शरीरवाले होकर भी अधिक सामर्थ्य होनेसे अनुत्पन्न केसरवाले सिंहके बच्चों के
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy