________________
२२
कादम्बरो वामपार्श्वेन विराजमानम्, अचिर-प्रहत-गज-कपोल-गृहीतेन, सप्तच्छदपरिमलवाहिना कृष्णागुरुपड़ेनेव सरभिणा मदेन कृताङ्गरागम, उपरि तत्परिमलाऽन्धेन भ्रमता मायर-पिच्छातपत्रानुकारिणा मधुकरकुलेन तमाल-पल्लवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतलेनामृज्यमान-गण्डस्थल-स्वेदलेखम्, आपाटलया हरिणकुल-काल-रात्रि-सन्ध्यायमानया शोणितायेव द्वष्ट्या रञ्जयन्तमिवाशाभावम् ), उपनीतस्य = प्रापितस्य, भुजगफणामणे: = भुजगस्य (सर्पस्य ) फणायाः (स्फटायाः ) मणेः ( रत्नस्य ), "स्फटायां तु फणा द्वयोः" इत्यमरः । आपाटलै: = ईषच्छ्वेतरक्तैः, अंशुभिः = रश्मिभिः, आलोहितीकृतेन = ईषद्रक्तवर्णीकृतेन, अत: पर्णशयनाऽभ्यासात् = पर्णेषु ( वृक्षपत्त्रेषु ), यत्, शयनं ( स्वापः ), तस्य अभ्यासात् (पौनःपुन्यात् )। लग्नपल्लवरागेण = लग्नः ( सम्बद्धः ) पल्लवानां (किसलयानाम् ) रागः ( आरुण्यम् ), यस्मिन्, तेन इव, वामपार्श्वन = सव्यभागेन, इव, विराजमानं = शोममानम् । अत्रोत्प्रेक्षाऽलङ्कारः ।
___अचिरेति । अचिरप्रहतेत्यादिः = अचिरम् ( अल्पकालम् ) एव प्रहतः ( व्यापादितः ) यो गजः ( हस्ती ) तस्य, कपोलाभ्यां ( गण्डफलकाभ्याम् ), गृहीतेन ( उपात्तेन ), सप्तच्छदपरिमलवाहिना = सप्तच्छदस्य ( सप्तपर्णवृक्षस्य ) यः परिमल: ( सौर मम् ) तद्वाहिना (तद्वहनशीलेन )। कृष्णाऽगुरुपङ्केन = कृष्णाऽगुरुणः ( कालाऽगुरुणः धूपप्रकृतिसुरभिद्रव्यविशेषेण ), पङ्केन (द्रवेण ) इव, “कालाऽगुर्वगुरु" इत्यमरः । सुरमिणा = घ्राणतर्पणगन्धेन, मदेन = दानजलेन, कृताऽङ्गरागं = कृतः ( विहितः ) अङ्गरागः ( देहविलेपनम् ) येन, तम् । अत्रोत्प्रेक्षाऽलङ्कारः ।
उपरोति । तत्परिमलाऽन्धेन = तस्य ( मदस्य ) यः परिमल: ( जनमनोहरो गन्धः ) तेन अन्धेन ( अन्धप्रायेण, दिग्दर्शनाऽभावेनेति माव: ) अत एव, उपरि= ऊर्ध्वप्रदेशे, भ्रमता = भ्रमणं कुर्वता, मायूरपिच्छाऽऽतपत्राऽनुकारिणा-मायूरं ( मयूरसम्बन्धि ) यत् पिच्छं ( बहम् ) तस्य आतपत्रं (छत्त्रम् ), तदनुकारिणा ( तदनुकरणशीलेन ) तादृशेन मधुकरकुलेन = भ्रमरसमूहेन, तमालपल्लवेनतापिच्छकिसलयेन, इव, निवारिताऽऽतपं = निवारितः ( दूरीकृतः ) आतपः ( सूर्यप्रभा ) यस्य, तम् । अत्रोपमाऽलङ्कारः । ___आलोलेति । भुजबलनिर्जितया = भुजबलेन ( बाहुशक्त्या ) निर्जितया ( वशीकृतया ) अत एव भयप्रयुक्तसेवया-भयेन ( मीत्या ) प्रयुक्ता ( कृता ) सेवा ( परिचर्या ) यया । तादृश्या विन्ध्याटव्याविन्ध्यपर्वतविपिनस्थल्या, आलोलपल्लवव्याजेन = आलोलाः ( समन्ततश्चञ्चलाः वायुवेगेनेतिशेषः ), ये पल्लवा: ( किसलयानि ) तेषां व्याजेन ( छलेन ), करतलेन = हस्ततलेन, आमृज्यमानेत्यादि: = आमृज्यमाना (निवार्यमाणा) गण्डस्थलयोः ( कपोलफलकयोः ) स्वेदलेखा (धर्मजलपङ्क्तिः ) यस्य, तम् । इहाऽपहनुत्युत्प्रेक्षयोः संसृष्टिः ।
आपाटलयेति । आपाटलया= ईषच्छवेतरक्तया, हरिणकलेत्यादिः =हरिणकलानां ( मगवंशानाम् ) कालरात्रेः ( विनाशरजन्याः) सन्ध्यायमानया ( सन्ध्यावदाचरन्त्या) शोणिताया
भयानक नाकवाला, जो एक कानके अलङ्कारभावको प्राप्त सर्पकी फणामणिकी कुछ गुलाबी किरणोंसे कुछ लाल किये गये वाम पावसे शोभित था मानों पत्तोंपर सोनेके अभ्याससे पल्लवोंकी लाली लग गई हो, कुछ समय पहले मारे गये हाथीके कपोलसे लिये गये सप्तच्छद की गन्धसे युक्त सुगन्धित मदसे मानों कृष्णाऽगुरुके पङ्कसे अङ्गों पर लेप किया था, ऊपर उसकी सुगन्धसे अन्धे हुए घूमते हुए, मयूरपङ्खोंके छत्रका अनुकरण करनेवाले भ्रमरसमूहसे मानों तमालपल्लवसे जिसकी धूप रोकी जा रही थी, चञ्चल पल्लवके बहानेसे मानों बाहुबलसे जीती गई अतः भयसे सेवा करने वाली विन्ध्यवन भूमिसे करतलसे जिसके कपोलफलककी पसीनेकी रेत्वा पोंछी जा रही थी, कुछ गुलाबी मानों मृगवंशकी कालरात्रिकी सन्ध्या होती हुई और मानों रुधिरसे आर्द्र दृष्टि से दिशाके