Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे – शबरसैन्यवर्णनम्
८९
अचिराच्च प्रशान्ते तस्मिन् मृगयाकलकले, निर्वृष्ट-मूक जलधर- वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव स्तिमिततामुपगते कानने, मन्दीभूतभयोऽहमुपजातकूतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य्यं सन्त्रास - तरल-तारकः शैशवात् किमिदमित्युपजात दिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् ।
अभिमुखमापतच्च तस्माद्वनान्तरादर्जुन भुजदण्ड-सहस्र - विप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसङ्घातम्, अञ्जनशिला - स्तम्भ सम्भारमित्र क्षितिकम्प-विघूर्णितम्, अन्धकारपुञ्जमिव रविकिरणाकुलितम्, अन्तकपरिवारमिव परिभ्रमन्तम् अवदारित रसातलोद्भूतमिव दानवलोकम्, अशुभ कर्म-समूह
=
अचिराच्चेति । अचिराच्च = अल्पकालेन च । तस्मिन् = पूर्ववणिते, मृगयाकलकले = आखेटकोलाहले, प्रशान्ते = शान्तिमुपगते, निर्वृष्टमूकजलधर वृन्दाऽनुकारिणि = निर्वृष्टं ( निःशेषेण कृतवर्षम् ) अत एव मूकं ( स्तनितरहितम् ) यत् जलधरवृन्दं ( मेघसमूहः ), तत् अनुकरोति ( विडम्बयति ) तच्छीलं तस्मिन् कानने वने, मथनाऽवसानोपशान्तवारिणि = मथनस्य ( विलोडनस्य ) अवसानम् ( अन्तः ), तस्मिन् उपशान्तं ( स्वस्वरूपाऽवस्थितम् ) वारि ( जलम् ) यस्मिस्तस्मिन्, तादृशे सागर इव = समुद्र इव, स्तिमिततां = निश्चलताम् उपगते = प्राप्ते सति, मन्दीभूतभयः = मन्दीभूतम् ( अल्पभूतम् ) मयं ( भोतिः ) यस्य सः, अहं पितुः = जनकस्य, उत्सङ्गात् = अङ्कात्, ईषत् इव = स्तोकम् इव, निष्क्रम्य = निर्गत्य, वियुज्येति भावः । कोटरस्थ एव = निष्कुहस्थित एव । शिरोधरां = ग्रीवां, प्रसार्य = विस्तार्य, संत्रासतरलतारक: = संत्रासेन ( भयेन हेतुना ) तरले ( चञ्चले ) तारके ( कनीनिके ) यस्य सः । शैशवात् = बाल्याद्धेतोः, इदम् - सद्यो दृश्यमानं किम् इति = एवम्, उपजातदिदृक्षः = उपजाता ( समुत्पन्ना ) दिदृक्षा ( दर्शनेच्छा दिशं = काष्ठां प्रति, चक्षुः = नेत्रं प्राहिणवं प्रेषितवान् । स्थितेः संसृष्टिरलङ्कारः ।
)
यस्य सः । तादृशः सन् तामेव, इहोपमा लुप्तोपमयोमिथो नरपेक्ष्येण
1
अभिमुखमिति । तस्मात् = पूर्वोक्तात् वनाऽन्तरात् = अरण्यमध्यभागात्, "अभिमुखमापतत् शबरसैन्यमद्राक्षम्” इति वाक्येन सम्बन्धः । अर्जुनेत्यादिः ० = अर्जुनस्य ( कार्तवीर्यस्य ) ये भुजदण्डाः ( बाहुदण्डाः ) तेषां सहस्रं ( दशशती) तेन विप्रकीर्णम् ( इतस्ततः पर्यस्तम् ) नर्मदाप्रवाहम् इव = रेवास्रोत इव, " शबरसैन्यम्" इत्यस्य विशेषणमेवं परत्राऽपि । अनिलचलितं = : वायुकम्पितं, तमालकाननम् इव = तापिच्छवनम् इव । उपमालङ्कारः । एकीभूतमिति । एकीभूतम् = एकत्रस्थितं, कालरात्रीणां = प्रलयसमयनिशानां यामसंघातम् इव = प्रहरसमूहम् इव, उत्प्रेक्षालङ्कारः ।
अनेति । क्षितिकम्पविघूर्णितं = क्षितिकम्पेन ( भूकम्पेन ) विघूर्णितम् ( चलितम् ), अञ्जनशिलास्तम्भ-सम्मारम् इव = अञ्जनशिलानां ( कज्जलपाषाणानाम् ) ये स्तम्भा: ( स्थूणाः ) तेषां सम्भारम् ( समूहम् ), इव । इहोपमालङ्कारः ।
अन्धकारेति । रविकिरणाकुलितं = रविकिरण ( सूर्य रश्मिभि: ) आकुलितम् ( अभिभूतम् ) अन्धकारपुञ्जम् इव = तिमिरसमूहम् इव । उत्प्रेक्षाऽलङ्कारः ।
=
7
थोड़े ही समय में शिकारका शोरगुल शान्त होनेपर, वनके प्रचुर वृष्टि कर नीरव मेघसमूहका अनुकरण करनेपर, और मथनसमाप्ति में शान्त जलवाले समुद्रके समान बनके निश्चल हो जानेपर, भयके कुछ मन्द हो जाने से कुतूहलके कारण पिताकी गोद से कुछ बाहर निकलकर कोटरपर ही रहकर गरदन फैलाकर त्राससे चञ्चल पुतलियोंवाला होकर बचपन के कारण यह क्या है ? इस प्रकार देखनेकी इच्छा से उसी दिशा में मैंने दृष्टि डाली । उस वनके भीतर से कार्तवीर्य के हजारों बाहुओं से बिखरे हुए नर्मदाप्रवाहके समान, वायुसे कम्पित तमालवनके समान, प्रलयकालकी रात्रियों के इकट्ठे हुए प्रहरसमूहके तुल्य, भूकम्प से चालित कज्जलशिलाओंके स्तम्भसमूहके सदृश, सूर्य किरणसे अभिभूत अन्धकारके तुल्य, भ्रमण करते हुए यमराजके परिवारके समान, विदारित पातालसे

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172