Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-पम्पासरोवरवर्णनम् वनदेवताभिः केशपाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण-कमण्डलु-कलजलध्वनि-मनोहरम्, उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्ब कदम्बकैरासेवितम्, अभिषेकावतीर्ण-पुलिन्दराज सुन्दरी-कुच-चन्दनधूलि-धवलित-तरम्, उपान्त-केतकीरजःपटल-बद्ध-कूल-पुलिनम्, आसन्नाश्रमागत-तापसक्षालितार्द्र-वल्कल-कषाय-पाटल-तटजलम्, उपतट-वृक्ष-पल्लवानिल-वोजितम्, अविरल-तमाल-वीथ्यन्धकारिताभिर्वलिनिर्वासितेन संचरता
( महातरङ्गाः ), त एव उन्नतत्वान् शिखराणि (शृङ्गसदृशा इति भाव: ) तेषां सीकराः ( अम्बकणाः ) तै: आरब्धं ( विहितम् ) दुर्दिनम् (मेघच्छन्नदिनम् ) यस्मिस्तत् । "महत्सूल्लोलकल्लोलौ" इति, “सीकरोऽम्बुकणाः स्मृताः' इति चाऽमरः ।
अतो वनदेवता विशेषयति-अशङ्किताऽवतीर्णाभिः = अशङ्कितम् ( शङ्कारहितं यथा तथा ) अवतीर्णामिः (कृताऽवतरणाभिः ), अम्भःक्रीडारागिणीनिः = अम्मःक्रीडायां ( जलकेलो) रागिणीभिः ( कृताऽभिलाषाभि: )। तादृशीभि: वनदेवतामिः ( वनाधिदेवीभिः ), स्नानसमये = मज्जनकाले, केशपाशकुसुमैः = कचसमूहपुष्पः, सुरभीकृतं = सौगन्ध्यमापादितम् ।
एकदेशाऽवतोणेत्यादिः =एकदेशे ( एकभागे, पम्पासरस इति शेषः ) अवतीर्णाः ( कृताऽवतरणा: ) मुनिजना: ( तापसलोकाः ) तै: आपूर्यमाणा: (संभ्रियमाणाः ) ये कमण्डलवः ( कुण्ड्यः , जलपात्रविशेषाः ) तेषां कल: ( मनोहरः ) यो ध्वनिः ( शब्दः ), तेन मनोहरम् (सुन्दरम् ) । "अस्त्री कमण्डलुः कुण्डी"त्यमरः ।
उन्मिपवित्यादिः । उन्मिषन्ति ( विकन्ति ) यानि उत्पलानि (कुवलयानि) तेषां वनं (समूहः) तन्मध्यचारिभिः ( तदन्तवरणशील: ) सवर्णतया ( तुल्यवर्णत्वेन सादृश्येन ) समानो वर्णो येषां ते सवर्णाः, "ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनसन्धिषु" इति सूत्रेण समानस्य सभावः, सवर्णस्य मावस्तत्ता, तया ( तल् + टाप् )। रसिताऽनुमेयः, रसितेन (शब्देन ) अनुमेयः ( अनुमातुं योग्यः ) तादृशः कादम्बः = कलहंसः, आसेवितं = पर्वपासितम् ।
अभिषेकाऽवतीर्णेत्यादिः = अभिषेकाय ( स्नानाय ) अवतीर्णाः ( कृताऽवतरणाः ) या: पुलिन्दराजस्य ( म्लेच्छजातिविशेषस्य ) सुन्दर्यः (स्त्रियः ) तासां कुचाः ( पयोधराः ) तेषु ये चन्दनघूलयः ( श्रीखण्डचूर्णानि ) तैवलिततरम् ( साऽतिशयं शुक्लीकृतम् )।
___उपान्तेत्यादि:-उपान्ते ( समीपे ) केतकीनां (सूचीपुष्पाणाम् ) रजःपटलं (परागसमूहः ) तेन बद्धं ( संबद्धम् ) कूले ( तटे) पुलिनं ( जलादचिरनिर्गततटम् ) यस्मिस्तत् ।
आसन्नाश्रमागतेत्यादिः = आसन्नाः (निकटवर्तिनः ) ये आश्रमाः ( मूनिवासस्थानानि ) तेभ्य आगताः ( आयाताः ) ये तापसाः ( तपस्विनः ) तैः क्षालितानि (धौतानि ) अत आाणि (क्लिन्नानि) यानि वल्कलानि ( वल्कानि, वृक्षत्वनिर्मितवस्त्राणीति भावः) तैः कषायं (तुवरम् ) पाटलं ( श्वेतरक्तम् ) तटजलं ( तीरसलिलम् ) यस्मिस्तत् ।
उपतटेत्यादिः = तटस्य समीपे उपतटम् "अव्ययं विभक्तो''त्यादिनाऽव्ययीभावसमासः । उपतटं ये वृक्षाः ( तरव: ) तेषां पल्लवानि (किसलयानि ) तैः योऽनिल: ( वायः ) तैः वीजितम् ( कृत
भागोंके जलकणोंसे मेघसे आच्छादित दिनके समान, स्नानके समयमें निःशङ्क होकर उतरी हुई जलक्रीडामें अनुराग करनेवाली वनदेवियोंसे केशपाशमें रहे हुए फूलोंसे सुगन्धित किया गया, एक भागमें अवतीर्ण मुनियोंसे भरे गये कमण्डलुके कोमल जलध्वनिसे मनोहर, खिले हुए कमलोंके मध्यमें घूमनेवाले कमलके तुल्य वर्ण होनेसे शब्दसे अनुमानके विषय कलहँसोसे निरन्तर सेवित, स्नानके लिये उतरी हुई पुलिन्दराजकी स्त्रियोंके कुचोंमें चन्दनकी धूलिसे अत्यन्त सफेद, समीपमें केतकीके फूलोंके परागोंसे सम्बद्ध तटमें पुलिनसे युक्त, समीपके आश्रमोंसे आये हुए तपस्वियोंके धोये गये भीगे बल्कलोंसे जिसके किनारेका जल गुलाबी और कषाय हो गया है, तटके समीपके वृक्षों

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172