________________
कथामुखे-शबरसेनापतिवर्णनम् विभागानां, जानुलम्बेन कुञ्जर-करप्रमाणमिव गृहीत्वा निम्मितेन चण्डिका-रुधिरबलिप्रदानायाऽसकृन्निशितशस्त्रोल्लेख-विषमित-शिखरेण भुजयुगलेनोपशोभितम्, अन्तरान्तरा लग्नाश्यान-हरिण-रुधिरबिन्दुना स्वेदजल-कणिका-चितेन गुञ्जाफलमिश्रेः करिकुम्भमुक्ताफलेरिव रचिताभरणेन विन्ध्यशिला-विशालेन वक्षःस्थलेनोद्भासमानम्, अविरतश्रमाभ्यासादुल्लिखितोदरम्, इभ-मद-मलिनमालान-स्तम्भयुगलमुपसहन्तमिवोरु दण्डद्रयेन लाक्षालोहित-कोशेयपरिधानम्, अकारणेऽपि क्रूरतया बद्धत्रिपताकोदग्रभृकुटीकराले ललाटफलके इव = रुधिरक्लिन्नया इव, दृष्ट घा=नयनेन, आशाविभागानां = दिग्विभागानाम. दिग्विभागानिति भाव: कर्मणः शेषत्वविवक्षायां षष्ठी। रञ्जयन्तं = रक्तवर्णान् कुर्वन्तम् । अत्र सन्ध्यायमानयेत्यत्र क्यङ्गतोपमा, शोणितायेवेत्यत्र, रञ्जयन्तमिवेत्यत्र च उत्प्रेक्षे, तथा च मिथ एतेषामलङ्काराणामङ्गाङ्गिभावेन सङ्करः ।
जानुलम्बेदेति । जानुलम्बेन = ऊरुपर्वपर्यन्तायतेन, अत एव कुञ्जरकरप्रमाणं = कुञ्जरः ( हस्ती ), तस्य कर: ( शण्डादण्ड: ) तस्य प्रमाणं ( परिमाणम् ), गृहीत्वा इव = आदाय इव, निर्मितेन = रचितेन, चण्डिकारधिरबलिप्रदानाय = चण्डिका ( काली) तस्य रुधिरबले: ( रक्तपूजायाः) दानाय (समर्पणाय ), असकृत् = वारं वारम् । निशितशस्त्रोल्लेखविषमितशिखरेण = निशितानि ( तीक्ष्णानि ) यानि शस्त्राणि ( आयुधानि, खगादीनीति भावः ), तेषाम् उल्लेखः (घर्षणम् ), तेन विषमितम् ( उन्नताऽवनतीकृतम् ) शिखरम् ( अग्रभागः ) यस्य, तेन, तादृशेन भुजयुगलेन = बाहुयुग्मेन, उपशोभितं विराजमानम् । अत्रोत्प्रेक्षा । अन्तरेति । अन्तराऽन्तरामध्ये मध्ये । लग्नाश्यानेत्यादि:० लग्नाः ( सक्ताः ) आश्यानाः ( ईषच्छुष्काः ) हरिणस्य ( मृगस्य ) रुधिरबिन्दवः ( रक्तपृषताः ) यस्मिन्, तेन । स्वेदजलकणिकाचितेन = स्वेदजलस्य ( धर्मसलिलस्य ) कणिका: = अल्पबिन्दवः, तामिः आचितेन ( व्याप्तेन)। अत एव गुञ्जाफलमिश्रः = कृष्णलासंयुक्तः, करिकुम्भमुक्ताफल:=हस्तिमस्तकपिण्डस्थमौक्तिकफलः, रचिताऽऽभरणेन = रचितम् ( निर्मितम् ) आमरणं ( भूषणम् ) यस्य, तेन, इव । विन्ध्यशिला ( विन्ध्यपर्वतपाषाणः ), सा इव विशालं ( विस्तीर्णम ), नेन, तादृशेन वक्षःस्थलेनउरःस्थलेन, उद्भासमानं संशोभमानम् । अत्रोपमोत्प्रेक्षयोनिरपेक्षतया स्थितेः संसृष्टिरलङ्कारः ।
अविरतेति । अविरतश्रमाऽभ्यासान् = अविरत: ( सन्ततः ) य: श्रमाऽभ्यासः (परिश्रमनरन्तर्यम् ), तस्मात् । उल्लिखितोदरम् = उल्लिखितम् ( उल्लेखविषयीकृतं, तनकृतमिति भावः ) उदरं (जठरम् ) यस्य तम् ।
इभमदेति । ऊरुदण्डद्वयेन =ऊरुदण्डयोः (सक्थिदण्डयो: ) येन ( यगलेन). "सक्थि क्लीबे पुमानरुः" इत्यमरः । इभमदमलिनम् = इममदेन ( हस्तिदानजलेन ) मलिनम् (मलीमसं, श्याममिति मावः ), आलानस्तम्भयुगलम् = आलानस्तम्भयोः ( गजबन्धनस्थूणयोः ) युगलम् ( युग्मम् ), उपहसन्तम् इव = तिरस्कुर्वन्तम् इव । अत्रोत्प्रेक्षाऽलङ्कारः ।
लाक्षेति । लाक्षालोहितकौशेयपरिधानं = लाक्षया (जतुना ) लोहितं ( रक्तवर्णीकृतम् ) कौशेयं (कृमिकोशोत्पन्नम्, "कोशाड्ढञ्' इति ढञ् ) परिधानम् ( अधोंऽशुकम् ) यस्य, तम् ।
विभागों की रंग रहा था, घुटनों तक लटकते हुए मानों हाथीके मूंडके प्रमाण (मांप) को लेकर बनाये गये, चण्डिकाको रुधिरबलि देने के लिए वारंवार तेज शस्त्रोंके घर्षणसे विपमित ऊर्ध्वभागवाले बाहुयुग्मसे शोभित, जो बीच बोचमें लगे हुए हरिणके शुष्क रुधिर बिन्दुवाले और पसीनेमे बिन्दुओंसे व्याप्त, मानों गुजाफलोंसे मिले हुए हाथी के मस्तक पिण्डमें विद्यमान मोतियोंसे बने हुए भूषणवाले विन्ध्य पर्वतके चट्टानके समान विशाल वक्षःस्थलसे शोभित था, निरन्तर परिश्रमके अभ्याससे कृश पेटवाला था, जो दो ऊरुदण्डोंसे मानों हाथीके मदसे मलिन दो बन्धनस्तम्भोंका रपहाम कर रहा था, लाखसे लाल किये गये रेशमी वस्त्र पहना हुआ था, कारणके न रहनेपर भी कर होनेसे त्रिबलि