Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-शुकजन्मवृत्तान्तः
ওও एकस्मिश्च जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुरहमेवैको विधिवशात् सूनुरभवम् । अतिप्रबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे लोकान्तरमगमत्। अभिमतजायाविनाशशोकदुःखितोऽपि खलु तातः सुतस्नेहादभ्यन्तरे निगृह्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत । अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्ट-जीर्ण-पिच्छजाल-जर्जराम् अवस्रस्तांसदेशशिथिलाम् अपगतोत्पतनसंस्कारां प्रहतेत्यादिः । प्रहतः ( व्यापादितः ) यो हरिणः ( मृगः ) तस्य रुधिरं ( रक्तम् ) तेन अनुरक्ता ( रक्तवर्णीकृता ) या शार्दूलस्य ( व्याघ्रस्य ) नखकोटि: ( नखराऽग्रमागः ) सा इव पाटलं ( श्वेतरक्तम् ), तेन । उपमाऽलङ्कारः । तादृशेन चञ्चपुटेन = वोटिसम्पुटेन, दत्त्वा = वितीर्य, अधरीकृतसर्वस्नेहेन = अधरीकृतः ( न्यूनीकृत: ) सर्वेषु ( सकलेषु पदार्थेषु ) स्नेहः ( प्रणयः ) येन, तेन । तादृशेन असाधारणेन = असामान्येन, गुरुणा = महता दुर्धरेण वा, अपत्यप्रेम्णा = सन्तानस्नेहेन, तस्मिन् एव = शाल्मलीतरौ एव, क्रोडाऽन्तर्निहिततनयाः = क्रोडस्य ( भुजान्तरस्य ), अन्तः ( अभ्यन्तरे ) निहिताः ( न्यस्ताः ) तनयाः (आत्मजाः ) यस्ते तादृशाः शुकशकुनयः, क्षपाः = रात्री:, क्षपयन्ति स्म = यापितवन्त:, "लट् स्मे" इति "स्म' पदेन योगे भूताऽथं लट् । अत्र शुकशकुनीनामपत्यविषयक रतित्वेन भावकाव्यम् । "तदुक्तं = "सञ्चारिणः प्रधानानि देवादिविषया रतिः । भावः प्रोक्तः "इति साहित्यदर्पणः । “न ना क्रोडं भुजाऽन्तरम् ।" त्रियामा क्षणदा क्षपा।" इत्युमयत्र चाऽमरः ।
एकस्मिन्निति । एकस्मिन्, जीणंकोटरे पुराणनिष्कुहे, "निष्कुहः कोटरं वा ना" इत्यमरः । जायया सह = मार्यया समं, निवसतः = निवासं कुर्वतः, पश्चिमे = चरमे, वयसि = अवस्थायां, वार्धक्य इति भावः । वर्तमानस्य = विद्यमानस्य, कथमपि = केनाऽपि प्रकारेण, महता कष्टेनेति भावः । पितुः = जनकस्य, विधिवशात् = भाग्यवशात्, अहम्, एक:= एकाकी, सूनुः = सुतः, अभवम् = अभूवम् ।
अतिप्रबलेति । मम, जायमानस्य = उत्पद्यमानस्य, “षष्ठी चाऽनादरे "इति भावलक्षणे षष्ठी। एव, अतिप्रबलया = अतिशयदृढया, प्रसववेदनया = प्रसूतिव्यथया, मे = मम, जननी = प्रसूः, परलोक = लोकाऽन्तरम्, अगमत् = गता, गम्ल धातोर्लुङ् । च्लेर।।
अभिमतेत्यादिः। अभिमता ( अभीष्टा) या जाया (मार्या) तस्या विनाशेन ( मरणेन) दुःखितः = पीडितः, अपि । खलु = निश्चयेन । तातः = जनकः, सुतस्नेहात् = तनयवात्सल्यात् हेतोः । पटुप्रसरं = पटुः ( तीव्रः ) प्रसरः ( विस्तारः ) यस्य, तं, तादृशं शोकं = मन्युम्, अपि, अभ्यन्तरे = अन्तःकरणे, निरुध्य = अवरुध्य, एकाकी = एक एव, एकाकी, एक शब्दात् "एकादाकिनिच्चाऽसहाये" इति आकिनिच्प्रत्ययः । "एकाकी त्वेक एकक:"। इत्यमरः । मत्संवर्द्धनपरः = मम (सुतस्य ) संवर्द्धनं ( पोषणम् ), "प्रत्ययोत्तरपदयोथे"ति उत्तरपदे परेऽस्मच्छब्दस्य मदादेशः । मत्संवर्द्धने परः ( तत्परः ) । अभवत् = अभूत् ।
अतिपरिणतेति । अतिपरिणतवयाः = अतिपरिणतम् ( अतिशयपक्वम् ) वयः ( अवस्था) यस्य सः, अतिवृद्ध इति भावः । कुशचीराऽनुकारिणों = कुशं ( दर्भः ) चीरं ( वल्कलम् ) तत् अनुकरोति ( विडम्बयति ) तच्छीला, ताम् "पक्षसन्ततिम्' इत्यस्य विशेषणम्, एवं परत्राऽपि । उपमाऽलङ्कारः । अल्पाऽवशिष्टेत्यादिः = अल्पम् ( स्तोकम् ) अवशिष्टं ( शेषयुक्तम् ) यत् जीणं (जर्जरम् ) पिच्छजालं ( बहसमूहः ) तेन जर्जरा ( जीर्णा ), ताम् । अवस्रस्तांऽसदेशशिथिलाम् = अवस्रस्तः ( गलितः )
एक जीर्ण कोटर ( वृक्षके सूराख ) में भार्याके साथ निवास करते हुए वृद्भावस्थामें वर्तमान मेरे पिताका किसी प्रकार भाग्यवश में ही एक पुत्र हुआ। मेरे जन्मके समयमें उत्पन्न प्रवल प्रसूति-वेदनासे मेरी माता परलोक गई। अभीष्ट पत्नीके मरणके शोकसे दुःखित होकर भी मेरे पिता पुत्रके स्नेहसे फैलते हुए शोकको भी भीतर ही दबाकर अकेले ही मेरे संवर्द्धनमें तत्पर हुए। अत्यन्त वृद्ध ( मेरे पिता) कुश और वृक्षके वल्कलके सदृश, थोड़ा

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172