Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 81
________________ कादम्बरी ६४ भरणेन कुश-चीवर-वाससा मौञ्जमेखलाकलितमध्येन गृहीत- हरितपर्णपुटेन प्रत्युटजमटता भगं दृढदस्यनाम्ना पवित्रीकृतम्, अतिप्रभूतेध्माहरणाच्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुकहरितैश्च कदलीवनैः श्यामलीकृत - परिसरं सरिता च कलशयोनिपरिपीत सागरमार्गानुगतयेव बद्धवेणिकया गोदावर्य्या परिगतमाश्रमपदमासीत् । यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदन- लक्ष्मी-विभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन् सह सीतया लक्ष्मणोपरचित - रुचिर-पर्णशालः पञ्चवट्यां कञ्चित् कालं यत् भस्म ( भूति: ) तेन विरचितं (विनिर्मितम् ) त्रिपुण्ड्रकम् ( रेखात्रयसमाहार ) एव आभरणम् ( अलङ्कारः ) येन तेन । कुछचीवरवाससा = कुशमयं ( दर्भमयम् ) चीवरवास: ( निवस्त्रम् ) यस्य, तेन । मौञ्जमेखलाकलितमध्येन = मौञ्जी ( मुञ्जमयी ) या मेखला ( रशना ) तया कलित: ( बद्ध: ) मध्य : ( अवलग्नम् ) यस्य तेन । "मौजी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । 11 क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ||” मनुः २-४२ । = गृहीतहरितपर्णपुटेन गृहीतम् ( आत्तम् ) हरितं ( पालाशवर्णम् ) पर्णपुटं ( पत्त्रपुटकम् ) येन तेन । प्रत्यूर्जं = प्रतिपर्णनालम् । उटजम् उटजं प्रति यथार्थेऽव्ययीभावः । " पर्णशा लोटजोऽस्त्रियाम्" इत्यमरः । भिक्षां = मिक्षाऽर्थम्, अटता - गच्छता । दृढदस्युनाम्ना दृढदस्युनामक्रेन, अगस्त्य - पुत्रेण, पवित्रीकृतं प्रयतीकृतम्। अतिप्रभूतेघ्माहरणात् अतिप्रभूतानि ( अतिशय प्रचुराणि ) यानि इमानि ( काष्ठानि ) तेषाम् आहरणात् ( आनयनान् ) पिता = जनकः, अगस्त्य मुनिः, यस्य = पुत्रस्य 1 वाह इति, इमानि वहतीति, “कर्मण्यण्" इति अणुप्रत्ययः, उपपदसमासः । द्वितीयं = द्वयोः पूरणम्, नाम = अभिधानं चकार = विदधी । दिशि दिशि = प्रतिदिशं, "नित्यवीप्सयोः" इति द्विरुक्तिः । शुकहरितैः = शुका इव हरितानि तैः, “उपमानानि सामान्यवचनैः” इति समासः, कीरहरितवर्णैः, कदलीवनः = रम्भाविपिनंः, श्यामलीकृतपरिसरं श्यामीकृतपर्यन्तभागम्, श्यामलीकृतः परिसरो यस्य तत् " पर्यन्तभूः परिसरः" इत्यमरः । कलशयोनीत्यादिः = कलश: ( कुम्भ: ) योनिः ( उत्पत्तिकारणम्) यस्य सः, अगत्य इति भाव: । " अगस्त्यः कुम्भसंभव” इत्यमरः । कलशयोनिना ( अगस्त्येन ) परिपीतः ( चुलुकीकृत: ) यः सागरः ( समुद्रः ), तस्य मार्ग: ( पन्थाः ) तम् अनुगतया ( अनुसृतया ) अत एव बद्धवेणिकया = बद्धा ( नद्धा ) वेणिका ( प्रवाहः, केशरचना च ) यया, तया गोदावर्या = गोदावरीनाम्न्या, सरिता = नद्या, परिगतं = परिवेष्टितम् । अगस्त्येन परिपोतत्वेन सागरलोपशङ्कया पतिव्रतया गोदावर्या बद्धवेणीकत्वेन पतिमार्गानुसरणं कर्तव्यमित्युत्प्रेक्षाभावः । = = यत्र = यस्मिन् आश्रमपदे, दशरथवचनं दशरथस्य ( स्वपितुः ) वचनं ( वचः, चतुर्दशवर्षपर्यन्तं वनवासरूपम् ), अनुपालयन् = समाचरन्, अतः उत्सृष्टराज्य: = उत्सृष्टं ( त्यक्तम् ) राज्यम् ( राजकर्म ) येन सः । दशवदन लक्ष्मीविभ्रमविरामः दशवदन ( दशाननः, रावण इति भाव: ) = पलाशदण्डको लेनेवाले, पवित्र भस्मके त्रिपुण्ड्रको आभूषण के समान धारण करनेवाले, कुशमय मुनिवस्त्रको पहने हुए, मूँजी मेखला से कमरको बाँधनेवाले, हरे पत्तोंका दोना लिये हुए, प्रत्येक पर्णशाला में भिक्षा के लिये जाते हुए तथा अत्यधिक इन्धनको लानेसे पिता ( अगस्त्य ) ने जिनका "इध्मवाह" ऐसा दूसरा नाम रक्खा था, ऐसे दृढ दस्यु नामके अगस्त्यपुत्रमे पवित्र किया गया, प्रतिदिशा में तोते के समान हरे कैलेके वनोंसे जिस ( आश्रम ) की पर्यन्त भूमि श्यामवर्णवाली हुई थी और अगस्त्यसे पीये गये समुद्रके मार्गका अनुसरण करनेवाली अतः वेणी ( चोटी वा प्रवाह ) बाँधनेवाली गोदावरीसे परिवेष्टित आश्रमस्थान था । जिंस आश्रमस्थान में दशरथके वचनका पालन करते हुए, राज्यको छोड़ने वाले, रावण की राज्यलक्ष्मी के विलासको समाप्त करनेवाले पञ्चवटीमे लक्ष्मणसे रचित सुन्दर पर्णाशाला में महामुनि अगस्त्यकी सेवा करते

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172