Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 82
________________ कथामुखे-अगस्त्याश्रमवर्णनम् सुखमवास। चिरशन्येऽद्यापि यत्र शाखानिलीन-निभूत-पाण्डु-कपोतपङ्क्तयोऽमल लग्नतापसाग्नि होत्र-धूमराजय इव लक्ष्यन्ने तरवः । बलिकर्म-कुसुमान्युद्धरन्त्याः सीतायाः करतलादिव सङ्क्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधि-जलमिव मुनिना निखिलमाश्रमे पान्ततिष विभक्तं महाह्रदेषु । यत्र च दशरथ-सुत-निशितशरनिकर-निपातनिहत-रजनीचर-बल बहल-रुधिर-सिक्त-मूलमद्यापि तद्रागाविद्ध-निर्गतपलाशमिवाभाति नत्रकिसलयमरण्यम् । अधनापि यत्र जलधरसमये गम्भीरमभिनव-जलधर-निवह-निनादमाकये तस्य या लक्ष्मीः ( श्रीः ) तस्याः विभ्रमस्य ( विलासस्य ) विरामः ( अवसानं, समाप्तिरिति भाव: ) यस्मात् सः । तादृशो रामः = रामचन्द्रः, महामुनि = महर्षिम् । अगस्त्यं = कुम्मसंभवम्, अनुचरन् = अनुसरन्, सीतया =जानक्या, सह =समम्, लक्ष्मणोपरचितरुचिरपर्णशाल: लक्ष्मणेन ( सौमित्रिणा ) उपरचिता ( उपनिर्मिता ) रुचिरा ( मनोहरा ) पर्णशाला ( उटज: ) यस्य सः । पञ्चवट्यांपञ्चप्रकारवृक्षविशेषयुक्ते जनस्थानाऽन्तर्गतप्रदेशे। कंचित्कालं = कंचित्समयं, सुखं = सानन्दम्, उवासवासं चकार, "वस निवासे” इति धातोलिट् । "लिटयभ्यासस्योभयेषाम्" इत्यभ्यासस्य सम्प्रसारणम् । "विरामो राम" इत्यत्र यमकालङ्कारः। चिरेति । चिरशन्ये = बहसमयान्मुनिरहिते, यत्र = यस्मिन आश्रमपदे, शाखानिलीनेत्यादिः = शाखासु ( विटपेषु) निलीनाः ( संलग्ना: ) कपोतानां (पारावतानाम् ) पङ्क्तयः ( राजयः ) येषु ते । अमलेत्यादिः = अमला ( निर्मला ) लग्ना ( सम्बद्धा ) तापसानाम् ( तपस्विनाम् ) यत् अग्निहोत्रं ( यज्ञविशेषः ) तस्य धूमराजिः (धूमपङ्क्तिः ) येषु ते । तादृशा इव, तरवः = वृक्षाः, लक्ष्यन्ते = दृश्यन्ते । “लक्ष दर्शनाऽङ्कनयोः" इति धातोः कर्मणि लट । बलिकर्मेति । बलिकर्मकुसुमानि-बलिकर्मणि ( पूजाक्रियायाम् ) कुसुमानि ( पुष्पाणि ), उद्धरन्त्याःसंचिन्वत्याः, सीतायाः = जानक्या:, करतलात् %= हस्ततलात्, लताकिसलयेषु = वल्लीपल्लवेष, संक्रान्त इव = कृतसंक्रम इव, राग: = लोहित्यं, स्फुरति = शोमते । अत्रोत्प्रेक्षाऽलङ्कारः । यत्र चेति । यत्र = आश्रमपदे। मुनिना = अगस्त्येन, निखिलं = समस्तम् । पीतोद्गीर्णजलनिधिजलं - पीतोद्गीणं (प्राक् पीतं = धयितम् ) पश्चात् = उद्गीणं ( वान्तम् ) "पूर्वकालंकसर्वजरत्पुराणनवकेवलाः समानाऽधिकरणेन' इति पूर्वकालसमासः । पोतोद्गीणं च तत् जलनिधिजलम् ( समुद्रसलिलम् ), आश्रमोपान्तवतिषु = आश्रमस्य ( स्ववासस्थानस्य ) उपान्तः (प्रान्तमागः ) तद्वर्तिषु ( तत्स्थायिषु ) । महा ह्रदेषु = गभीरजलाशयेषु । विभक्तम् इव = कृतविमागम् इव, वर्तत इति शेषः । अत्रोत्प्रेक्षालङ्कारः । यत्र चेति । दशरथसुतेत्यादि: ० = दशरथसुतौ ( रामलक्ष्मणौ ) तयोः निशिताः ( तीक्ष्णाः ) ये शराः (बाणा: ), तेषां निकर: ( समूहः ) तस्य निपातेन ( प्रहारेण ) निहता: ( व्यापादिता: ) ये रजनीचराः ( रात्रिञ्चराः, राक्षसा इत्यर्थः ) तेषां बलं ( सैन्यम् ) तस्य बहलं (प्रचुरम् ) यत् रुधिरं ( रक्तम् ) तेन सित्तम् ( उक्षितम् ) मूलम् (अधोभागः ) यस्य तत् । अत एव अद्याऽपि = इदानीमपि, तद्रागाऽऽविद्धनिर्मतपलादा = तरय ( रुधिरस्य) रागः (लौहित्यम् ) तेन आविद्धानि हुए रामचन्द्रजीने सीताजी के साथ कुछ समय तक सुखपूर्वक निवास किया था। बहुत कालसे शून्य जहाँपर आज भी शाखाओंमें लीन सफेद कबूतरोंकी पङ्क्तिवाले वृक्ष तपस्वियोंके अग्निहोत्रके निर्मल धूमपक्तिसे युक्तके समान देखे जाते हैं। जहाँपर पूजाके लिए फूलोंको चुनती हुई सीताके करतलसे लालिमा मानों संक्रान्त होकर लता और पल्लवोंमें शोभित हो रही है। जहाँ पहले पीकर पीचे उगले हुए समुद्र के समस्त जलको मानों अगस्त्य मुनिसे आश्रमके समीप रहनेवाले बड़े जलाशयोंमें विभाग कर दिया है। जहाँ नये किसलयोंवाला जङ्गल रामके तीखे बाणोंके प्रहारसे मारी गई राक्षससेनाके प्रचुर रुधिरसे सींचे गये मूलोंसे युक्त होकर आज भी उस रुधिरकी लालिमासे युक्त होकर निकले हुए पत्तोंवाला-सा मालूम होता है। जहाँ अभी मी वर्षा ऋतुमें गम्भीर मेघगर्जनको ५का०

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172