Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-प्रभातवर्णनम् शबरसीमन्तिनी-स्वेदजलकणापहारिणि वनमहिष-रोमन्थफेनबिन्दुवाहिनि चलितपल्लव-लतालास्योपदेश-व्यसनिनि विघटमान-कमलखण्ड-मधुसीकरासावर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्द-मन्दसञ्चारिणि प्रवाति प्रभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानाम् इभगण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु घटमान-दलपुट-निरुद्धपक्षसंहतीनामुच्चरत्सु हुङ्कारेषु, प्रभातशिशिरवाय्वाहतमत्तप्तजतुरसाश्लिष्ट पक्ष्ममालमिव सशेषवने = लुलितं ( कम्पितम् ) कमलवनं येन तस्मिन् । रतखिन्नेत्यादिः० = रतेन ( निधुवनेन ) खिन्ना: ( खेदप्राप्ताः ) याः शबरसीमन्तिन्यः ( म्लेच्छ जातिविशेषरमण्यः ) तासां स्वेदजलकणान् (धर्मजलबिन्दून ) अपहरतीति तच्छीलस्तस्मिन्, तदपहरणशील इत्यर्थः । वनमहिषेत्यादिः ० = वनमहिषाणां ( सरिमाणाम् ) रोमन्थः ( चर्वितचर्वणम् ) तस्य फेनबिन्दवः (डिण्डोरपृषताः) तान् वहतीति ( धारयतीति ) तच्छीलस्तस्मिन् । चलितेत्यादिः = चलिताः ( कम्पिताः ) पल्लवाः ( किसलयानि ) यासां ताः, तादृश्यो या लता ( वल्ल्यः ) तासां लास्यं ( नृत्यम् ) तस्य उपदेशः (शिक्षणम् ), तस्मिन् व्यसनिनि (आसक्ते )। विघटमानेत्यादिः । विघटमानं (विकासं प्राप्नुवन् ) यत् कमलखण्डं ( पद्मसमूहः ) तस्य यत् मधु ( पुष्परसः ) तस्य शीकराणाम् ( कणानाम् ) आसार: (धारासम्पात: ) तद्वर्षिणि ( तद्वर्षणशीले )। कुसुमामोदतपितालिजाले = कुसुमामोदेन (पुष्पसौरभेण ) तपितम् ( प्रीणितम् ) अलिजालं ( भ्रमरसमूहः ) येन तस्मिन् । निशाऽवसानजातजडिम्नि = निशाऽवसानेन ( रात्रिसमाप्त्या ) जातः ( उत्पन्नः ) जडिमा ( शैत्यम् ) यस्य तस्मिन् । “पृथ्वादिभ्य इमनिज्वा" इति सूत्रेण जडशब्दादिमनिच्प्रत्ययः । मन्दमन्दसञ्चारिणि = शनैः शनैः सञ्चरणशीले, प्राभातिके = प्रातःकालमवे, मातरिश्वनि = वायौ, प्रवाति = प्रवहति सति । "श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ।" इत्यमरः ।
कमलेति । कमलवनेत्यादिः = कमलवनस्य ( पद्मकाननस्य ) प्रबोधे ( जागरणे, विकसन इति भाव: ) मङ्गलपाठकानां ( स्तुतिपाठकारिणाम् ), एतेन कमलवनस्य प्रभुत्वं भ्रमराणां बन्दित्वं व्यङ्गयम् । इभगण्डडिण्डिमानाम् = इभगण्डेषु ( हस्तिकपोलेषु ), डिण्डिमानाम् ( वाद्यविशेषस्वरूपाणां, डिण्डिमवच्छन्दकारिणामिति भावः ), तादृशानां मधुलिहां = भ्रमराणां, कुमुदोदरेषु = कुमुदानाम् ( करवाणां, कमलविशेषाणाम् ) उदरेषु ( मध्यभागेषु )। घटमानेत्यादि:० = घटमानानि ( सङ्कोचं प्राप्नुवन्ति ) यानि दलपुटानि ( पत्त्रकोशाः ) तेषु निरुद्धा ( निबद्धा ) पक्षसंहतिः ( पतत्त्रसमूहः ) येषां, तेषाम् । मधुलिहां = भ्रमराणाम् । हुङ्कारेषु = हुङ्कारध्वनिषु, उच्चरत्सु = गुञ्जत्सु । अत्र मधुलिट्त्सु मङ्गलपाठकत्वारोपः शाब्दः, कमलवने प्रभुत्वारोपस्त्वार्थ इत्येकदेशविवर्तिरूपकम्, इमगण्डडिण्डिमानामित्यत्र निरङ्गकेवलरूपकम्, अनयोमिथोऽनपेक्षया स्थितेः संसृष्टिरलङ्कारः । "मिथोऽनपेक्षयतेषां स्थितिः संसृष्टिरुच्यते" इति साहित्यदर्पणे ।
प्रभातेति । ऊवरेत्यादिः । ऊषरा ( तृणरहिता ) या शय्या ( शयनस्थानम् ), तया धूसरा (धूम्रवर्णा ) क्रोडरोमराजिः (भुजान्तरलोमपङ्क्तिः ) येषां, तेषु । वनमृगेषु = अरण्यहरिणेषु, समान अथवा धर्मपताकाओंकी समान प्रतीत होकर फैल रही थीं। ओसकी बूंदोंसे युक्त, कमलवनको हिलानेवाली, रतिसे खिन्न शबरस्त्रियों के पसीने के कणोंको सुखानेवाली, जङ्गली भैसोंकी जुगालीके फेनकी बूंदोंको वहन करनेवाली, हिलते हुए पल्लवोंसे युक्त, लताओंके नृत्यके उपदेशमें व्यसनवाली, खिलते हुए कमलोंके मधु कणोंको लगातार बरसानेवाली, फूलोंके सौरभसे भौरोंको तृप्त करनेवाली, रात्रिकी समाप्तिसे शीतल, मन्द-मन्द बहनेवाली प्रातःकालकी हवाके चलनेपर, कमलवनको जगानेके लिए मङ्गलपाठक, हाथियोंके कपोलोंमें डिण्डिम ( वाद्य )के समान, सङ्कुचित पत्तोंके कोशोंमें बद्ध पङ्खोंवाले भौरोंके गुअन करनेपर, ऊपर ( तृणरहित ) शय्यासे धूसर भुजान्तरकी रोमपङ्क्तिसे युक्त वनमृगोंके प्रातःकालकी ठण्डी हवासे ताडित, मानो तपाये गये लाक्षारससे चिपकाये गये पलकोंसे युक्त,
६ का

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172