Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-शाल्मलीतरुवर्णनम्
७३ क्षणमम्बुभारालसैराद्रीकृतपल्लवर्जलधरपटलेरप्यदृष्टशिखरः, तुङ्गतया नन्दनवनश्रियमिवावलोकयितुमभ्युद्यतः, स्वसमीपतिनामुपरि संचरतां गगनतलगमन-खेदायासितानां रविरथतुरङ्गमाणां सृक्कपरिस्रुतैः फेतपटलः सन्देहित-तूलराशिभिर्धवलीकृतशिखरशाखः, वनगजकपोलकण्डूयन-लग्नमद-निलीन-मत्तमधुकरमालेन लोहशृङ्खलाबन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टः स्फुरद्भिः सजीव इव मधुकरपटलः, दुर्योधन इवोपलक्षित-शकुनिपक्षपातः, नलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, ( आयातैः ), शाखान्तरेषु = शाखानाम् (लतानाम् ) अन्तरेष (अवकाशेष ), निलीयमान: ( गुप्तरूपेण तिष्ठद्भिः ), पत्त्ररथैः = पक्षिमिः, इव । क्षणं = कंचित्कालं, "कालाऽध्वनोरत्यन्तसंयोगे" इति कालस्याऽत्यन्तसंयोगे द्वितीया । अम्बुमाराऽलसः = अम्बुमारेण (पीतजलमरेण ) अलसः (आलस्ययक्तः, मन्दगतिभिरिति भावः ), आर्द्रकृतपल्लव: आर्द्रकृतानि (क्लिन्नीकृतानि ) पल्लवानि (किसलयानि ) यः, तैः । जलधरपटल: = मेघममूहै:, अपि, अदृष्टशिखरः = अदृष्टम् ( अनवलोकितम् ) शिखरम् (ऊर्वभागः ) यस्य सः ।
तुङ्गेति । तुङ्गतया = उन्नतत्वेन । नन्दनवनश्रियम् = देवेन्द्रोद्यानशोमाम्, अवलोकयितुं = द्रष्टुम्, अभ्युद्यतः = तत्पर इव, उत्प्रेक्षा।
स्वसमीपेति । स्वसमीपवर्तिनाम् = स्वनिकटस्थितानाम्, उपरि = ऊध्वंमागे, संचरतां= संचलता, गगनतलगमनखेदायासितानां = गगनतले (आकाशतले ) यत् गमनं ( गतिः ), तेन यः खेदः ( परिश्रमः ), तेन आयासितानाम् (संजातपरिश्रमाणाम् ), तादृशानां रविरथतुरङ्गमाणां = सूर्यस्यन्दनाश्वानां, सृक्कपरिस्रुतः = ओष्ठप्रान्तपतितः, सन्देहिततूलराशिभिः = सन्देहितः ( सन्देहविषयीकृतः ) तुलराशिः ( कापाससमहः ) यस्तैः, तादृशः फेनपटल:=डिण्डीरसमहैः, धवलीकृतशिखरशाखः = धवलीकृताः ( शुक्लीकृताः ) शिखरशाखा: ( ऊर्ध्वस्थितवृक्षमागाः ) यस्य सः । इह फेनपटल: शिखरशाखानां धवलीकरणसम्बन्धाऽभावेऽपि सम्बन्धोक्तेरतिशयोक्तिः, ततश्च शिखरशाखानामत्युन्नतत्वं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ।।
वनेति । वनगजेत्यादि:- वनगजा: (आरण्यकहस्तिनः) तेषां कपोलयोः (गण्डयोः ). कण्डूयनं (खर्जूकरणम् ) तस्मिन् लग्नाः ( सक्ताः ) ये मदाः ( दान-वारीणि ), तेषु निलीना ( अवस्थिता) मत्तानां ( मदयुक्तानाम् ) मधुकराणां (भ्रमराणाम् ) माला (पक्तिः ) यस्मिस्तेन । "गोस्त्रियोरुपसर्जनस्ये" त्युपसर्जनस्य ह्रस्वत्वम् । अत: लोहशृङ्खलाबन्धननिश्चलेन = लोहस्य ( अयसः) या शृङ्खला (निगडः ), तस्या बन्धनं ( नियन्त्रणम् ), तेन निश्चलेन (स्थिरेण ), इव. "अथ शृङ्खला । अन्दुको निगडोऽस्त्री स्यात् ।" इत्यमरः । कल्पस्थायिना = आप्रलयं तिष्ठता, तादृशेन मूलन = बुघ्नेन, समुपेतः= संयुक्तः । अत्रोत्प्रेक्षाऽलङ्कारः।
कोटरेति। कोटराऽभ्यन्तरनिविष्टः = कोटरस्य (निष्कुहस्य ) अभ्यन्तरे ( मध्यभागे ) निविष्टः ( प्रविष्ट :)। स्फुरद्भिः= संचद्भिः , मधुकरपटल:= भ्रमरसमूहै., सजीवः = श्वासादिप्राणयुक्तः, इव । उत्प्रेक्षाऽलङ्कारः ।
पक्षियोंके सदृश शाखाओं के भीतर छिपे हुए कुछ समय तक जलके भारसे मन्दगतिवाले, पल्लवोंको आई करनेवाले मेघसमूहोंसे भी जिसका शिखर ( ऊँचाई ) नहीं देखा जाता है, जो ऊँचा होनेसे मानों नन्दन काननकी शोभाको देखनेके लिए तत्पर है, अपने समीपमें रहनेवाले ऊपर चलते हुए, आकाशतलमें गमनके खेदसे परिश्रान्त सूर्यके रथक घोड़ोंक ओष्ठप्रान्तसे निकले हुए जिनमें कपासराशिका सन्देह होता था ऐसे फेनासे जिसकी चोटीको शाखाएँ सफेद कर दी गई थीं । जो जङ्गली हाथीके कपोलोंको खुजलानेसे लगे हुए, मदमें स्थित और मत्त भ्रमरसमूहसे मानों लोहेकी सीकड़ीके बन्धनसे निश्चल और प्रलयकाल तक रहनेवाली जड़से युक्त है। जो कोटरके भीतर प्रविष्ट और

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172