Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 39
________________ कादम्बरी २२ नेन, कदाचिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदाले - ख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागत - मुनिजन- चरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतक- बिन्दुमती - गूढचतुर्थपाद - प्रहेलिका-प्रदानादिभिः, वनितासम्भोगसुख-पराङ्मुखः सुहृत्परिवृतो दिवस मनैषीत् । यथैव च दिवसमेवमारब्ध-विविध क्रीडा - परिहास - चतुरैः सुहृद्भिरुपेतो निशामनैषीत् । रिक्तीकृतम् ) काननं वनम् ) येन सः । कदाचित् काव्यप्रबन्धरचनेन = काव्यं ( दृश्यश्रव्यादि ) प्रबन्धाः ( कथाः ) तेषां रचनेन ( निर्माणेन ) । कदाचित्, आबद्धविदग्धमण्डलः = आबद्धम् ( आरचितम् ) विदग्धानां (निपुणानां जनानाम् ) मण्डलं ( समूह : ) येन सः । कदाचित् शास्त्राऽऽलापेन = वेदादिशास्त्रा भाषणेन, कदाचित् आख्यानकाऽऽख्यायिकेतिहासपुराणाऽऽकर्णनेन = आख्यानकम् ( अमृतमन्थनादिकमितिवृत्तम् ) आख्यायिका ( गद्यकाव्यविशेष: ), इतिहास : ( पुरावृत्तम्, रामायणमहाभारतादिकम् ) पुराणं ( पञ्चलक्षणं, श्रीमद्भागवतादिकम् ) तेषाम् आकर्णनेन ( श्रवणेन ) । कदाचित्, आलेख्यविनोदेन = चित्रकर्मक्रीडया, कदाचित्, वीणया = विपञ्च्या, तद्वादनेन तच्छ्रवणेन चेति भावः । कदाचित् दर्शनाऽऽगतमुनिजनचरणशुश्रूषया = दर्शनाऽऽगताः ( विलोकनार्थमायाताः ) ये मुनिजना : ( वीतरागलोकाः ) तेषां चरणशुश्रूषा ( पादसेवा ), तया । कदाचित्, अक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिः = अक्षरच्युतकम् ( अक्षरः = वर्णः, च्युतः = रहितः यस्मिस्तत्, अक्षरच्युतं, तदेव अक्षरच्युतकम्, यथा - कूजन्ति कोकिला: साले “अत्र रसाले” इति वक्तव्ये रच्युतः, तेन वृक्षे इत्यर्थः, रसाले इत्यस्य आम्र इत्यर्थः ) मात्राच्युतकं मात्रा ( वर्णाऽवयवः ), च्युता ( पतिता ) यस्मिन् तत् तदेवं यथा - "मूलस्थितिमधः कुर्वन्पात्रैर्जुष्टो गताऽक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥” अत्र "विट" पदात् इकारमात्रायां च्युतायां "वट'रूपस्याऽर्थस्य प्रतीतिः । विन्दुमती = पद्याऽक्षरसंख्यया विन्दुमात्रस्थापनेन तत्तदक्षरोपलब्धिः सा यथा किं कःकीः । कुळी० ॥ तत्पद्यं यथा—“त्रिनयनचूडारलं मित्रं सिन्धोः कुमुद्वतीबन्धुः । अयमुदयति घुसृणाऽरुण रमणीवदनोपमचन्द्रः ॥” इति । गूढचतुर्थपादः = गूढः ( गुप्तः ) चतुर्थ : ( तुर्यः ) पादः ( चरणः ) यस्मिन् सः । आद्ये पादत्रय एव यत्र चतुर्थपादस्याऽक्षरा गूढाः स गूढचतुर्थपादः । तदुदाहरणं यथा " न मज्जति क्वचिद्दोषे प्रीणाति जगतो मनः । य एकः स परं श्रीमान् चिरं जयति सज्जनः ॥” अत्र चतुर्थपादाऽक्षराः पादत्रये गूढाः । प्रहेलिका = श्लेषे सति यत्र विशेष्यस्याऽनभिधानं सा प्रहेलिका । सा च द्विविधा - शाब्दी आर्थी च । द्वयोरप्युदाहरणं यथा "तरुण्याऽऽलिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥ " करते हुए, किसी समय काव्य और प्रबन्धोंकी रचना से रसिकपुरुषोंको इकट्ठा करते हुए, किसी समय शास्त्राऽऽलापसे, किसी समय आख्यानक, आख्यायिका, इतिहास और पुराणोंको सुननेसे, किसी समय चित्रलेखन के विनोदसे, किसी समय बीणा बजानेसे, किसी समय दर्शनके लिए आये हुए मुनिजनोंके चरणोंकी सेवासे, किसी समय अक्षरच्युतकसे ( जहाँपर एक अक्षर हटा देनेसे दूसरा ही अर्थ निकलता है) मात्राच्युतकसे (जहाँपर एक

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172