Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 85
________________ ६८ कादम्बरी दितः, प्रलयकाल-विघट्टिताष्ट-दिग्विभाग-सन्धिबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृत-धरामण्डल-स्थानमिव जलपूरितम्, अनवरत-मज्जदुन्मद-शबरकामिनी-कुचकलशलुलित-जलम्, उत्फुल्ल-कुमुद-कुवलय-कह्रारम्, उन्निद्रारविन्दमधुबिन्दुनिष्यन्दबद्धचन्द्रकम्, अलिकुलपटलान्धकारितसौगन्धिकम्, सारसित-समद-सारसम्, अम्बुरुह-मधुपान-मत्त-कल-हंसकामिनीकृत-कोलाहलम्, अनेक-जलचर-पतङ्गशत-सञ्चलनचलित-वाचाल-वीचिमालम्, अनिलोल्लासितकल्लोल-शिखर-शीकरारब्ध-दुर्दिनम्, अशङ्कितावतीर्णाभिरम्भः क्रीडारागिणीभिः स्नानसमये लङ्कारः । प्रलयकालेत्यादिः =प्रलयकाले (संहारसमये ) विघट्टिताः ( नष्टाः ) ये दिग्विभागा: (आशाप्रभागा: ) तेषां सन्धयः ( संयोगाः ) तेषां बन्धः ( मर्यादा) यस्मिस्तत्, अतः भुवि = भूमौ, निपतितम् ( अवस्रस्तम् ) गगनतलम् = आकाशस्वरूपम्, इव । आदिवराहेत्यादिः = आदिवराहेण = विष्णोस्तृतीयाऽवतारेण, समुद्धृतं ( जलाबहिरानीतम् ) धरामण्डलस्थानम् (भूगोलप्रदेशः) इव, जलपूरितम् ( सलिलपूर्णम् )। अनवरतेत्यादिः । अनवरतं ( सततम् ) मज्जन्त्यः ( स्नानं कुर्वत्यः ) उन्मदाः ( उद्गतमदाः) याः शबरकामिन्यः ( मिल्लललना: ) तासां कुचकलश: ( स्तनकुम्भैः ) लुलितम् ( आलोडितम् ) जलं ( सलिलम् ) यस्मिस्तत् । उत्फुल्लेति । उत्फुल्लानि ( विकसितानि ) कुमुदानि ( करवाणि ) कुवलयानि ( उत्पलानि ) कलाराणि ( सौगन्धिकानि ) यस्मिस्तत् । “सिते कुमुदकैरवेइति “स्यादुत्पलं कुवलयम्" इति, "सौगन्धिकं तु कलारम्" इति चाऽमरः । उन्निद्रेति । उन्निद्राणि (विकसितानि ) यानि अरविन्दानि ( कमलानि ) तेषां मधुबिन्दवः ( मकरन्दपृषता: ) तेषां निष्यन्दाः (द्रवाः ) तैर्बद्धा: ( कृता: ) चन्द्रकाः (चन्द्राकारा मयूरमेचकाः ) यस्मिस्तत् । “समौ चन्द्र कमेचको" इत्यमरः । अलिकुलेत्यादिः । अलिकुलानां (भ्रमरवर्गाणाम् ) यत् पटलं (समूहः) तेन अन्धकारितानि ( सजातान्धकाराणि, अप्रकाशितानीति भाव: ) सौगन्धिकानि ( कलाराणि ) यस्मिस्तत् । सारसितसमदसारसम् = आरसितेन ( शब्देन ) सहिताः सारसिता: ( शब्दायमाना: ), "तेन सहेति तुल्ययोगे" इति तुल्ययोगबहुव्रीहिः, "वोपसर्जनस्ये"ति सहस्य सभावः । सारसिताः समदाः (मदसहिताः) सारसाः (पुष्कराह्वाः, पक्षिविशेषा: ) यस्मिस्तत् । अम्बुरुहेत्यादिः = अम्बुनि ( जले ) रोहन्तीति अम्बुरुहाणि, "इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । बुरुहाणां ( कमलानाम् ) यत् मधु ( पुष्परसः ), तस्य पानं ( धयनम् ) तेन मत्ताः ( मदयक्ता: ) याः कलहंसकामिन्यः ( वरटा: ) तामि: कृतः (विहितः ) कोलाहल: ( कलकल: ) यस्मिरतन् । अनेकेत्यादिः । अनेके ( बहवः ) ये जलचराः ( मत्स्यादयो जन्तवः ) पतङ्गाः ( पक्षिणः, हंसादय इति भावः ) तेषां शतानि ( समूहाः ) तेषां यत् सञ्चलनं (प्रस्फुरणम् ) तेन चलिताः (क्षुब्धाः ) अत एव वाचाला ( शब्दायमाना ) वीचिमाला ( तरङ्गपङ्क्तिः ) यस्मिस्तत् । अनिलोल्लासितेत्यादिः । अनिलेन ( वायना ) उल्लासिता: ( ऊर्ध्वप्रसारिता: ) ये कल्लोला: समुद्रके समान, मानों प्रलय समयमें आठ दिशाविभागोंका सन्धिबन्धन नष्ट होकर भूमिमें गिरे हुए आकाश तलके सदृश, आदि वराहसे उठाये गये भूमण्डलके स्थानके समान जलसे पूर्ण, लगातार स्नान करती हुई उत्कट मदवाली शबरकी सुन्दरियोंके कुचकलशोंसे आलोडित जलसे युक्त, जो विकमित कुमुद, उत्पल और रक्तकमलोंसे युक्त है, खिले हुए कमलोंके पुष्परमोंसे चन्द्रकोंसे सम्पन्न है, गीरों । समूहमे मौगन्धिक ( कमल ) अन्धकार युक्त हो गये हैं। शब्द करनेवाले मत्त सारसोंसे युक्त, कमलके पुष्परसके पानसे मत्त हँसियोंके कोलाहलसे परिपूर्ण, अनेकों जल चारी ग्राह आदि और हंस आदिके संचलनसे शोर करती हुई तरङ्ग पङक्तियोंसे युक्त, वायुसे उठाये गये तरङ्गके ऊँचे

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172