Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 101
________________ कादम्बरी आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरित-कर्णविवरो भयविह्वल: समीपत्तिनः पितुः प्रतीकारबुद्धया जराशिथिलपक्षपुटान्तरमविशम् । अनन्तरञ्च 'सरभसमितो गजयूथपति-लुलित-कमलिनी-परिमल:; इतः क्रोडकुल-दश्यमान-भद्रमुस्ता-रसामोदः, इतः करिकलभ-भज्यमान-सल्लकी-कषाय-गन्धः; इतो निपतित-शुष्कपत्त्रमर्मरध्वनिः, इतो वनमहिष-विषाण-कोटिकुलिश-भिद्यमान-वल्मीकधूलि:, इतो मृगवनवराहाः ( अरण्यशूकरा: ) तेषां रव: ( शब्द: ) तेन घर्घर: ( घर्घरात्मकाऽस्फुटध्वनियुक्तः ) । गिरिगुहेत्यादि: ० = गिरिगुहासु ( शैलकन्दरासु) सुप्तप्रबुद्धा: ( प्राक् सुप्ताः = निद्राणाः, पश्चात्, प्रबुद्धाः = जागरिताः ), "पूर्वकालकसर्वजरत्पुराणनवकेवलाः समानाऽधिकरणेन" इति समासः, तादृशाः ये सिंहाः ( केसरिणः ) तेषां निनादः ( गर्जनशब्दः ) तेन उपबृंहितः ( वृद्धिगतः ) । तख्न = वृक्षान्, कम्पयन् इव = कम्पयुक्तान्कुर्वन् इव । भगीरथेति । भगीरथेन ( सूर्यवंशोत्पन्नेन राजविशेषेण ) अवतार्यमाणः (अधस्तादानीयमानः) यो गङ्गाप्रवाहः (विष्णुपदीस्रोतः ), तस्य य: कलकल: ( कोलाहलशब्दः ) तेन बहल: ( प्रभूतः)। भीतवनदेवताऽऽकर्णितः = भीताः ( त्रस्ताः ) या वनदेवताः ( अरण्यदेव्यः )। तामिः, आकर्णितः (श्रुतः ) अत्रोपमोत्प्रेक्षयोः संसृष्टि: । मृगयाकोलाहलध्वनिः= आखेट-कलकलशब्दः । उदचरत् = उदतिष्ठत् । आकयेति । अहम्, अश्रुतपूर्वम् = अनाकर्णितपूर्व, तं = मृगयाकोलाहलध्वनिम्, आकर्ण्य = श्रुत्वा । अर्भकतया = शिशुत्वेन, उपजातवेपथुः = संजातकम्पः । जर्जरितकर्णविवरः =जर्जरितं ( विदीरितम् ) कर्णविवरं (श्रोत्रच्छिद्रम् ) यस्य सः । भयविह्वल:= त्रासविक्लवः । समीपवर्तिनः= निकटस्थितस्य, पितुः = जनकस्य, प्रतीकारबुद्धया = मयनिवारणमत्या, जराशिथिलपक्षपुटान्तरं = जरया ( विस्रसया ) शिथिलं ( श्लथम् ) यत् पक्षपुटं ( पतत्रयुगलम् ) तस्य अन्तरम् ( अन्तः ) अविशम् = प्रविष्टवान् । अनन्तरं =पितपक्षपूटाभ्यन्तरप्रवेशाऽनन्तरं, "कोलाहलमशृणवम्" इति पश्चाद्वतिपदाम्यां, सम्बन्धः । कोलाहलप्रकारानाह __सरभसमित्यादि । इतः = अस्मिन्प्रदेशे, सरभसं = सवेगं, गजयूथपतीत्यादिः = गजयूथपतिभिः ( हस्तिसमूहश्रेष्ठः ) लुलिताः ( मर्दिताः ) याः कमलिन्यः ( पद्मिन्यः ) तासां परिमलः ( विमर्दोत्पन्नसुगन्धः ) । प्रसरतीति शेषः, अतोऽत्र गजाः सन्तीतिभावः, एवमेव अन्यत्रापि ते तेऽनुमीयन्त इत्यूहः । इतः, क्रोडकुलेत्यादिः = क्रोडकुलः ( वनवराहसमूहै: ) दश्यमानाः ( भक्ष्यमाणाः ) या मद्रमुस्ताः ( गुन्द्राः, भाषायां तु "नागरमोथा" इति प्रसिद्धाः ), तासां रसः (द्रवः ) तस्य आमोदः ( सुगन्धः ), अतोऽत्र वराहाः सन्तीति शेषः । “स्याद्भद्रमुस्तको गुन्द्रा" इत्यमरः । इतः, करिकलभेत्यादिः= करिकलमः ( हस्तिशावकः ) मज्यमानाः ( आमद्यमानाः ) याः सल्लक्य: ( गजमक्ष्यलताविशेषाः ), तासां कषायगन्धः ( तुवरगन्धः ), इतः, निपतितशुष्कपत्त्रमर्मरध्वनिः= निपतितानि ( वृक्षच्युतानि ) व्याकुल और मत्त भ्रमरसमूहके गुजनसे बढ़ा हुआ घूमते हुए ऊँची नासिकावाले जङ्गली सूअरोंके शब्दसे कठोर, पर्वतकी गुफाओंमें सोकर जागे हुए सिंहके गर्जनसे बढ़ाया गया, जो मानों वृक्षोंको कम्पित कर रहा था, भगीरथसे उतारी गई गङ्गाके प्रवाहके कलकलके समान घना, डरी हुई वनदेवताओंसे सुनागया शिकारका कोलाहल शब्द उत्पन्न हुआ। पहले कभी नहीं सुने गये उस शब्दको सुनकर मैं बालक होनेसे काँपकर जर्जरित कर्णविवरवाला, और भयसे विह्वल होकर प्रतीकारकी बुद्धिसे निकटमें रहे हुए पिताके बुढ़ापेसे शिथिल पंखोंके भीतर घुस गया। इसके वाद वेगके साथ यहाँ हाँथियों के स्वामीसे मदित कमलिनीका गन्ध है। यहाँ जङ्गली सूअरोंसे चबाई जाती हुई नागरमोथाके रसका गन्ध है, यहाँ हाथीके बच्चोंसे तोड़ी जाती हुई सल्लकी लताका कसैला गन्ध है, यहाँ

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172