Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 108
________________ कथामुखे-शबरसेनापतिवर्णनम् मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कशत्वादायसमयमिव, एकलव्यमिव जन्मान्तरगतम्, उद्भिद्यमान-श्मश्रुराजितया प्रथम मदलेखा-मण्ड्यमानगण्डभित्तिमिव गजयूथपतिकुमारम्, असित-कुवलय श्यामलेन देहप्रभा-प्रवाहेण कालिन्दीजलेनेव पूरिताऽरण्यम् आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तल भारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अतितुङ्ग-घोरघोणम, उपनीतस्यैककर्णाभरणतां भुजगफणामणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासाल्लग्न-पल्लवरागेणेव ( वनम् ) येन, तम्। अनेकसहस्रसंख्यम् = अनेकानि ( बहूनि ) सहस्राणि ( दशशतीपरिमिता ) संख्या ( संख्यानम् ) यस्य तत् । अतिभयजनकम् = अतिशयमोत्यत्पादकम्, उत्पातवेतालवातम् = उत्पाताय ( अमङ्गलाय ) ये वेतालाः ( भूताऽधिष्ठितशवाः ) तेषां वातम् ( समूहम् ) इव,शबरसन्यं - म्लेच्छविशेषाऽनीकम्, अद्राक्षं = दृष्टवान् उत्प्रेक्षाऽलङ्कारः । अथ शबरसेनापति वर्णयितुमुपक्रमते-मध्ये चेति । महतः = विशालस्य, तस्य = पूर्वोक्तस्य, शबरसन्यस्य = भिल्लबलस्य, मध्ये = अन्तरे, प्रथमे = पूर्व, वयसि = अवस्थायां, वयसः पूर्वमुत्तरं चेति भागद्वयं प्रकल्प्य कथनात् यौवन इति भावः । वर्तमानं = विद्यमानं, "मातङ्गनामानं शबरसेनापतिम्" इत्यत्र सम्बन्धः, एवं परत्रापि । अतिकर्कशत्वात् = अतिशयकठोराऽवयवत्बात्, आयसमयम् इव = लोहविकारम् इव, उत्प्रेक्षा । निर्मितं = रचितं, जन्मान्तरगतं = अन्यजन्मप्राप्तम्, एकलव्यं = निषादाऽधिपतिम्, इव । एकलव्यो नाम महाभारते वणितो महावीरः, स निषादाऽधिपतेहिरण्यधनुषः पुत्रः, द्रोणाचार्येणाऽध्यापयितुं प्रतिषिद्धत्वेऽपि भक्त्यतिशयेन द्रोणाचार्यमूर्ति पुरोनिधाय धनुर्विद्याऽभ्यसनशील इति महामारतीयमाख्यानम् । उत्प्रेक्षाऽलङ्कारः ।। उद्भिद्यमानेति । उद्भिद्यमानश्मश्रराजितया = उद्भिद्यमाना ( उत्पद्यमाना) श्मश्रुराजिः ( मुखरोमपङ्क्तिः ) यस्य, तस्य मावस्तत्ता, तया, हेतुना। प्रथममदलेखेत्यादिः। प्रथमा ( आद्या ) या मदलेखा ( दानजलपक्तिः ), तया मण्डयमाने ( भूष्यमाणे) गण्डभित्ती (कपोलफलको) यस्य, तं तादृशं, गजयूथपतिकुमारकं = गजयूथपतेः ( हस्तिसङ्घनायकस्य ) कुमारकम् ( कलमम् ) इव, उपमाऽलङ्कारः। असितेति । असितकुवलयश्यामलेन = असितं (नीलम् ) यत् कुवलयम् (उत्पलम् ) तदिव श्यामल: (कृष्णवर्णः) तेन, तादृशेन देहप्रमाप्रवाहेण = शरीरकान्तिस्रोतसा, कालिन्दीजलेन = यमुनासलिलेन, इव, पूरिताऽरण्यं = पूर्णीकृतवनम् । अत्रोपमा, उत्प्रेक्षा तथा देहप्रभाप्रवाहेणाऽरण्यपूरणाऽसम्बन्धेऽपि सम्बन्धवर्णनादतिशयोक्तिश्चेति मिथोऽङ्गाङ्गिभावेन सङ्कराऽलङ्कारः।। आकुटिलाप्रेणेति । आकुटिलाऽग्रेण-किञ्चित्कुञ्चिताऽग्रभागेन, स्कन्धाऽवलम्बिना=अंसाऽवलम्बनशीलेन, कुन्तलभारेण-केशकलापेन, उपेतं-सहितं, गजमदमलिनीकृतेन व्यापादितहस्तिदानजलश्यामलीकृतेन, केसरकलापेन = सटासमूहेन, उपेतं = युक्तं, केसरिणम् इव = सिंहम् इव । अत्रोपमाऽलङ्कार । आयतेति । आयतललाट = विस्तीर्णमालम्, अतितुङ्गघोरघोणम् = अतितुङ्गा ( अत्यन्नता) घोरा (भीषणा ) घोणा ( नासिका ) यस्य, तम् । “घोणा नासा च नासिका" इत्यमरः । उपनीतस्येति । एककर्णाभरणताम् = एकः यः कर्णः ( श्रोत्रम् ) तस्य आभरणताम् ( भूषण उस विशाल शवरसैन्यके बीच में युवावस्था ( जवानी) में विद्यमान, अत्यन्त कठोर होनेसे लोहेसे निर्मितके सदृश, दूसरा जन्म लेनेवाले एकलव्यके सदृश, दाढ़ी और मूछोंकी रेखासे जो मानों पहली मदरेखासे शोभित कपोलभित्तिवाले गजसमूहके नायकके पुत्रके तुल्य था, नीलकमलके समान श्यामवर्णवाले शरीरकान्तिके प्रवाहसे यमुनाके जलसे पूर्ण किये गये जङ्गलके सदृश, कुछ कुटिल अग्रभागवाले कन्धोंपर लटके हुए केशभारसे मानों हाथीके मदसे मलिन किये गये केसरसमूहसे युक्त सिंह था। चौड़े ललाट (लिलार ) वाला, अतिशय ऊँची और

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172