Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
७४
कादम्बरी अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववनस्पतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुभिरुपगुह्येव विन्ध्याटवीमवस्थितो महान् जीर्णः शाल्मलीवृक्षः। ___ तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसन्धिषु जीर्णवल्कलविवरेषु च
दुर्योधन इति । दुर्योधनः = धृतराष्ट्रज्येष्ठपुत्रः, इव, उपलक्षितशकुनिपक्षपातः = उपलक्षितः ( दृष्टः ), शकुनो (तदाख्ये स्वमातुले ) पक्षपातः ( आसक्तिः ) यस्य सः । दुर्योधनेन स्वमातुलस्य शकुनेः साहाय्येनैव कपटाते पाण्डवाः पराजिता इति भारतीयमाख्यानम् । शाल्मलीतरुपक्षेउपलक्षितः ( दृष्ट: ) शकुनीनां (पक्षिणाम् ) पक्षाणां (छदानाम् ) पात: (पतनम् ) यस्मिन्सः । उपमाऽलङ्कारः। नलिननाभः = पद्मनाभः, कृष्णः इव, वनमालोपगूढः = वनमालया ( वनपुष्पमालया ) यद्वा
"आजानुलम्बिनो माला सर्वर्तृकुसुमोज्ज्वला ।
मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता ॥" इत्यक्तलक्षणोपेतया वनमालया, उपगढः ( आलिङ्गितः )। नलिनं ( पद्मम् ) नाभौ यस्य स नलिननाम:, "अच्प्रत्यन्ववपूर्वात्सामलोम्न" इत्यत्र "अच्" इति योगविभागादन्यत्रापि "इति वचनसामर्थ्यात्" "नलिननाम" इत्यत्राऽपि "पद्मनाम" इव समासाऽन्तोऽच प्रत्ययः । वृक्षपक्षे—वनमालया ( अरण्यपङ्क्तया) उपगूढः (आच्छादितः )। उपमा। नवजलधरव्यूहः = नवाः (नूतनाः ) ये जलधराः (मेघाः)। तेषां व्यूहः (समूहः ), इव, नमसि = श्रावणे, "नमः खं, श्रावणे नमा" इत्यमरः । दर्शितोन्नतिः = दर्शिता (प्रकाशिता ) उन्नतिः ( उच्छायः ) येन सः । वृक्षपक्षे—नमसि% आकाशे, दशितोन्नतिः । अत्राऽभङ्गश्लेषाऽलङ्कारः ।
अखिलेति। वनदेवतानां-विपिनाऽधिदेवीनाम्, अखिलेत्यादिः - अखिलं ( समस्तम् ) यत् भुवनतलं ( लोकतलम् ) तस्य निरीक्षणं ( विलोकनम् ) तदर्थं प्रासाद: ( देवगृहम् ) इव उत्प्रेक्षाऽलङ्कारः । दण्डकारण्यस्य = दण्डकवनस्य, अधिपतिः =स्वामी, इव । उत्प्रेक्षा।
सर्ववनस्पतीनां = सर्वेषां (सकलानाम् ) वनस्पतीनां ( पुष्परहितानां फलमात्रयुक्तानां वृक्षाणाम् )। नायक इव अध्यक्ष इव, उत्प्रेक्षाऽलङ्कारः। "वानस्पत्यः फल: पुष्पात्तरपुष्पावनस्पतिः । इत्यमरः । विन्ध्यस्य = दक्षिणपर्वतस्य, सखा = मित्रम्, इव । उत्प्रेक्षा। शाखाबाहुभिः = शाखाएव बाहवः ( भुजाः ), तैः विन्ध्याऽटवीं = विन्ध्यवनम् : उपगुह्य = आलिङ्गय, इव, स्थितः = विद्यमानः, महान् = विशालः, जीर्णः= पुराणः, शाल्मलीवृक्षः= स्थिरायुतरुः, अस्तीति शेषः । “पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोः" इत्यमरः ।
तत्र चेति । तत्र = तस्मिन्, शाल्मलोवृक्षे। शाखाऽग्रेषु = लताऽग्रमागेषु, कोटरोदरेषु = कोटराणाम् ( निष्कुहानाम्, वृक्षरन्ध्राणामित्यर्थः), उदरेषु ( मध्यभागेषु ), पल्लवान्तरेषु = किसलयचलते फिरते भ्रमरसमूहसे सजीव-सा मालूम होता है, जैसे दुर्योधन शकुनि ( अपने मामा ) में पक्षपात युक्त देखा जाता था वैसे ही जिसमें शकुनियों (पक्षियों) का पक्षपात (पक्षका गिरना) दिखाई देता है। जैसे नलिन नाभ (कृष्ण) घुटनोंतक लटकती हुई मालासे आलिङ्गित थे वैसे ही वह वनमाला (वनकी पक्ति) से युक्त है। जैसे मेघसमूहकी नभ (श्रावण ) में उन्नति ( वृद्धि ) दिखाई पड़ती है, वैसे ही जिसकी नभ (आकाश ) में उन्नति (ऊँचाई ) दिखाई पड़ती है। वनदेवताओंका समस्त भुवनतल देखनेके प्रासादके समान, जो मानों दण्डकारण्यका अधिपति है, जो मानों समस्त वनस्पतियोंका नायक है, जो मानो विन्ध्य पर्वतका मित्र है। शाखारूप बाहुओंसे मानों विन्ध्याटवीका आलिङ्गन करके रहा हुआ विशाल और जीर्ण शाल्मली (सेंमल) ना मका वृक्ष है।
वहाँ शाखाओंके अग्रभागोंमें कोटरोंके बीच, पल्लवोंके भीतर, प्रकाण्डों की सन्धियोंमें, जीर्ण वल्कलोंके

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172