Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२०
कादम्बरी
भिषिक्त - पार्थिवकुलोद्गतेरखिल - कलाकलापालोचन - कठोरमतिभिरतिप्रगल्भः कालविद्भिः प्रभावाऽनुरक्त हृदयेरग्राम्योपहास कुशलैरिङ्गिताकारवेदिभिः काव्य-नाटकाख्यानकाख्यायिकालेख्यव्याख्यानादिक्रियानिपुणैरतिकठिन - पीवर-स्कन्धोरु- बाहुभिरसकृदवदलित-समद - रिपुगजघटा-पीठबन्धेः केसरिकिशोरकैरिव, विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बेरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास ।
-
अलङ्काराः ( आभूषणानि ) । समाना : ( सदृशा: ) वयोवस्थाऽलङ्कारा येषां तैः राजपुत्रैरित्यस्य विशेषणम्, एवमन्यत्राऽपि बोध्यम् । अनेकमूर्द्धाऽभिषिक्तपार्थिवकुलोद्गतैः = अनेके ( बहवः ) मूर्द्धाऽभिषिक्ता: ( क्षत्रियाः ) ये पार्थिवा: ( राजानः), तेषां कुलानि ( वंशाः ), तेभ्य उद्गताः ( उत्पन्नाः ), तैः । "मूर्द्धाऽभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।" इति " राज्ञि राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।" इत्यप्यमरः । अखिलकलाकलापाऽऽलोचनकठोरमतिभिः = अखिलाः ( समस्ताः ) या: कला: ( नृत्यगीतवादित्रादिरूपाः शिल्पविशेषाः ) तासां कलापा: ( समुदाया : ), तेषाम् आलोचनं ( विमर्शनम्), तेन कठोरा ( प्रौढा ) मति: ( बुद्धिः ) येषां तैः । अतिप्रगल्मैः = अतिशयप्रतिभाऽन्वितैः, कालविद्भिः = समयाऽभिज्ञैः, अवसरवेत्तृभिरिति भाव:, प्रभावाऽनुरक्तहृदयैः: प्रभाव: ( माहात्म्यम् ), तेन अनुरक्तम् ( अनुरागयुक्तम् ) हृदयं ( चित्तम् ) येषां तै: अग्राम्योपहासकुशलैः = अग्राम्यः ( अग्रामीणः, नागरिक इति भावः ) य उपहास : ( नर्मवचनविलासः), तस्मिन् कुशला: ( निपुणाः ), तैः । इङ्गिताऽऽका र वेदिभिः = इङ्गितम् ( मनोविकार: ) आकार: ( आकृति : मुखरागादिरिति भावः ) तौ विदन्ति ( जानन्ति ) इति तच्छीलाः तैः । काव्यनाटकाऽऽख्यानकाऽऽख्यायिकाऽऽलेख्यव्याख्यानादिक्रियानिपुणैः = काव्यम् ( कविकर्म, पद्यमयमिति भाव: ) नाटकम् ( रूपकं, दृश्यमिति भावः ) आख्यायिका ( गद्यकाव्यभेदः, वासवदत्ताऽऽदिः ), आलेख्यानि ( चित्रकर्माणि ), व्याख्यानानि ( अर्थनिर्वचनानि ) तानि आदि: ( प्रभृतिः ) यासां ताः, ताश्च ताः क्रिया: ( कर्माणि ) तासु निपुणा: ( प्रवीणाः ), तैः । अतिकठिनपीवरस्कन्धोरुबाहुभिः = अतिकठिनाः ( अतिशय कठोरा : ) पीवरा: ( स्थूला : ), स्कन्धा : ( अंसा: ), ऊरव: ( सक्थीनि "सक्थि क्लीबे पुमानूरुः" इत्यमरः । बाहवः ( भुजाः ) येषां तैः । असकृदवदलितसमदरिपुगजघटापीठबन्धः : असकृत् ( वारंवारम् ) अवदलिता: ( मर्दिताः ) समदा: ( मदयुक्ताः ) रिपुगजघटा : ( शत्रुहस्तिघटना:, “करिणां घटना घटा" इत्यमरः । तासां पीठबन्धाः ( पृष्ठस्थलभागाः ) यैः तैः । अत एव केसरिकिशोरकैः = केसरिणां ( सिंहानाम् ) किशोरका: ( बालाः), तैः इव । अत्रोपमाऽलङ्कारः । विक्रमैकरसः = विक्रमे ( पराक्रमे ) एव एकः ( मुख्य: ) रस: ( अनुरागः ) येषां तैः अपि । विनयव्यवहारिभिः = विनयेन ( शास्त्रजसंस्कारेण ) व्यवहरन्ति ( व्यवहारं कुर्वन्ति ) तच्छीलाः, तैः । आत्मनः = स्वस्य । प्रतिबिम्बैः = प्रतिकृतिभिः, इव, राजपुत्रैः = नृपकुमारैः सह = समं, रममाणः = क्रीडन्, प्रथमे = आद्ये, वयसि = अवस्थायां, किशोरावस्थायामिति भावः । सुखम् = आनन्दपूर्वकम्, अतिचिरं = बहुकालपर्यन्तम् । उवास = वासं चकार ।
=
बुद्धिवाले अतिशय प्रतिभा से सम्पन्न, समयको जाननेवाले, प्रभावसे अनुरक्त चित्तवाले, अग्राम्य ( शिष्ट ) परिहास में j कुशल हृदय और शरीरको चेष्टाओंको जाननेवाले, काव्य, नाटक, आख्यानक, आख्यायिका, चित्रकर्मव्याख्यान आदि कृत्योंमें प्रवीण, अत्यन्त कठोर और पुष्ट, कन्धे, ऊरु और बाहुओंवाले, शत्रुओंके मदवाले हाथियोंके पीठों को मर्दन करनेवाले, सिंहोंके बच्चोंके समान, पराक्रम में मुख्य अनुरागवाले होकर भी विनयसे व्यवहार करनेवाले अपने प्रतिबिम्बोंके समान राजकुमारोंके साथ क्रीडा करते हुए युवावस्था में सुखपूर्वक बहुत समयतक निवास किया।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172