Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 92
________________ कथामुखे-शुकजन्मवृत्तान्तः ७५ महावकाशतया विश्रब्ध-विरचित-कुलायसहस्राणि दुरारोहतया विगतभयानि नानादेशसमागतानि शुक-शकुनिकुलानि प्रतिवसन्ति स्म । यः परिणामविरलदलसंहतिरपि स वनस्पतिरविरल-दल-निचय-श्यामल इवोपलक्ष्यते दिवानिशं निलीनैः ।। ते च तस्मिन् वनस्पतावतिवाद्याऽतिवाह्य निशामात्मनीडेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयो मदकल-बलभद्र-हलधर-हलमुखात्क्षेप-विकीर्णबहुस्रोतसमम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलित-विगलदाकाशगङ्गा-कमलिनीशङ्कामुत्पादयन्तः, दिवसकर-रथतुरग-प्रभानुलिप्तमिव गगनतलं प्रदर्शयन्तः, सञ्चारिणीमिव मरकतस्थली मध्येष, स्कन्धसन्धिषु = प्रकाण्डबन्धेषु, जीणंवल्कविवरेषु = पुरातनतरुत्वक्छिद्रेषु, महावकाशतया = प्रचुरप्रदेशत्वेन, विस्रब्धविरचितकुलायसहस्राणि = विस्रब्धं ( विश्वासपूर्वकं, निर्भयमिति भावः ) विरचितानि ( विनिमितानि ) कुलायानां ( नीडानाम् ) सहस्राणि ( बहुसंख्या: ) येषां तानि, “शुकशकुनकुलानि" इत्यस्य विशेषणम्, एवं परत्राऽपि । दुरारोहतया = दुःखेन आरोढुं शक्यो दुरारोहः, खल् प्रत्ययः । शुकशकुनिकुलाधारः शाल्मलीतरुरिति भावः । तस्य भावस्तत्ता तया । दुरारोहतया = दुःखपूर्वकारोहणविषयत्वेनेति तात्पर्यम् । विगतभयानि = विगतम् ( अपगतम् ) भयं ( ग्रहणमीति: ) येषां तानि । नानादेशसमागतानि = नानादेशेभ्यः ( अनेकजनपदेभ्यः ) समागतानि ( संप्राप्तानि )। शुकशकुनिकुलानि = शुकाः ( कीरा: ) शकुनयः ( अन्यसामान्यपक्षिणः ), तेषां कुलानि ( सजातीयाः ) प्रतिवसन्ति स्म = न्यवसन् । वैरिति । दिवानिशम् = अहोरात्रं, विलीन:= स्थितः, यः = शुकशकुनिकुलः, परिणामविरलदलसंहतिः परिणामेन ( प्राचीनत्वेन हेतुना ) विरला ( अल्पा ) दलसंहतिः ( पत्त्रसमूहः ) यस्य सः । तादृशोऽपि, सः= पूर्वोक्तः, वनस्पतिः = शाल्मलीतरुः, अविरलदलनिचयश्यामल: = अविरलानि ( निबिडानि ) यानि दलानि ( पत्त्राणि ) तेषां निचयः ( समूहः ) तेन श्यामल: ( नीलवर्णः ) इव, उपलक्ष्यते = अवलोक्यते । उत्प्रेक्षाऽलङ्कारः। ते चेति । ते = शुकशकुनयः, अग्रे "विचरन्ति स्मे" त्यत्र सम्बन्धः, एवं परत्राऽपि । तस्मिन् = पूर्वोक्ते, वनस्पतीशाल्मलीतरौ, आत्मनीडेषु = स्वकूलायेष, निशां= रात्रिम्, अतिवाह्य अतिवाह्य = असकृत् यापयित्वा, प्रतिदिनं-प्रत्यहम्, उत्थाय उत्थाय-असकृत् उत्थानं कृत्वा, आहाराऽन्वेषणाय = मक्ष्यपदाऽथंगवेषणाय, नमसि = आकाशे, विरचितपङ्क्तयः = विरचिता ( कृता ) पङ्क्तिः ( श्रेणी ) यस्ते । __ मदकलेत्यादिः । मदेन ( मधुपानमत्तत्वेन ) कल: ( मनोहरः ) यो बलभद्रः (बलरामः ), तस्य यत् हलं (सीरम् ) तस्य मुखम् ( अग्रभागः ) तेन य आक्षेपः (आकर्षणम् ) तेन विकीर्णानि ( विक्षिप्तानि ) बहूनि ( प्रचुराणि ) स्रोतांसि (प्रवाहाः ) यस्याः, ताम् । तादृशीं, कलिन्दकन्यां = कालिन्दी, यमुनामित्यर्थः । अम्बरतले आकाशतले, दर्शयन्तः = आलोकयन्तः, इव, उत्प्रेक्षाऽलङ्कारः । सुरगजेत्यादिः = सुरगजेन ( देवहस्तिना ) उन्मूलिता ( उत्पाटिता), विगलन्त्याः ( अधः पतन्त्याः ) आकाशगङ्गायाः ( सुरदीर्घिकायाः) या कमलिनी ( पद्मिनी) तस्याः शङ्काम् ( सन्देहम् ), उत्पादयन्तः = जनयन्तः, तादृशाः ते = शुकशकुनयः । अत्र भ्रान्तिमदलङ्कारः । वेदोंमें प्रचुर स्थान होनेसे विश्वासके साथ हजारों घोसलोंको बनाने वाले, पेड़में आरोहणमें कठिनता होनेसे निर्भय होकर अनेक देशोंसे आये हुए तोते और अन्य पक्षियोंके समूह निवास करते थे। जोर्ण होनेसे पत्तोंकी कमी रहनेपर भी दिनरात रहने वाले जिन पक्षियोंसे वह ( शाल्मली) वृक्ष घने पत्तोंके समूहसे श्याम वर्णवाला-सा दिखाई देता है। वे पक्षी उस पेड़पर अपने घोसलोंके भीतर रातको बिता बिताकर प्रतिदिन उठ उठकर आहार ढूँढ़नेके लिए आकाश में पङ्क्ति ( कतार ) बनाकर मानों मदसे मनोहर बलरामके हलके अग्रभागसे आकर्षण करनेसे बिखरी हुई अनेक धाराओं वाली यमुनाको आकाश तलमें दिखलाते हुए, देवताओंके हाथी (ऐरावत ) से उखाड़ी गई और

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172